याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 573, कुल 782 में से
संदर्भ में पढ़ें[Page Header] प्रायश्चित्ताध्यायः ५१७
पिबेत्' इत्येवमादिष्वनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश्च तदीयमपि प्राय- श्चित्तं पित्रादिभिरेवाचरणीयम्; 'पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विदध्यात्' इति तस्यैव पुत्रादिहिताचरणेऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिद् ब्रह्मवधे प्रयो- जंकभावमापन्नस्यान्यस्मिन्साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस्तत्र द्वादशवार्षि- कादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजक संबन्धिलघुप्रायश्चित्तप्रसङ्गात्कार्यसिद्धिः । नचैवं सत्यविशेषालघुकल्पेन महतोऽपि सिद्धिः स्यादित्याशङ्कनीयम् । अत्र ह्यन्तःपातितयाऽनुष्ठाने विशेषानवगमात्प्रसङ्गात्कार्यसिद्धिरैवगम्यते । नच लघ्व- न्तःपाती महाकल्प इति कुतः प्रसङ्गशङ्का ? नच चैत्रवधजनितकल्मषक्षयार्थ- मनुष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिरिति वाच्यम्; चैत्राद्युद्देशस्या- तन्त्रत्वात् । अतो यथा काम्यनियोगनिष्पत्त्यर्थं स्वर्गार्थं वाऽनुष्ठितैराग्नेयादिभि- र्नित्य नियोग निष्पत्तिस्तद्वल्लघुप्रायश्चित्तस्यापि कार्यसिद्धिः । यत्पुनर्मध्यमाङ्गिरोव- चनम् - 'गवां सहस्रं विधिवत्पात्रेभ्यः प्रतिपादयेत् । ब्रह्महा विप्रमुच्येत सर्वपा- पेभ्य एव च ॥' इति,-तत्सवनस्थगुणवद्ब्राह्मणविषयम् । एतच्च 'द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत्' इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकव्रतचर्याशक्तस्य वेदितव्यम्; प्रायश्चित्तस्यातिगुरुत्वात् । न त्वनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादश दिनान्येकैकप्राजापत्यमिति गणनायां प्राजापत्यानां षष्ठ्यधिकशतत्रयं भवति । यद्यपि प्राजापत्यस्यान्ते त्र्यहमुपवासोऽधिकस्तथाऽप्यत्र वनवासजटाधारण- वन्याहारत्वादि रूपतपो विशेषयुक्तत्वादुपवासाभावेऽप्येकैकस्य द्वादशाहस्य प्राजा- पत्यतुल्यत्वम् । ततश्च 'प्राजापत्यक्रियाशक्तौ धेनुं दद्याद्विचक्षणः । गवामभावे दातव्यं तन्मूल्यं वा न संशयः ॥' इत्यनेन न्यायेन प्रतिप्राजापत्यमेकैकस्यां धेन्वां दीयमानायां धेनूनामपि षष्ठ्यधिकं शतत्रयं भवति, न पुनः सहस्रम् । अतो यथोक्त एव विषयो युक्तः । यदपि शङ्खवचनम् - 'पूर्ववदमतिपूर्वं चतुर्षु वर्णेषु विप्रं प्रमाप्य द्वादशवत्सरान्षट् त्रीन्सार्धं संवत्सरं च व्रतान्यादिशेत्तेषामन्ते गोसहस्रं तदर्धं तस्यार्धं तदर्धं च दद्यात्सर्वेषां वर्णानामानुपूर्व्येणे'ति द्वादशवार्षि- कगोसहस्रयोः समुच्चयविधिर्परं, तदाचार्यादिहननविषयं द्रष्टव्यम्; तस्यातिगुरु- त्वात् । तथा च दक्षः- 'सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । आचार्ये शतसाहस्रं श्रोत्रिये दत्तमक्षयम् ॥' इति प्रतिपाद्योक्तवान् - 'समं द्विगुणसाहस्रमानन्त्यं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तद्देव हि ॥' इति । तथाऽऽपस्तम्बे- न (१।२४।२४) द्वादशवार्षिकमुक्त्वाऽक्रमस्मिन्नेव विषये - 'गुरुं हत्वा श्रोत्रियं वा एतदेव व्रतोत्तमादुच्छ्वासाच्चरेत्' इति, तत्र यावज्जीवमावर्तमान व्रते यदा
[Footnotes] १. पुत्रहिताचरणे । २. प्रयोजकाभाववापन्न । ३. सिद्धिरुच्यते । ४. मनुष्ठेयेन । ५. रूपतया विशेष. ६. समुच्चयपरम् । ७. चोक्तत्वात् ।