भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 574, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 574

५१८ याज्ञवल्क्यस्मृतिः त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्राऽसमर्थस्य बहुधनस्यायं दानतपसोः समुच्चयो द्रष्टव्यः । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्राय- श्चित्तानामुत्तरत्र व्यवस्थां वक्ष्यामः । ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतोऽवसिता ? न तावद् द्वादशवार्षिकादिविधायकवाक्यैरिति युक्तम्; तत्राप्रीतेः । नच वाच्यं प्रमाणावगतगुरुलघुकल्पनां बाधो मा प्रसङ्गीदिति व्यवस्था कल्प्यत इति । विकल्पसमुच्चयाङ्गाङ्गिभावानामन्यतमाश्रयणेनापि बाधस्य सुपरिहरत्वा- त् । अत्रोच्यते-न तावद् द्वादशवार्षिकसेतुदर्शनादीनां विषमकल्पानां विकल्पो- ऽवकल्प्यते; विकल्पाश्रयणे गुरुकल्पानामनुष्ठानासंभवेनानर्थक्यप्रसङ्गात् । नच षोडशिग्रहणाग्रहणवद्विषमयोरपि विकल्पोपपत्तिरिति वाच्यम् । यतस्तत्रापि सति संभवे ग्रहणमेवेति युक्तं कल्पयितुम् । यद्वा षोडशिग्रहणानुगृहीतेनाति- रात्रेण क्षिप्रं स्वर्गादिसिद्धिरतिशयितस्य वा स्वर्गस्येति कल्पनीयम् । इतरथा ग्रहणविधेश्नानर्थक्यप्रसङ्गात् । नापि समुच्चयः । उपदेशातिदेशप्राप्ति- मन्तरेण समुच्चयो न संभवति; उपदेशावगतनैरपेक्ष्यस्य बाधप्रसङ्गात् । नचा- ङ्गाङ्गिभावः, श्रुत्यादिविनियोजकानामभावात् । श्रुतिलिङ्गवाक्यप्रकरणस्थान- समाख्यानि विनियोजकानि । अतः परस्परोपमर्दपरीहारार्थं विषयव्यवस्थाक- ल्पनैवोचिता । सा च जातिशक्तिगुणाद्यपेक्षया कल्पनीया; 'जातिशक्तिगुणापेक्षं सकृद् बुद्धिकृतं तथा । अनुबन्धादिविज्ञाय प्रायश्चित्तं प्रकल्पयेत् ॥' इति देवल- स्मरणात् ॥ २४३ ॥ भाषा-ब्राह्मण की हत्या करने वाला महापातकी (उसी हत ब्राह्मण ! के) सिर की खोपड़ी हाथ में लेकर और दूसरी खोपड़ी बास के डंडे के ऊपर बाँधकर, अपने किये हुए कर्म को सबसे बताते हुए अल्प भोजन करते हुए बारह वर्ष व्यतीत करने पर शुद्ध होता है ॥ २४३ ॥ पूर्वोक्तस्य ब्रह्महत्यादिप्रायश्चित्तस्य नैमित्तिकसमाप्त्यवधिमाह— ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च । तथाऽश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥ २४४ ॥ यश्चौरव्याघ्रादिभिर्व्यापाद्यमानस्य ब्राह्मणस्यैकस्याप्यात्मप्राणानन्तरे कृत्वा प्राणत्राणं करोति गवां द्वादशकस्याप्तावसंपूर्णेऽपि द्वादशवार्षिके शुद्ध्येत् । यद्यपि प्राणत्राणे प्रवृत्तस्तदकृत्वैव म्रियते तथाऽपि शुद्धयत्येव । अत एव मनुना (११।७९)—'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्मह- त्याया गोप्ता गोर्ब्राह्मणस्य च ॥' इति । ब्राह्मणरक्षणं तदर्थं मरणं च पृथगुपा- सम् । तथा परकीयाश्वमेधावभृथाख्यकर्माङ्गभूतस्नानसमये स्वयमपि स्नात्वा ब्रह्महत्यायाः शुद्धिं प्राप्नुयात् । स्नानं च स्वकल्मषं विख्याप्य कुर्यात् । तथा १. समाप्त्यावधि । २. कस्य वासंपूर्णोऽपि । ३. स्नाने च ।