याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 503, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४५७ भय न उत्पन्न करते हुए (अद्वैत के साक्षात्कार से) मुक्त हो जाता है ॥ ६१ ॥ कर्त्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात्स्वाऽन्त्यकरणाय च ॥ ६२ ॥ किं च, विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषचयः प्राणायामैः कर्तव्या; तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञानोत्प- त्तिनिमित्तत्वात् । एवं च सति विषयासक्तिसञ्जनितदोषात्मकप्रतिबन्धक्षये सत्यात्मध्यानधारणादौ स्वतन्त्रो भवति । तस्माद्भिक्षुकेण त्वेषा शुद्धिर्विशे- षतोऽनुष्ठेया; तस्य मोक्षप्रधानत्वात् । मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभत्वात् । यथाह मनुः ( ६।७१ )—'दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥' इति ॥ ६२ ॥ भाषा—संन्यासी को विशेषतया अन्तःकरण की शुद्धि (प्राणायाम द्वारा) करनी चाहिए, क्योंकि वह ज्ञान उत्पन्न करने वाली और (आत्मध्यान एवं धारणा आदि में) स्वतन्त्र बनाने वाली होती है ॥ ६२ ॥ इन्द्रिय निरोधोपायतया संसारस्वरूपनिरूपणमाह— अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा । आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ६३ ॥ भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । वैराग्यसिद्धयर्थं मूत्रपुरीषादिपूर्णनानाविधगर्भवासा अवेक्षणीयाः पर्यालोच- नीयाः । 'च'शब्दाज्जनोपरमावपि तथा निषिद्धाचरणादिक्रियाजन्या महारौर- वादिरिनरयपतनरूपा गतयः । तथा आधयो मनःपीडाः, व्याधयश्च ज्वरातीसा- राद्याः शारीराः, क्लेशाः अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च, जरा वलीपलि- ताद्यभिभवः रूपविपर्ययः खञ्जकुब्जत्वादिना प्राक्तनस्य रूपस्यान्यथाभावः, तथा श्वसूकरखरोरगाद्यनेकजातिषु भव उत्पत्तिः । तथा 'इष्टस्याप्राप्तिः अनिष्टस्य प्राप्तिः' (योगसू० १-२) इत्यादिवहुतरक्लेशावहं संसारस्वरूपं पर्यालोच्य तत्परिहारार्थमात्मज्ञानोपायभूतेन्द्रियजये प्रयतेत ॥ ६३ ॥ भाषा—गर्भवास (के कष्टों) एवं (निषिद्ध) कर्म के करने से उत्पन्न होने वाली गतियों (महारौरव नरक आदि), मानसिक कष्टों, शारीरिक रोगो, वृद्धावस्था, रूप के (लंगड़ा, कुबड़ा आदि होने से) बिगड़ने, क्षुद्र एवं गन्दे जीवों की जाति में जन्म, इष्ट की अप्राप्ति एवं अनिष्ट की प्राप्ति का विचार करना चाहिए ॥ ६३ ॥ १. मोक्षप्रसाधनत्वात् । २. रूपविपर्ययाः ।