याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 473, कुल 782 में से
संदर्भ में पढ़ेंष्वाशौचकल्पा दर्शिताः; तेषां लोके समाचाराभावाञ्ज्ञातीव व्यवस्थाप्रदर्शनमुपयो- गीति नात्र व्यवस्था प्रदर्श्यते । यदा पुनर्ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भव- न्ति तदा हारीताद्युक्तमाशौचकल्पोऽनुसरणीयः ।—‘दशाहाच्छुद्ध्यते विप्रो जन्म- हानौ स्वयोनिषु । षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥’ इति । विष्णुरप्याह ( २२।२३,२४ )—‘क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रात्रेण शुद्धिर्हीनवर्णानां तूतकृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाऽऽ- शौचव्यपगमे शुद्धिः’ (२२।२१) इति बौधायनेन स्वविशेषेण दशाह इत्युक्तम्- ‘क्षत्रविट्शूद्रजातीया ये स्युर्विप्रस्य बान्धवाः । तेषामाशौचे विप्रस्य दशाहाच्छु- द्विरिष्यते ॥’ इति । अनयोश्च पक्षयोरपदनापक्षिव्यवत्वेन व्यवस्था । दास्यादीनां तु स्वामिशाौचेन स्पृश्यत्वं, कर्मानधिकारस्त्वं तु मासादाचिरेव । तदाहाङ्गिराः— ‘दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्रया मास- स्तु सूतकम् ॥’ इति प्रतिलोमानां त्वाशौचाभाव एव; ‘प्रतिलोमा धर्महीनाः’ इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थं मूत्रपुरीषोत्सर्गवत् शौचं भवत्येव ॥ २२ ॥ भाषा—(सपिण्ड व्यक्ति के जन्म एवं मृत्यु पर) क्षत्रिय को बारह दिन का, वैश्य को पन्द्रह दिन का और शूद्र को तीस दिन का आशौच होता है; किन्तु न्यायवर्ती (द्विज की सेवा में रहने वाले) शूद्र को पन्द्रह दिन का ही आशौच होता है ॥ २२ ॥ वयोवस्थाविशेषादपि दशाहाद्याशौचस्यापवादमाह— आ दन्तजन्मनः सद्य आ चूडा़न्नैशिकी स्मृता । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ २३ ॥ यावता कालेन दन्तानामुत्पत्तिस्तस्मिन्काले अतीतस्य बालस्य तत्संब- न्धिनां सद्यः शौचं चूडाकरणादर्वाङ्म्तस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्रव्यापिन्यशुद्धिः । व्रतादेश उपनयनं ततोऽर्वाक् चूडायाश्चोर्ध्वमती- तस्य त्र्यहमशुद्धिः । अत्र च ‘आ दन्तजन्मनः सद्य’ इति यद्यप्यविशेषेणा- भिधानं तथाप्यग्निसंस्काराभावे द्रष्टव्यम् ; ‘अदन्तजाते बाले प्रेते सद्य एव शुद्धिर्नास्याग्निसंस्कारो नोदकक्रिया' इति वैष्णवे अग्निसंस्काररहितस्य सद्यः शौचविधानात् । सति त्वग्निसंस्कारे ‘अहस्त्वदत्तकन्यासु बालेषु च’ (प्रा० २४) इति वक्ष्यमाण एकाहः । तथा च यमः—‘अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहोरात्रमशौचकम् ॥’ इति । नामकरणात्प्राक्सद्यः- शौचमेव नियतम् । ‘प्राङ्नामकरणात्सद्यःशुद्धिः’ इति शङ्खस्मरणात् । ३चूडाकर्मं १. स्वाम्याशौचेन । २. ऽनधिकारस्तु । ३. कर्म द्वितीये ।