याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 497, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४४१ किंच, यः कश्चित्कण्टकादिभिर्विविधमङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत् । यश्चन्दनादिभिरुपलिम्पति सुखयति तस्य न परितुष्येत् । किंतु तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३ ॥ भाषा - जो काटा चुभाता हो और जो चन्दन का लेप करता हो उन पर क्रमशः न क्रुद्ध होवे और न प्रसन्न होवे । इन दोनों पर ही समान दृष्टि- कोण रखे ( अर्थात् उदासीन होकर रहे ) ॥ ५३ ॥ अग्निपरिचर्याक्षमं प्रत्याह— अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षमाचरेत् ॥ ५४ ॥ अग्नीनात्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः । मिताशनः स्वल्पाहारः । 'अपि' शब्दात्फलमूलाशनश्च भवेत् । यथाह मनुः (६।२५)—अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निर- निकेतः स्यान्मुनिर्मूलफलाशनः ॥' इति । मुनिर्मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्वाचरेत् ॥ ५४ ॥ भाषा-अग्नियों का अपनी आत्मा में ही समारोप करके, वृक्ष को ही आवास बनाकर ( अर्थात् वृक्ष के नीचे ही निवास करते हुए ) अल्पा- हारी होकर और जीवन यात्रा भर के लिये ही अन्न वानप्रस्थों के घर से मांगे ॥ ५४ ॥ यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यमित्यत आह— ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः । ग्रामाद्वा भैक्षमाहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान्भुञ्जीत । ग्राम्य- भैक्षविधानान्मुन्यन्ननियमोऽर्थलुप्तः । यदा पुनरष्टभिर्प्रासैः प्राणधारणं न संभवति तदा 'अष्टौ ग्रासा मुनेर्भैक्षं वानप्रस्थस्य षोडशे'ति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥— भाषा-अथवा गांव से अन्न लाकर मौन होकर केवल आठ ग्रास ( कौर ) खावे । सकलानुष्ठानासमर्थं प्रत्याह— वायुभक्षः प्रागुदीचीं गच्छेद्व्राऽऽध्वर्मसंक्षयात् ॥ ५५ ॥ अथवा, -वायुरेव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीमैशानीं दिशं गच्छेत् । आ वर्मसंक्षयात् वर्म वपुस्तस्य निपातपर्यन्तमकुटिलगतिर्ग- च्छेत् । यथाह मनुः ( ६।३१ )—'अपराजितां वास्थाय गच्छेद्दिशमजिह्मगः' इति । महाप्रस्थानेऽप्यशक्तौ भृगुपतनादिकं वा कुर्यात् ; 'वानप्रस्थो वीरोऽध्वानं १. वीराधानं ।