याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 500, कुल 782 में से
संदर्भ में पढ़ें४५४ याज्ञवल्क्यस्मृतिः
ङ्गादिष्वधिक्रियते तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः । अतश्चोपनीतस्य वेदाध्ययनमेवावश्यकम् । कृतदाराग्निपरिग्रहस्य प्रजोत्पादनमपीति निश्चयम् ॥ ५६-५७ ॥ भाषा—वानप्रस्थ अथवा गृहस्थाश्रम के उपरान्तसम्पूर्ण वेद से संबंद्ध दक्षिणा वाली प्रजापति देवता की इष्टि करके और उसके अन्त में उन्हीं अग्नियों का अपने आत्मा में समारोप करके, वेदों का अध्ययन करके, जप परायण होकर, पुत्रवान् होने पर, (दीन दुःखियों को) यथाशक्ति अन्न देकर, अग्नि में होम और शक्ति के अनुसार यज्ञ करके मोक्षप्राप्ति की (संकल्पपूर्वक) इच्छा करे; अन्यथा (ऐसा न होने पर) मोक्ष की इच्छा न करे ॥ ५६-५७ ॥ एवमधिकारिणं निरूप्य तद्धर्मानाह— सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥ ५८ ॥ सर्वभूतेभ्यः प्रियाप्रियकारिभ्यो हित उदासीनो, न पुनर्हिताचरणः । 'हिंसा- नुग्रहयोरनारम्भी' (३।२४,२५) इति गौतमस्मरणात् । १शान्तो बाह्यान्तः- करणोपरतः, त्रयो दण्डा अस्य सन्तीति त्रिदण्डी । ते च दण्डा वैणवा ग्राह्याः । 'प्राजापत्येष्टयनन्तरं त्रीन्वंशवान्दण्डान्मूर्धप्रमाणान्दक्षिणेन पाणिना धारयेत्सव्येन सोदकं कमण्डलुम्' इति स्मृत्यन्तरदर्शनात् । एकं वा दण्डं धारयेत् 'एकदण्डी त्रिदण्डी वा' (३।१०।४०) इति बौधायनस्मरणात् । 'चतुर्थमाश्रमं गच्छेद् ब्र- ह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसंगविवर्जितः ॥' इति चतुर्विं- शतिमते दर्शनाच्च । तथा शिखाधारणमपि वैकल्पिकम् । 'मुण्डः शिखी वा२' (३।२२) इति गौतमस्मरणात् । 'मुण्डोऽडममोऽक्रोधोऽपरिग्रहः' (१७।६) इति वसिष्ठस्मरणात् । तथा यज्ञोपवीतधारणमपि वैकल्पिकमेव । 'सशिखान्के- शांश्छिकृन्त्य विसृज्य यज्ञोपवीतम्' इति काठकश्रुतिदर्शनात्— 'कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । केशांन्यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः ॥' इति बाष्कलस्मरणाच्च । 'अथ यज्ञोपवीतमप्सु जुहोति भूःस्वाहेति अथ दण्डमादत्ते सखे मां गोपाय' इति परिशिष्टदर्शनाच्च । यद्यशक्तिस्तदा कन्थापि ग्राह्या । 'काषायी मुण्डस्त्रिदण्डी सकमण्डलुपवित्रपादुकासनकन्थामात्रः' इति देवल- स्मरणात् । शौचार्थं कमण्डलुसहितश्च भवेत् । एकारामः प्रव्रजितान्तरेणा- सहायः संन्यासिनोभिः स्त्रीभिश्च । 'स्त्रीणां चैके' इति बौधायनेन स्त्रीणामपि प्रव्रज्यास्मरणात् । तथा च दक्षः— 'एको भिक्षुर्यथोक्तश्च द्वावेव मिथुनं स्मृतम् ।
१. शान्तः करणोपरतः । २. मनोपरिग्रह ।