भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 562, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 562

५०६ याज्ञवल्क्यस्मृतिः निषिद्धं लशुनादिकं, तस्य मतिपूर्वं भक्षणम् । अत एव मनुः (५।१९)— छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्विजः ॥१ इति । अमतिपूर्वे तु प्रायश्चित्तान्तरम् ( ५।२० )—'अभक्ष्येतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥' इति तेनैवोक्तत्वात् । जैह्मयं कौटिल्यं, अन्याभिसंधानेनान्यवाङ्नियमन्यकर्तृत्वं च । अत्र च जैह्मयमिति यद्यपि सामान्येनोक्तं, तथापि प्रायश्चित्तस्य गुरुत्वान्निमित्त- स्यापि गुरुविषयं जैह्मयमिति गौरवं गम्यते । अस्ति च नैमित्तिकपर्यालोचनया निमित्तस्य विशेषावगतिः । यथा 'यस्योभावग्नी अनुगतौ स्यातां दुष्टौ भवेताम- भिनिम्रोचेद्वा पुनराधेयं तत्र प्रायश्चित्तिः' इत्यत्रोभावित्यस्य निमित्तविशेषेण- त्वेन हविरुभयत्वादविवक्षितत्वेऽप्यग्निद्वयनिष्पादकपुनराधेयरूपनैमित्तिकविधिब- लादग्निद्वयानुगतिरेव निमित्तमिति कल्प्यते; तथात्रापीति युक्तं निमित्तगौरवक- ल्पनम् । तथा समुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोऽहमित्यनृतभा- षणम् । रजस्वलाया (कामवशेन) वक्त्रासवसेवनम्, एतानि सुरापानसमानि ॥ भाषा—निषिद्ध ( लहसुन आदि ) पदार्थ का जानबूझ कर भक्षण, कुटिलता, उत्कर्ष प्राप्ति के लिए असत्य भाषण और रजस्वला स्त्री के मुख का चुम्बन—ये सुरापान के समान ही होते हैं ॥ २२९ ॥ सुवर्णस्तेयसमान्याह— अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ २३० ॥ अश्वादीनां ब्राह्मणसंबन्धिनां, निक्षेपस्य च सुवर्णव्यतिरिक्तस्यापहरण- मेतत्सर्वं सुवर्णस्तेयसमं वेदितव्यम् ॥ २३० ॥ भाषा—( ब्राह्मण के ) घोड़ा, रत्न, मनुष्य, स्त्री, भूमि और गाय तथा निक्षेप का अपहरण—'ये सभी सोने की चोरी के समान ही होते हैं ॥ २३० ॥ गुरुतल्पसमान्याह— सखिभार्याकुमारीषु स्वयोनिश्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ २३१ ॥ सखा मित्रं, तस्य भार्या; कुमारीत्तसजातीया कन्यका, तासु 'सकामा- स्वनुलोमासु न दोषस्त्वन्यथा दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥' ( व्य० २८८ ) इति तत्रैव दण्डविशेषप्रतिपादनात्प्रायश्चित्तगुरुत्वं युक्तम् । १. द्विजः । २. विषयं यज्जैह्मयमिति । ३. विशेषत्वेन ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 562, कुल 782 में से · BharatKosha