याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 487, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४३१ की शुद्धि जप से होती है और मन की शुद्धि का कारण सत्य बताया गया है। भूतात्मा की शुद्धि का कारण तप और विद्या है तथा बुद्धि को शुद्ध करने वाला ज्ञान है। क्षेत्रज्ञ (अर्थात् तप और विद्या द्वारा विशुद्ध) की शुद्धि ईश्वर के ज्ञान से बताई गई है ॥ ३२-३४ ॥ इत्याशौचप्रकरणम् । अथआपद्धर्मप्रकरणम् २ ‘आपद्यपि च कष्टायां सद्यःशौचं विधीयते’ (प्रा० १९) इत्यापदि मुख्या- शौचकल्पानुष्ठानासम्भवेन सद्यःशौचाद्यनुकल्पमुक्त्वेदानीं तत्प्रसङ्गादापदि ‘प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा’ ( आ० ११८) इत्याद्युक्तयाजना- दिमुख्यवृत्त्यसम्भवेन वृत्त्यन्तरमाह- क्षात्रेण कर्मणा जीवेद्वैशां वाप्यापदि द्विजः निस्तीर्य तामथात्मानं पावयित्वा न्यसेत्पथि ॥ ३५ ॥ द्विजो विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुमसमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशक्नुवन् वैश्य- संबन्धिना कर्मणा वाणिज्यादिना जीवेत्, न तु शूद्रवृत्त्या । तथा च मनुः (१०।८२)-'उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥' इति । तथा आपद्यपि न हीनवर्णेन ब्राह्मी वृत्तिराश्रय- णीया किंतु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसंबन्धिनी, वैश्येन च शौद्री, इत्येवं स्वानन्तरहीनवर्णवृत्तिरेव । 'अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्ठे- रन्नतु कदाचिज्ज्यायसीम्' इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथा च स्मृत्यन्तरम्-'उत्कृष्टं वाऽपकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥' इति । शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । यथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनरापद्गतसर्ववर्णसाधारणे¹ इति । शूद्रश्चापद्गतो वैश्यवृत्त्या शिल्पैर्वा जीवेत् । 'शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितमाचरन्॥'(आ०१२९) इति प्रागुक्तत्वात् ॥ मनुना चात्र विशेषो दर्शितः ( १०।१००)- 'यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥' इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्तिरूहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पाव- यित्वा पथि न्यसेत् । स्ववृत्तावात्मानं स्थापयेदित्यर्थः । यद्वाऽयमर्थः-गर्हित- १. साधारणे हि ते इति ।