याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 566, कुल 782 में से
संदर्भ में पढ़ें५१० याज्ञवल्क्यस्मृतिः मती, अत्रिगोत्रपरिणीता वा ब्राह्मण्या अप्यात्रेयीव्यतिरेकेण, शूद्रवधः, अदीक्षित- विट्क्षत्रियवधः । निन्दिताथोपजीवनमराजस्थापिताथोपजीवनम्, नास्तिक्यं 'नास्ति परलोकः' इत्याद्यभिनिवेशः, व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः, सुतानामपत्यानां विक्रयः, धान्यं व्रीह्यादि, कुप्यमसारद्रव्यं त्रपुसीसादि, पशवो गवाद्यः, तेषामपहरणम्; 'गोवधो व्रात्यता स्तेयम्' (प्रा. २३४) इत्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यति- रिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्तम्, अपि तु ततो न्यूनमपि भवत्येव । एतेन 'बान्धवत्याग'ग्रहणेनैव सिद्धे पुनः 'पित्रादित्याग'ग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम् । पितृमातृसुतानामपतितानां त्यागो गृहान्निष्कासनम् । तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः । कन्यायाः संदूषणमङ्गुल्यादिना योनिविदारणम्, नतु भोगः । तस्य 'सखिभार्याकुमारीषु' (प्रा० २३९) इति गुरुतल्पसमस्वस्योक्तत्वात् । परिविन्दकयाजनं, तस्य च कन्याप्रदानम् । कौटिल्यं गुरोरन्यत्र, गुरुविषयस्य तु कौटिल्यस्य सुरापानसम- त्वमुक्तम् । पुन'र्व्रतलोप' ग्रहणं शिष्टाप्रतिषिद्धेष्वपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयाम्येवंरूपेषु प्राप्त्यर्थं, नतु स्नातकव्रतप्राप्त्यर्थम् । 'स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' (११।२०३) इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् ॥ तथाऽऽत्मार्थं च पाकलक्षणक्रियारम्भः; 'अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात्' (मनुः ३।११८) इति तस्यैव प्रतिषिद्धत्वात् । क्रियामात्रविषयस्त्वे तु प्रतिषेधकल्पनया गौरवँ स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणमुपभोगः, स्वाध्यायस्यागो व्याख्यातः, अग्नीनां च श्रौतस्मार्तानां त्यागः, सुतत्यागः संस्काराद्यकरणम्, बान्धवानां पितृ- व्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम् । पाकादिष्टप्रयोजन- सिद्ध्यर्थमार्द्रद्रुमच्छेदो न त्वाहवनीयपरिरक्षणार्थमपि । स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भार्या पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसया जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिंस्रयन्त्रस्य तिलेक्षुपीडाकारस्य प्रवर्त्तनम् । व्यसनानि मृगयादीन्यष्टादश । आत्मविक्रयो द्रव्यग्रहणेन परदास्य- करणम् । शूद्रसेवनं हीनेषु मैत्रीकरणम् । अनूढसवर्णदारस्य केवलहीनवर्ण- दारोपगमनं साधारणस्त्रीसंभोगश्च । अनाश्रमवासः अगृहीताश्रमित्वं सत्य- धिकारे । परात्रपरपुष्टता परपाकरतित्वम् । असच्छास्त्रस्य चार्वाकादिग्रन्थ- स्याधिगमः । सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम् । १. प्रतिषेधे । २. करणेन ।