याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 546, कुल 782 में से
संदर्भ में पढ़ें४६० याज्ञवल्क्यस्मृतिः ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः । धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ॥ २०१ ॥ ॰ ऊरुस्थावुत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः, तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखं किंचिदुन्नाय्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः, स्वस्थः कामक्रोधादिरहितः, दन्तैर्दन्तानसंस्पर्शयन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः, तथा संवृ- तास्यः पिहिताननः, सुनिश्चितो निष्प्रकम्पः, तथा सम्यगिन्द्रियसम्मूहं विषये- भ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन्, द्विगुणं त्रिगुणं वा प्राणायामभ्यासमुपक्रमेत् । ततो वशीकृत- पवनेन योगिना योऽसौ हृदये दीपवदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः । तत्र च हृदि आत्मानं मनोगोचरतया धारयेत् । तथा धारणां च धारयेत् । धारणास्वरूपं च जान्वग्रभ्रमणेनच्छोटिकादानकालो मात्रा, ताभिः-पञ्चदशमा- त्राभिरधमः प्राणायामः, त्रिंशद्भिर्मध्यमः, पञ्चचत्वारिंशद्भिरुत्तम इति । प्राणा- यामत्रयात्मिकैका धारणा, तास्तिस्रो 'योग'शब्दवाच्यास्ताश्च धारयेत् । यथो- क्तमन्यत्र—'संभ्रम्य च्छोटिकां दद्यात्कराग्रं जानुमण्डले । मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृतः ॥ मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणा तथा । त्रिभि- स्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव च ॥' इति ॥ १९८-२०१ ॥ भाषा—पद्मासन लगाकर ( जंघों के ऊपर चरणों को उलटा रखकर ) बायें हाथ में दाहिने हाथ को उत्तान रखकर, मुख को कुछ ऊपर उठाकर और वक्षस्थल से रोक कर, आँखों को बन्दकर, काम, क्रोध आदि का त्याग करके, दाँतों को विना मिलाये हुए, तालु स्थान में जिह्वा को निश्चल रखकर, मुँह बन्द करके, अत्यन्त निश्चल होकर ( बिना हिले डुले ), इन्द्रियों को विषयों से पूर्णतः मोड़कर तथा न अधिक नीचे और न अधिक ऊँचे आसन पर बैठकर दुगुना या तिगुना प्राणायाम करने का अभ्यास करे । तदुपरान्त हृदय में निश्चल दीप के समान स्थित प्रभु का ध्यान करना चाहिए और तब धारणा ( जो तीन प्राणायामों की होती है ) करते हुए उस हृदय में आत्मा को धारण करे ॥ १९८-२०१ ॥ धारणात्मकयोगाभ्यासे प्रयोजनमाह— अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥ २०२ ॥ १. धारणाभवधारयन् । २. सिद्धेश्च; सिद्धिर्हि ।