भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 560, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 560

५०४ याज्ञवल्क्यस्मृतिः

वधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलं गुरुलाघवात् प्रायश्चित्तगुरुला- घवं बोद्धव्यम्; 'यो भूय आरभते तस्मिन्फलविशेषः' इति वचनात् । तथा चानुग्राहकस्य तावत्स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्यपि साक्षात्प्राण- वियोगफलकखड्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद्भूयो हिंसारम्भक- त्वाभावादल्पफलत्वमल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनक- त्वेन व्यवहितत्वात्ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्वेनोपदेष्टुर- ल्पफलत्वम् ॥ ननु प्रयोजकहस्तस्थानीयत्वात्प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि फलसंबन्धस्तर्हि स्थपतितडागखनितृप्रभृतीना- मपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते, शास्त्रोक्तं फलं प्रयोक्तृ- रीत्या न्यायेनाधिकारिंकर्तृगतफलजनका देवकूपतडागनिर्माणादयः । नच स्थपति- तडागखनित्रादयो देवकूपतडागकरणादिष्वधिकारिणः, स्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्व्यतिक्रमान्निब- न्धनो दोषः । अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वं प्रयोजकव्यापाराद्बहिरङ्गत्वा- ल्लघुत्वाच्चानुमननस्य । निमित्तकर्तुः पुनराक्रोशाकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसंधानं विना प्रवृत्तत्वाच्चानुमन्तुः सकाशादप्यल्पफलत्वम् ॥ ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोरपि हन्तुपुरुषोत्पादनद्वारेण हननकर्तृत्वप्रसङ्गः । उच्यते,—नहि पूर्वभावित्वमात्रेण कारणत्वम्; कारण- तयापि तथाभावित्वोपपत्तेः । यत्खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धि कारणम् । यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति रथन्तरसामतैव क्रतोरैन्द्रवायवाग्रतायां कारणम् । नहि तत्र सोमयागः स्वरूपेण कारणं; व्यभिचारात् । नच पित्रोस्तादृग्विधकारणलक्षणयोगित्वमिति नातिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतित- ब्राह्मणादिमरणे खानयितुर्दोषभावः । नहि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीत्येवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अतः कूपकर्तुरपि कारणत्वमेव, न पुनर्हिंसाहेतुत्वमिति मातापितृतुल्यतैव । तथा क्वचित्स- त्यपि हिंसानिमित्तयोगत्वे परोपकारार्थप्रवृत्तौ वचनाद्दोषभावः । यथाह संवर्तः—'बन्धने गोचिकित्सार्थे मूढगर्भविमोचने । यत्ने कृते विपत्तिश्चेत्प्राय- श्चित्तं न विद्यते ॥ औषधं स्नेहमाहारं ददद्गोब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयत्नैैरुपकुर्वताम् । प्राणसंत्राण- सिद्धयर्थं प्रायश्चित्तं न विद्यते ॥' इति ।—एतच्चादाननिदाननिपुणभिषग्विषयम् ।


१. फलगुरु । २. देवकुलतडाग । ३. तडागकर्त्रादयो । ४. दप्य- फलत्वम् । ५. ग्रता कारणम् । ६. नास्ति प्रसंगः ।