याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 575, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५१६ च मनुः ( ११।८२ )—'शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽव- भृथे स्नात्वा हयमेधे विमुच्यते ॥' इति । भूमिदेवा ब्राह्मणा ऋत्विजस्तेषां राज्ञा नरदेवेन यजमानेन राज्ञा समवाये स्वीयमेनः शिष्ट्वा विख्याप्याश्वमेधाव- भृथे स्नात्वा२ शुद्धयति यदि तैरनुज्ञातो भवति; 'अश्वमेधाभृथं गत्वा तत्रानु- ज्ञातः स्नातः सद्यः पूतो भवति' इति शङ्खस्मरणात् । अश्वमेधावभृथग्रहणम- ग्निष्टोममध्यानां पञ्चदशरात्रादिक्रत्वन्तराणामग्निष्टुत्समासिकानां च सर्वमेधादी- नामुपलक्षणम् । 'अश्वमेधावभृथे वाऽन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत्' ( २२।९, १० ) इति गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षिकस्य कथंचिद्ब्राह्मणप्राणत्रा- णादिकं कुर्वतो व्रतसमाप्त्यवधिरुच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानमृषभैकशतानां वा गवां सहस्रसद्भावे सर्वस्वं३दानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः—'द्वादशे वर्षे शुद्धिं प्राप्नोत्यन्तरा वा ब्राह्मणं मोचयित्वा४, गवां द्वादशानां परित्राणात्सद्य एवाश्व- मेधावभृथस्नानाद्वा पूतो भवति' इति । अत एव मनुना ( ११।७८ —'कृत- वापनो वा निवसेत्' इति द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य ( ११।७९)— 'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्रा- ह्मणस्य च ॥' इत्यादिना मध्ये ब्राह्मणत्राणादिकमभिधाय ( ११।८१ )—'एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥' इति द्वादशवार्षिकमेवोपसंहृतम् । ननु ब्रह्महत्यायाः शुद्धिमाप्नुयादिति ब्राह्म- णत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात्स्वातन्त्र्यमेव युक्तं न पुनर- ङ्गत्त्वम् , किंच प्रधानविरोधित्वादपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्यङ्गं भवति । नच प्रारब्धद्वादशवार्षिकस्येदं विधानम् । येन तत्कार्ये विधानं गम्यते । यथा 'सत्रायावगूर्य विश्वजिता यजेत' इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानमतोऽपि स्वातन्त्र्यमेव युक्तम् । यथाऽग्निप्रवेशलक्ष्यभावादीनाम् । नच तेषामपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठितत्वेन तदङ्गत्वमिति शङ्कनी- यम् । यतः सत्यपि मध्यपाठे निर्ज्ञातप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान्न पर- स्परमङ्गाङ्गित्वं युक्तम् । यथा सामिधेनीप्रकरणमध्यवर्तिनां निर्वित्पदानामनिन-५ समिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । न चैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिरेषां द्वाद- शवार्षिकप्रक्रमात्प्रागेव पठितत्वात् । इदमेव स्वातन्त्र्यं प्रकटयितुं मनुना ( ११।- ७३ )—'लक्ष्यं शस्त्रभृतां वा स्यात्' 'प्रास्येदात्मानमग्नौ वा' इति प्रतिवाक्यं १. विशुद्धयति । २. स्नात्वा शुद्धयेत् । ३. सर्वस्वजान्यां, सर्वस्व- याज्याभ्याम् । ४. भोजयित्वा । ५. वर्तिनामग्निविदामग्निन ।