याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 539, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४८३ जन्यैश्च सच्छिद्रादित्यादिदर्शनैः, तथा स्वप्नजैः खरवराहमयुक्तथारोहणादिज्ञानैः, तथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राप्त्या देहेऽनुपपद्य- मानतया, तथा मन्त्रौषधिफलैः प्रेक्षापूर्वकैः क्षुद्रकमर्माद्यैः सान्तारम्पस्परया वा देहेऽनुपपद्यमानैर्वैद्यमानं हे मुनयः ! वित्त जानीत ॥ १७०-१७३ ॥ भाषा- वेद, शास्त्र, अनुभव, जन्म, मृत्यु, (जन्मान्तर के कर्मों का फल भोगना निश्चित होने से) पीडा, गति, अगति (न चलना), सत्य, असत्य, श्रेय (हितप्राप्ति), सुख और दुःख, शुभ और अशुभ कर्म, निमित्त (भूकंप आदि), शकुन का ज्ञान, ग्रह और उनके संयोग से उत्पन्न फल, (अश्विनी आदि नक्षत्रों से भिन्न) तारा और नक्षत्रों (अश्वयुज् आदि) की गति, जागते और सोते समय (स्वप्न में) देखी गई वस्तुओं, आकाश, वायु, ज्योति (सूर्य आदि), जल, पृथिवी, मन्वन्तर की प्राप्ति, युग का परिवर्तन, मन्त्रों एवं ओषधियों का फल - इन सबसे (देह से परे) आत्मा का अस्तित्व सिद्ध होता है जो सम्पूर्ण जगत् का कारण है; ऐसा आप लोग समझें ॥ १७०-१७३ ॥ अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः । इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ १७४ ॥ स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः । निमेष'श्चेतना यत्न आदानं पाञ्चभौतिकम् ॥ १७५ ॥ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ १७६ ॥ किंच, अहंकृतिरहंकारः, स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्वोधनि- बन्धना स्तन्यपानादिगोचरा, सुखमैहिकम्, धृतिर्धैर्यम्, इन्द्रियान्तरेण हि दृष्टेऽर्थे इन्द्रियान्तरस्य संचारो 'यमहमद्राक्षं तमहं स्पृशामि' इत्येवमनुसन्धान- रूप इन्द्रियान्तरसंचारः, अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम्, पूर्व- श्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वमित्यपौनरुक्त्यम्, तथा,- धारणं शरीरस्य, जीवितं प्राणधारणम्, स्वर्गो नियतदेहान्तरोपभोग्यः सुख- विशेषः, स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतनाथ लिङ्गत्वम् ; अत्र स्वरूपेणेत्यपौनरुक्त्यम्, तथा भावानामिन्द्रियादीनां प्रेरणम्; मनसो गतिश्चेतनाधिष्ठानव्याप्ता, निमेषः प्रसिद्धः, तथा पञ्चभूतानामुपादानम्, १. उन्मेषश्चेतना २. लिङ्गानि दृश्यन्ते ३. सर्वज्ञ ४. श्लोकेऽनुगमन । ५. द्योतकत्या । ३१ या०