याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 474, कुल 782 में से
संदर्भ में पढ़ें४१८ याज्ञवल्क्यस्मृतिः च प्रथमे तृतीये वा वर्षे स्मर्यते—'चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥' इति स्मरणात् । ततश्च दन्तजनना- दूर्ध्वं प्रथमवार्षिकचूडाकर्मपर्यन्तमेकाहः । तत्र त्वकृतचूडस्य दन्तजनने सत्यपि त्रिवर्षं यावदेकाह एव । तथा च विष्णुः ( २२।२९ )—'दन्तजातेऽप्यकृतचूडे- ऽहोरात्रेण शुद्धिः' इति । तत ऊर्ध्वं प्रागुपनायात् त्र्यहः । यत्तु मनुवचनम् (५।६७)—'नृणामकृतचूड़ानामशुद्धिर्नैशिकी स्मृता । निवृत्तचूडकानां तु त्रिरा- त्राच्छुद्धिरिष्यते ॥' इति । तस्याप्ययमेव विषयः । यत्तूनद्विवर्षमधिकृत्य तेनै- वोक्तम् ( ५।६९ )—'अरण्ये काष्ठवत्त्यक्त्वा १क्षिपेयुस्त्र्यहमेव तु' इति । यच्च वसिष्ठवचनम् ( ४।३५ )—'ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्' इति,-तत्संवत्सरचूडाभिप्रायेण । यत्तु अङ्गिरोवचनम्—'यद्यप्यकृतचूडो वै जातदन्तश्च संस्थितः । तथापि दाहयित्वैनमाशौचं त्र्यहमाचरेत् ॥' इति,—तद्वृ- र्षत्रयादूर्ध्वं २कुलधर्मपेक्षया चूडोत्कर्षे वेदितव्यम् ; 'विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस्तु नैशिकी' इति तेनैवाभिहितत्वात् । नचायमेकाहो दन्तजननाभाव इति शङ्कनीयम् । नहि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्यपि दन्तजनने अकृतचूडस्यैकाहं वदता विष्णुवचनेन विरोधश्च दुष्परिहरः स्यात् । तस्मात्प्राचीनैव व्याख्या ज्यायसी । यत्तु कश्यपवचनम्—'बालानांमदन्तजा- तानां त्रिरात्रेण शुद्धिः' इति, —तन्मातापितृविषयम् ; 'निरस्य तु पुमान्शुक्रमु- ३पैरुपस्पृशाद्भिशुद्ध्यति । बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ॥' इति जन्यज- नकसंबंधोपाधिकतया त्रिरात्रस्मरणात् । ततश्चायमर्थः—'प्राङ्नामकरणात्सद्यः शौचं तदूर्ध्वं दन्तजननादर्वागग्निसंस्कारक्रियायां एकाहः । इतरथा सद्यः शौचम् । जातदन्तस्य च प्रथमवार्षिकाच्चौलादर्वागेकाहः । प्रथमवर्षादूर्ध्वं त्रिवर्ष- पर्यन्तं कृतचूडस्य त्र्यहम् । इतरस्य त्वेकाहः । वर्षत्रयादूर्ध्वमकृतचूडस्यापि त्र्यहम् । उपनयनादूर्ध्वं सर्वेषां ब्राह्मणादीनां दशरात्रादिकमिति ॥ २३ ॥ भाषा—दाँत निकलने से पहले ही ( बालक की ) मृत्यु होने पर तत्काल शुद्धि होती है; चूडाकरणसंस्कार होने से पहले मृत्यु होने पर एक दिनरात आशौच रहता है; उसके उपरान्त व्रतबन्ध होने के पहले ( मृत्यु होने पर ) तीन दिन रात और उसके बाद ( व्रतबन्ध हो चुकने के बाद ) मृत्यु हो तो दश दिन आशौच रहता है ॥ २३ ॥ इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादमाह— अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । १. क्षिपेत् तत् त्र्यहमेव । २. कुलवर्णधर्मापेक्षया । ३. मुपस्पृश्य इति ।