याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 510, कुल 782 में से
संदर्भ में पढ़ें४५४ याज्ञवल्क्यस्मृतिः किंञ्च, गर्भस्यैकं हृदयं गर्भिण्याञ्चापरमित्येवं द्विहृदया तस्याः स्त्रिया यदभि- लषितं तत् ^२दौहृदं, तस्याप्रदानेन गर्भो विरूपतां मरणरूपं वा दोषं प्राप्नोति । तस्मात्तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रियाः यत्प्रियमभि- लषितं तत्संपादनीयम् । तथा च सुश्रुते—'द्विहृदयां नारीं दौहृदिनीमाचक्षते, तदभिलषितं दद्यात् , वीर्यवन्तं चिरायुषं पुत्रं जनयति' इति । तथा च व्याया- मादिकमपि गर्भग्रहणप्रभृति तया परिहरणीयम् । 'ततःप्रभृति व्यायामव्यवाया- तितर्पणदिवास्वप्नरात्रिजागरणशोकभययानारोहणवेगधारणकुक्कुटासनशोणितमो- क्षणानि परिहरेत्' इति तत्रैवाभिधानात् । 'गर्भ'ग्रहणं च श्रमादिभिर्लिङ्गै रवगन्त- व्यम् । 'सद्योगृहीतगर्भायाः श्रमो ग्लानिः पिपासा ^३सक्थिसदनं शुक्रशोणित- योरैवबन्धः स्फुरणं च योनेः' इत्यादि तत्रैवोक्तम् ॥ ७९ ॥ भाषा—दोहद (गर्भिणी द्वारा चाही हुई वस्तु) न देने पर गर्भ में कुरूपता या मरण का दोष आ जाता है; अतएव गर्भिणी स्त्री को जो प्रिय लगे उसे अवश्य करना चाहिए ॥ ७९ ॥ स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ८० ॥ किंञ्च, तृतीये मासि प्रादुर्भूतस्याङ्गसङ्घस्य चतुर्थे मासि स्थैर्यं स्थेमा भवति । पञ्चमे लोहितस्योद्भव उत्पत्तिः । तथा षष्ठे बलस्य वर्णस्य कररुहरोम्णां च संभवः ॥ ८० ॥ भाषा—चौथे महीने में अङ्गों में स्थिरता आती है, पाँचवे मांस में रुधिर की उत्पत्ति होती है और छठे महीने में बल, रंग, नाखून एवं रोम आ जाते हैं ॥ ८० ॥ मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः । सप्तमे चाष्टमे चैवं त्वङ्मांसस्मृतिमानपि ॥ ८१ ॥ किंञ्च, असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतसा चेतनया च युक्तो नाडीभिर्वाहिनीभिः स्नायुभिरस्थिबन्धनैः शिराभिर्वातपित्तश्लेष्मवाहिनी- भिश्च संयुक्तः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ८१॥ भाषा—यह (पूर्वोक्त गर्भ) सातवें मास में मन, चैतन्य, (वायुवाहिनी) नाडियों (अस्थि को बाँधने वाली) स्नायुओं एवं (वात-पित्त-श्लेष्मवाहिनी) सिराओं से युक्त होता है, तथा आठवें मास में त्वचा, मांस और स्मरणशक्ति से युक्त होता है ॥ ८१ ॥ १. द्विहृदयायाः स्त्रिया । २. दोहदम् । ३. सक्थिसीदनं । ४. रनु- बन्धः । ५. वाऽपि ।