याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 538, कुल 782 में से
संदर्भ में पढ़ेंये पुनस्तस्याधस्ताद्रश्मयो मृदुप्रभास्तैरिह फलोपभोगार्थं संसारे संसरति अवशः स्वकृतकर्मपरतन्त्रः ॥ १६९ ॥ भाषा—और जो उन नाड़ियों के नीचे की कम ज्योति वाली नाड़ियाँ हैं उनके द्वारा जीव अपने कर्मों का फल भोगने के लिए बाध्य होकर इस संसार में पुनः आता है ॥ १६९ ॥ भूतचैतन्यादिपक्षं परिजिहीर्षुराह— वेदैः शास्त्रैः सविज्ञानैर्जन्मनां मरणेन च । आर्त्या गत्या तथाऽगत्या सत्येन ह्यनृतेन च ॥ १७० ॥ श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः । निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ १७१ ॥ तारानक्षत्रसंसारैर्जागरैः स्वप्नजैरपि । आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ॥ १७२ ॥ मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि । वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ १७३ ॥ वेदैः 'स एष नेति नेत्यात्मा' (बृह. ३।९।२६) इति, 'अस्थूलमनण्व- ह्रस्वमपाणिपादम्' (बृ. ३।८।८) इत्यादिभिः । शास्त्रैश्च मीमांसान्वीक्षिक्या- दिभिः । विज्ञानैश्च 'ममेदं शरीरम्' इत्यादिदेहव्यतिरिक्तात्मानुभवैः । तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम् । आर्त्या जन्मान्तरगतकर्मानुष्ठान्नियतया, तथा गमनागमनाभ्यां ज्ञानेच्छाप्रय- त्नाधारनियताभ्यामपि भौतिकदेहातिरिक्तात्मानुमानम् । नहि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । न च तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति । तदारब्धस्तम्भ- कुम्भादिभौतिकेष्वनुपलम्भात् । नच मदशक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् ; शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तश्चैतन्यादिसमवा- य्यङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे श्रेयो हितप्राप्तिः, सुखदुःखे आमुष्मिके, तथा शुभ- कर्मानुष्ठानमशुभकर्मपरित्यागः । एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि, शाकुनज्ञानं पिङ्गलादिपत्रित्रचेष्टालिङ्गकं ज्ञानम् , ग्रहाः सूर्यादयः, तत्संयोगजैः फलैः, तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्रा- ण्याश्वयुक्प्रभृतीनि, एतेषां संचारैः, शुभाशुभफलोद्योतनैः जागरैर्जागरावस्था-
१. विद्यमानं सर्वस्य जगतस्तथा । २. कारणगुणक्रमेण । ३. रक्त- चैतन्यादि ।