याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 486, कुल 782 में से
संदर्भ में पढ़ें४३० | याज्ञवल्क्यस्मृतिः भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३४ ॥ किंच, अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्यं शुद्धिकारणं, यथा व्याख्यास्यति 'पात्रे धनं वा पर्याप्तं दत्त्वा' इति । नद्याः निदाघादावल्पतोया- या अमेध्योपहततीरायाः कूलकषवर्षाऽम्बुप्रवाहवेगः शुद्धिकृत् । 'शोधनीयस्य द्रव्यस्य मृच्च तोयं च शुद्धिकृत्', यथेह भणितम् (आ० १९१) - 'अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात्' इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसाप- चारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेदविदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम् । वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानामविख्यातदोषाणां अघमर्षणा- दिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्स- ङ्कल्पत्वादशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । 'भूत'शब्देन तद्विकारभूतो देहेन्द्रियसङ्घो लक्ष्यते । तत्र 'स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहम्' इत्येवं तदभिमानित्वेन योऽयमात्मा वर्तते स भूतात्मा, तस्य तपोविद्ये शुद्धिनि- मित्ते । 'तपः'शब्देनानेकजन्मस्वेकस्मिन्नपि वा जन्मनि जाग्रत्स्वप्नसुषुप्त्यवस्था- स्वात्मनो योऽयमन्वयः, शरीरादेश्च व्यतिरेकः सोऽभिधीयते । यथा (तै० उ० ३।२।१) 'तपसा ब्रह्म विजिज्ञासस्व' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये । 'विद्या'शब्देन चौपनिषदं 'अस्थूलमनण्वह्रस्वम्' (बृ० उ० ३।९।२६) 'असङ्गो हि' (बृ० उ० २।५।१४) 'अयमात्मा' (बृ० उ० ३।८।८) इत्यादि त्वंपदार्थनिरूपणविषया वाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः । शरीरादि- व्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनम् । क्षेत्रज्ञस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य ४'तत्त्वमसि' (छा० उ० ६।८।७) इत्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानात् ५परमा विशुद्धिर्मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास्तल्लघुक्षतरा कालशुद्धिरपीत्येवं प्रशंसार्थं भूतात्मादि- विशुद्धयभिधानम् ॥ ३२-३४ ॥ भाषा - निषिद्ध कार्य करने वालों की शुद्धि का कारण दान होता है, नदियों की शुद्धि करने वाला उनका प्रवाह वेग होता है; अशुद्ध वस्तु की मिट्टी और जल से, द्विजातियों की संन्यास से, वेद जानने वालों की तप (वेदाभ्यास) से, विद्वानों की क्षमा से, शरीर की जल से, गुप्त पापों १. शोधनम् । २. न्द्रियसंबन्धो । ३. जाग्रत्स्वप्न । ४. तत्त्वमसी- त्यादि । ५. परमात्मशुद्धिः ।