याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 498, कुल 782 में से
संदर्भ में पढ़ें४४२ याज्ञवल्क्यस्मृतिः ज्वलनाम्बुप्रवेशनं भृगुपतनं वानुतिष्ठेत्' इति स्मरणात् । स्नानाचमनादिधर्मा ब्रह्मचारिप्रकरणविहिताश्चाविरोधिनोऽस्यापि भवन्ति; 'उत्तरेषां चैतदविरोधि' इति गौतमस्मरणात् । एवं प्रागुदितैन्दवादिदीक्षामहाप्रस्थानपर्यन्तं तनुत्यागा- न्तमनुतिष्ठन्ब्रह्मलोके पूज्यतां प्राप्नोति । यथाह मनुः ( ६।३२ )—'आसां मह- र्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥' इति । ब्रह्मलोकः स्थानविशेषो नतु नित्यं ब्रह्म । तत्र 'लोक'शब्दस्याप्रयोगात् । तुरीयाश्रममन्तरेण मुख्यनङ्गीकाराच्च । नच 'योगाभ्यासेन वा पुनः' (प्रा० ५३) इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशङ्कनीया । सालोक्यादिप्राप्त्यर्थ- त्वेनापि तदुपपत्तेः । अत एव श्रुतौ 'त्रयो धर्मस्कन्धा' इत्युपक्रम्य 'यज्ञोऽध्ययनं दानमिति प्रथमः, तप एवेति द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयः । अत्यन्त- माचार्यकुल एवमात्मानमवसादयन्निति गार्हस्थ्यवानप्रस्थनैष्ठिकत्वस्वरूपमभि- धाय सर्व एते पुण्यलोका भवन्तीति त्रयाणामाश्रमिणां पुण्यलोकप्राप्तिमभिधाय ब्रह्मसंस्थोऽमृतत्वमेति' इति पारिशेष्यात्परिव्राजकस्यैव ब्रह्मसंस्थस्य मुक्तिलक्षणा- मृतत्वप्राप्तिरभिहिता । यदपि 'श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते' इति गृहस्थस्यापि मोक्षप्रतिपादनं तद्भावान्तरानुभूतपारिव्राज्यस्येत्यवगन्तव्यम् ॥५५॥ भाषा—अथवा वायु का भक्षण करते हुए ( उपवास करते हुए ) ईशान दिशा की ओर तब तक चलता जाये जब तक शरीर पात नहीं हो जाता ॥ ५५ ॥ इति वानप्रस्थधर्मप्रकरणम् । अथ यतिधर्मप्रकरणम् ४ वैखानसकर्माननुक्रम्य क्रमप्राप्तानपरिव्राजकधर्मान्सांप्रतं प्रस्तौति— वनाद् गृहाद्वा कृत्वेष्टिं सौर्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥ ५६ ॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ५७ ॥ यावता कालेन तीव्रतपःशोषितवपुषो विषयकषायपरिपाको भवति पुनश्च मदोद्भवाशङ्का नोद्भाव्यते तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्यात् । 'वन-गृह-शब्दाभ्यां तत्संबन्ध्याश्रमो लक्ष्यते । 'मोक्ष'शब्देन च मोक्षैकफलकश्चतुर्थाश्रमः ॥ अथवा, गृहाद् गार्हस्थ्यादनन्तरं मोक्षे मनः कुर्यात् । अनेन च पूर्वोक्तश्चतुराश्रमसमुच्चयपक्षः पाक्षिक इति द्योतयति । तथा १. वानप्रस्थधर्मान् । २. सर्व ।