याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 543, कुल 782 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण दिया गया है:
प्रायश्चित्ताध्यायः ४८७ सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ १८७ ॥ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥ १८८ ॥ किंच, सप्तर्षयः प्रसिद्धाः, नागवीथी ऐरावतपन्थाः, तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्येया मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपो- ब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिताः आभूतसंप्लवं प्राकृत- प्रलयपर्यन्तमवतिष्ठन्ते । तत्र च स्थिताः सृष्ट्यादावाध्यात्मिकधर्माणं प्रवर्त्तकाः ॥ १८७-१८८ ॥ भाषा—सप्तर्षियों और नागवीथी (ऐरावतपथ) के बीच उतने ही मुनि सभी क्रियाओं से विरत होकर (केवल ज्ञाननिष्ठ होकर), तपस्या और ब्रह्मचर्य से युक्त होकर, संग त्याग कर, मेधा से युक्त होकर, देवलोक का आश्रय लेकर महाप्रलय तक स्थित रहते हैं ॥ १८७-१८८ ॥ कथंभूतास्ते मुनय इत्यत आह— यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् ॥१८९॥ यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश्च नित्य- भूता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यदन्यदायूर्वे- दादिकं वाङ्मयं, तदपि यत्सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्त्तकाः । एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ १८९ ॥ भाषा—जिन मुनियों से वेद, पुराण, अङ्गविद्याएँ, उपनिषद्, इति- हासात्मक श्लोक, सूत्र, भाष्य और सभी दूसरे (आयुर्वेद आदि) वाङ्मय प्रचलित हुए हैं ॥ १८९ ॥ ततः किमित्यत आह— वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । श्रद्धोपवासः स्वातन्त्र्यमात्मनो ज्ञानहेतवः ॥ १९० ॥ वेदस्य नित्यत्वे सति तत्प्रामाण्यबलाद्वेदानुवचनादयः सत्त्वशुद्ध्यापादनद्वा- रेणात्मज्ञानस्य हेतव इत्युपपन्नं भवति ॥ १९० ॥
१. सप्तर्षिनागवीथ्यन्ते । २. यच्चान्यद्वाङ्मयं क्वचित् ।