याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 559, कुल 782 में से
संदर्भ में पढ़ेंस्थाप्यते तयोगिनो महापाकिन इति लाघवार्थं संज्ञाकरणम् । यश्च तैर्ब्रह्महा- दिभिः प्रत्येकं सह संवसति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' (प्रा० २६६) इति वक्ष्यमाणन्यायेन सोऽपि महापातकी । 'तथा'शब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्तृसंग्रहार्थः । अनुग्राहकश्च यः पलायमानम- मित्रं उपरन्धन् परेभ्यश्च हन्तारं परिरक्षन्हन्तुर्द्रढिमानमुपजनयन्नुपकरोति स उच्यते । अत एव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दर्शितः—'बहूनामेक- कार्याणां सर्वेषां शस्त्रधारिणाम् । यद्येको घातयेत्तत्र सर्वे ते घातकाः स्मृताः ॥' इति । तथा प्रयोजकादीनामप्यापस्तम्बेन फलसंबन्ध उक्तः—'प्रयोजितानु- मन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मिन्फल- विशेषः' इति तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः—आज्ञापयि- ताभ्यर्थयमान उपदेष्टेति । तत्राज्ञापयिता नाम स्वयमुच्चः सन्नीचं भृत्या- दिकं यः प्रेरयति मदीयमित्रं जहीति स उच्यते । अभ्यर्थयमानस्तु यः स्वयमसमर्थः सन् प्रार्थनादिना मच्छत्रुं व्यापादयेत्युच्चैः¹ प्रवर्तयति सोऽभिधीयते । अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयोक्तृत्वम् । उपदेष्टा पुनस्त्वं शत्रुमित्थं व्यापादयेति मर्मोद्घाटनाद्युपदेशपुरःसरं प्रेरयन्कथ्यते । तत्र च प्रयोज्यगतमेव फलमिति तेषां भेदः । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः।² स द्विप्रकारः—कश्चित्स्वार्थसिद्ध्य- र्थमनुजानाति कश्चित्परार्थमिति ॥ नन्वनुमननस्य कथं हिंसाहेतुत्वं, न तावत्प्राण- वियोगोत्पादनेन; तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव; साक्षा- त्कर्तृप्रवृत्त्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । नच साधु त्वयाध्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद्व्यर्थ- त्वाच्च । उच्यते,—यत्र हि राजादिपारतन्त्र्यात्स्वयं मनसा प्रवृत्तोऽपि प्रवृत्ति- विच्छेदभयादागामिदण्डभयाद्वा शिथिलप्रयत्नो राजानुमतिमपेक्षते तत्रानुमति- र्हन्तुः प्रवृत्तिमुपोद्बलयन्ती हिंसाफलं प्रति हेतुतां प्रतिपद्यते । तथो³ योऽपि भर्त्सनताडनधनापहारादिना परान्कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वा- रेण हिंसाहेतुर्भवत्येव । अत एव विष्णुनोक्तम्—'आक्रुष्टस्ताडितो वापि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' इति तथा—'ज्ञाति- मित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव च । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥' इति । नच कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्त्यदर्शनादकारणतेति शङ्कनी- यम्; पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्वव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिन्द-
१. समर्थं प्रवर्तयति । २. तादृशमननस्य । ३ तथान्योपि ।