याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 504, कुल 782 में से
संदर्भ में पढ़ें४४८ याज्ञवल्क्यस्मृतिः एवमवेद्यानन्तरं किं कार्यमित्यत आह— ध्यानयोगेन 'संपश्येत्सूक्ष्मं आत्मात्मनि स्थितिः ॥ ६४ ॥ योगश्चित्तवृत्तिनिरोधः, आत्मैकाग्रता ध्यानं, तस्या एव बाह्यविषयस्थोपरमः ध्यानयोगेन निदिध्यासतापर्यायेण सूक्ष्मशरीरप्राणादिभ्यतिरिक्तः क्षेत्रज्ञ आत्मा आत्मनि ब्रह्मण्यवस्थितः इत्येवं तत्त्वं पदार्थयोरभेदं सम्यक् पश्येदपरोक्षीकुर्यात् । अत एव श्रुतौ ( बृ० उ० ५।४।५ ) 'आत्मा वाऽरे द्रष्टव्यः' इति साक्षात्काररूपं दर्शनमनूद्य तत्साधनत्वेन 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' ( बृ० ५।४।५) इति श्रवणमनननिदिध्यासनानि विहितानि ॥ ६४ ॥ भाषा—और ध्यान ( चित्त की एकाग्रता ) और ध्यान ( चित्तवृत्ति के निरोध ) से आत्मा को ब्रह्म में स्थित देखे ॥ ६४ ॥ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥ ६५ ॥ किंच, प्राक्तनश्लोकोक्तात्मोपासनारूपे धर्मे नाश्रमों दण्डकमण्डल्वादिधारणं कारणम् । यस्मादसौ क्रियमाणो भवेदेव नातिदुष्करः । तस्माद्यदात्मनोऽपथ्य- मुद्वेगकरं परुषभाषणादि तत्परेषां न समाचरेत् । अनेन ज्ञानोत्पत्तिहेतुभूतान्तः- करणशुद्ध्यापादनत्वेनान्तरङ्गत्वाद्वागद्वेषप्रहाणस्य प्रधानत्वेन प्रशंसार्थमाश्रम- निराकरणं न पुनस्तत्परित्यागाय तस्यापि विहितत्वात् । तदुक्तं मनुना ( ६।६६ )—'दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥' इति ॥ ६५ ॥ भाषा—किसी धर्म के आचरण में कोई विशेष आश्रम कारण नहीं है; वह तो करने से होता है । इसलिए अपने को जो न रुचे ( उद्वेग कर लगे ) वह दूसरो के लिए नहीं करना चाहिये ॥ ६५ ॥ सत्यमस्तेयमक्रोधो ह्रीः शौचं धीर्धृतिर्दमः । संयतेन्द्रियता विद्या 'धर्मः सर्व उदाहृतः ॥ ६६ ॥ किंच, सत्यं यथार्थप्रियवचनम् , अस्तेयं परद्रव्यानपहारः, अक्रोधोऽप- कारिण्यपि क्रोधस्यानुत्पादनम् , ह्रीर्लज्जा शौचमाहारादिशुद्धिः, धीर्हिताहित- विवेकः, धृतिरिष्टवियोगेऽनिष्टप्राप्तौ प्रचलितचित्तस्य यथापूर्वमवस्थापनम . दमो मदत्यागः, संयतेन्द्रियता अप्रतिषिद्धेष्वपि विषयेष्वनतिसङ्गः, विद्या आत्मज्ञानम्, एतैः सत्यादिभिरनुष्ठितैः सर्वो धर्मोऽनुष्ठितो भवति । अनेनं दण्डकमण्डल्वादि- धारणबाह्यलक्षणात् ( बृ० उ० ४।५।६ ) सत्यादीनामात्मगुणानामन्तरङ्गतां द्योतयति ॥ ६६ ॥ १. संदृश्यः सूक्ष्म । २. सर्वधर्म उदाहृतः ।