याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 511, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४५५ १पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ८२ ॥ किंच, त२स्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनःपुनरतितरां चञ्चलतया शीघ्रं गच्छति । अतोऽष्टमे मासि जातो गर्भः प्राणैर्वियुज्यते । अनेनौजःस्थितिरेव जीवनहेतुरिति दर्शयति ॥ ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम्—'हृदि तिष्ठति यच्छुद्धमीषदुष्णं सपीतकम् । ओजः शरीरे संख्यातं तन्नाशान्नाशमृच्छति ॥' इति ॥ ८२ ॥ भाषा—आठ महीने के गर्भ का ओज पुनः पुनः कभी गर्भ की ओर तो कभी माता की ओर शीघ्रता से जाता है । इसलिये आठवें महीने में उत्पन्न होने पर गर्भ से प्राण निकल जाता है ॥ ८२ ॥ नवमे दशमे ३वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्ज्वरः ॥ ८३ ॥ किंच, एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे ‘अपि’शब्दात्प्राक् सप्तमेऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरित- स्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्ज्वरो दुःसहदुःखा- भिभूयमानो निःसार्यते धनुर्यन्त्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गमस- मनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति । 'जातः स वायुना स्पृष्टो न स्मरति पूर्वं जन्म मरणं कर्म च शुभाशुभम्' इति निरुक्तख्यातादशेऽ- भिधानात् ॥ ८३ ॥ भाषा—नववें या दसवें मास में प्रबल प्रसूति वायु (प्रसव को प्रेरित करने वाली वायु) द्वारा गर्भ कुछ ज्वर के साथ छिद्र से उस प्रकार बाहर कर दिया जाता है जैसे किसी धनुषरूपी यन्त्र से प्रेरित होकर बाण बाहर निकलता है ॥ ८३ ॥ कायस्वरूपं विवृण्वन्नाह — तस्य षोढा शरीराणि षट् ४त्वचो धारयन्ति च । षडङ्गानि ५तथाऽस्थ्नां च सह षण्णत्या शतत्रयम् ॥ ८४ ॥ तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरपाकहेतुभूतषडधिष्ठानयोगित्वेन; तथा हि—अन्नरसो जाठ- राग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनाग्निना पच्यमानं १. पुनर्गर्भं पुनर्धात्री । २. तथाष्टम । ३. मासि । ४. त्वचं । ५. तथास्थीनि सह ।