भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 571, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 571

प्रायश्चित्ताध्यायः ५१५ निष्कृतिर्न विधीयते ॥' इति मनुस्मरणात् । अत्रेदं चिन्तनीयम् — किं द्वित्रे- ब्राह्मणवधे प्रायश्चित्तस्य तन्त्रत्वमुतावृत्तिरिति । तत्र केचिन्मन्यते ब्रह्महा द्वादशाब्दानित्यत्र ब्रह्मशब्दस्यैकस्मिन्द्वयोर्बहुषु साधारणत्वादेकस्मिन्ब्राह्मणवधे यत्प्रायश्चित्तं तदेव द्वितीये तृतीयेऽपि । तत्रैकब्राह्मणवधनिमित्तकप्रायश्चित्तानुष्ठाने सतीदं कृतमिदं नेति न शक्यते वक्तुम् । देशकालकर्तृ णां प्रयोगानुबन्धभूता- नामभेदेनागृह्यमाणविशेषत्वात्तन्त्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तियुक्ता । यथा तन्त्रानुष्ठितैः प्रयाजादिभिराग्नेयादिषु तन्त्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्तिः । नचैवं वाच्यम् 'द्वित्रिब्राह्मणवधे पापस्य गुरुत्वादेनसि गुरुणि गुरूणि लघूनि लघूनि' (१९।१९) इति, गौतमवचनादावृत्तमेव प्रायश्चित्तानुष्ठानं युक्तम् , विलक्षणकार्ययोस्तन्त्रेण निष्पत्त्यनुपपत्तेरिति । यतो नेदं वचनमावृत्तिविधायकं किंतूपदिष्टानां गुरुलघुकल्पानां व्यवस्थाप्रतिपादनपरम् । नच द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणाभावात् । यच्च मनुदेवलाभ्यामुक्तम् — 'विधेः प्राथमिकाद- स्माद् द्वितीये द्विगुणं भवेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥' इति, - तदपि 'प्रतिनिमित्तं नैमित्तिकं शास्त्रमावर्तते' इति न्यायेन, द्वित्रिब्राह्मणव- धगोचरनैमित्तिकशास्त्रावृत्त्यनुवादेन चतुर्थे तदभावविधिपरम् , न पुनर्द्वितीया- ब्रह्मवधे प्रायश्चित्तानुष्ठानद्वैगुण्यविधिपरमपि; वाक्यभेदप्रसंगात् । तस्माद् द्वित्रिब्रा- ह्मणवधेऽपि सकृदेव द्वादशवार्षिकाद्यनुष्ठानं युक्तम् , यथा अग्नये क्षामवते पुरो- डाशमष्टाकपालं निर्वपे'दित्यादिगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपदनेकेष्वपि गृहदाहादिनिमित्तेषु सकृदेवानुष्ठानम् । अत्रोच्यते — नहि वचन- विरोधे न्यायः प्रभवति । वचनं च विधेः प्राथमिकादित्यादिकं द्वित्रिब्राह्मणवधे प्रायश्चित्तानुष्ठानावृत्तिविधिपरम् । एवं सति न्यायलभ्यतन्त्रानुष्ठानबाधेनावृत्ति- विधाविदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्त्रतः प्राप्तस्यानुवादकत्वेना- नर्थकं स्यात् । नच वाक्यभेदः । चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तं प्रायश्चित्त- विधानेनैकार्थत्वात् । किंच, 'चतुर्थे नास्ति निष्कृति'रिति लिङ्गदर्शनाद्धन्यमान- ब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते । तथा देवलादिवचनाच्च 'यस्यादनभि- संधाय पापं कर्म सकृत्कृतम् । तस्येयं निष्कृतिर्दृष्टा धर्मविद्भिर्मनीषिभिः ॥' इति । नच विलक्षणयोर्गुरुलघुदोषयोः क्षयस्तन्त्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्यवैलक्षण्यादपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तिर्युक्ता । क्षामव- त्यादिषु पुनः कार्यस्यावैलक्षण्याद्युक्तस्तन्त्रभाव इत्यलं प्रपञ्चेन । यच्चेदं 'चतुर्थे नास्ति निष्कृति'रिति, तदपि महापातकविषयम् ; पापस्यातिगुरुत्वेन प्रायश्चित्ता- भावप्रतिपादनपरत्वात् । अतः शूद्राङ्गसेवनादौ बहुशोऽप्यभ्यस्ते तदनुगुणप्राय- १. किं तत्र द्वित्रिब्राह्मणवधे । २. द्वित्रिब्राहाग । ३. द्विगुणं चरेत् । ४. नैमित्तिकमावर्तते । ५. परममिति । परमेव । ६. वृत्तिप्रायश्चित्त। ३३ या०