याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 496, कुल 782 में से
संदर्भ में पढ़ें४४० याज्ञवल्क्यस्मृतिः ‘नक्तं वाऽन्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्ट- मकालिकः ॥’ इति । एतेषां च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥५०॥ भाषा—चान्द्रायण व्रत से समय बितावे अथवा सदैव कृच्छ्र व्रत करे । एक पक्ष या एक मास बीतने पर भोजन करे अथवा दिन बीतने पर ( रात को ) भोजन करे ॥ ५० ॥ स्वंप्याद्भूमौ शुचौ रात्रौ दिवा संप्रपदैर्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ ५१ ॥ किंच, आहारविहारावसरवर्ज्यं रात्रौ शुचिः प्रयत्नः स्वप्यात् नोपविशे- न्नापि तिष्ठेत् । दिवास्वप्नस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वाच्च तन्निवृत्तिपरम् । तथाभूमावेव स्वप्यात् । तच्च भूमावेव, न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैरटनैर्नयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कंचित्कालं स्थानं कंचित्त्वोपवेशनमित्येवं वा दिनं नयेत् । योगाभ्यासेन वा । तथा च मनुः (६।२९) ‘विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः’ इति । आत्मनः संसि- द्धये ब्रह्मस्वप्राप्तये । ‘तथा’शब्दाच्चित्तिपरिलोडनाद्वा नयेत् । ‘भूमौ विपरिवर्तेत तिष्ठेद्व्रा प्रपदैर्दिनम्’ (६।२२)—इति मनुस्मरणात् । प्रपदैः पादाग्रैः ॥ ५१ ॥ भाषा—रात्रि को पवित्र होकर ( नंगी ) भूमि पर सोवे और दिन घूमकर बितावे, अथवा स्थान ( खड़े होने ) और आसन ( बैठने ) के विहार से या योगाभ्यास करते हुए दिन बितावे ॥ ५१ ॥ ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ५२ ॥ किंच, ‘त्र्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः’ इति दर्शनात् ग्रीष्मे चैत्रादि- मासचतुष्टये चतसृषु दिक्षु चत्वारोऽग्नयः उपरिष्टादादित्य इत्येवं पञ्चानामग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधारा- विनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीर्षादिमासचतुष्टये क्लिन्नं वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् । यथा शरीरशोषस्तथा यतेत —‘तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः’ ( ६।२४ ) इति मनुस्मरणात् ॥ ५२ ॥ भाषा—ग्रीष्म ऋतु में पंचाग्नि के बीच बैठे; वर्षा ऋतु में भींगी हुई भूमि पर सोवे; हेमन्त ऋतु में गीले वस्त्र पहन कर रहे अथवा अपनी शक्ति के अनुसार तपस्या करे ॥ ५२ ॥ यः कण्टकैर्विंतुदति चन्दनैश्च विलिम्पति । अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥ ५३ ॥ १. शुचिर्भूमौ स्वपेद्रात्रौ दिवसं प्र । २. चन्दनैर्यो विलि।