याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
प्रायश्चित्ताध्यायः ५१६ च मनुः ( ११।८२ )—'शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽव- भृथे स्नात्वा हयमेधे विमुच्यते ॥' इति । भूमिदेवा ब्राह्मणा ऋत्विजस्तेषां राज्ञा नरदेवेन यजमानेन राज्ञा समवाये स्वीयमेनः शिष्ट्वा विख्याप्याश्वमेधाव- भृथे स्नात्वा२ शुद्धयति यदि तैरनुज्ञातो भवति; 'अश्वमेधाभृथं गत्वा तत्रानु- ज्ञातः स्नातः सद्यः पूतो भवति' इति शङ्खस्मरणात् । अश्वमेधावभृथग्रहणम- ग्निष्टोममध्यानां पञ्चदशरात्रादिक्रत्वन्तराणामग्निष्टुत्समासिकानां च सर्वमेधादी- नामुपलक्षणम् । 'अश्वमेधावभृथे वाऽन्ययज्ञेऽप्यग्निष्टुदन्तश्चेत्' ( २२।९, १० ) इति गौतमस्मरणात् । अयं च प्रक्रान्तद्वादशवार्षिकस्य कथंचिद्ब्राह्मणप्राणत्रा- णादिकं कुर्वतो व्रतसमाप्त्यवधिरुच्यते । यथा सारस्वते सत्रे प्लाक्षं प्रस्रवणं प्राप्योत्थानमृषभैकशतानां वा गवां सहस्रसद्भावे सर्वस्वं३दानं गृहपतिमरणे चेति । न पुनः स्वतन्त्रं प्रायश्चित्तान्तरम् । तथाच शङ्खः—'द्वादशे वर्षे शुद्धिं प्राप्नोत्यन्तरा वा ब्राह्मणं मोचयित्वा४, गवां द्वादशानां परित्राणात्सद्य एवाश्व- मेधावभृथस्नानाद्वा पूतो भवति' इति । अत एव मनुना ( ११।७८ —'कृत- वापनो वा निवसेत्' इति द्वादशवार्षिकस्य गुणविधिं प्रक्रम्य ( ११।७९)— 'ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान्परित्यजन् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्रा- ह्मणस्य च ॥' इत्यादिना मध्ये ब्राह्मणत्राणादिकमभिधाय ( ११।८१ )—'एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥' इति द्वादशवार्षिकमेवोपसंहृतम् । ननु ब्रह्महत्यायाः शुद्धिमाप्नुयादिति ब्राह्म- णत्राणादीनां द्वादशवार्षिकेण सहैकफलत्वावगमात्स्वातन्त्र्यमेव युक्तं न पुनर- ङ्गत्त्वम् , किंच प्रधानविरोधित्वादपि नाङ्गत्वम् । प्रधानानुग्राहकं ह्यङ्गं भवति । नच प्रारब्धद्वादशवार्षिकस्येदं विधानम् । येन तत्कार्ये विधानं गम्यते । यथा 'सत्रायावगूर्य विश्वजिता यजेत' इति सत्रप्रयोगप्रवृत्तस्य तत्परिसमापनाक्षमस्य विश्वजिद्विधानमतोऽपि स्वातन्त्र्यमेव युक्तम् । यथाऽग्निप्रवेशलक्ष्यभावादीनाम् । नच तेषामपि द्वादशवार्षिकोपक्रमोपसंहारमध्यपठितत्वेन तदङ्गत्वमिति शङ्कनी- यम् । यतः सत्यपि मध्यपाठे निर्ज्ञातप्रयोजनत्वेन प्रयोजनाकाङ्क्षाविरहान्न पर- स्परमङ्गाङ्गित्वं युक्तम् । यथा सामिधेनीप्रकरणमध्यवर्तिनां निर्वित्पदानामनिन-५ समिन्धनप्रकाशत्वेन सामिधेनीभिः सहैककार्याणां न सामिधेन्यङ्गत्वम् । न चैकान्ततोऽग्निप्रवेशादीनां द्वादशवार्षिकमध्ये पाठः वसिष्ठगौतमादिभिरेषां द्वाद- शवार्षिकप्रक्रमात्प्रागेव पठितत्वात् । इदमेव स्वातन्त्र्यं प्रकटयितुं मनुना ( ११।- ७३ )—'लक्ष्यं शस्त्रभृतां वा स्यात्' 'प्रास्येदात्मानमग्नौ वा' इति प्रतिवाक्यं १. विशुद्धयति । २. स्नात्वा शुद्धयेत् । ३. सर्वस्वजान्यां, सर्वस्व- याज्याभ्याम् । ४. भोजयित्वा । ५. वर्तिनामग्निविदामग्निन ।
Here is the line-by-line transcription of the text from the provided image:
५२० याज्ञवल्क्यस्मृतिः 'वा' शब्दः पठितः । तथा प्रतिप्रायश्चित्तमेवोपसंहृतम्-‘अतोऽन्यतममास्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मशुद्धये ॥’ (मनुः ११।८६) इति । अतोऽग्निप्रवेशादीनां स्वातन्त्र्यमेव युक्तम् । अतश्च ब्राह्मण- त्राणादेरप्येकफलत्वान्नाङ्गत्त्वमिति । उच्यते,—परिहृतमेतत् 'अन्तरा ब्राह्मणं मोचयित्वे'त्यादिना शङ्खवचनेनाङ्गत्व्वावगमात् । अङ्गस्यैव सतः प्रधानद्वारेण फलसंबन्धः । न च प्रधानविरोधः यतो ब्राह्मणत्राणावधिकस्यैव व्रतानुष्ठानस्य फलसाधनत्वं विधीयत इति न विरोधः ॥ २४४ ॥ भाषा—(व्याघ्र आदि द्वारा मारे जाते हुए) किसी ब्राह्मण का प्राण बचाने, अथवा बारह गायों की प्राणरक्षा करने पर तथा अश्वमेधयज्ञ में अवभृथ स्नान करने पर (बारह वर्ष के पहले भी) ब्रह्महत्या के दोष से शुद्ध हो जाता है ॥ २४४ ॥ दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ २४५ ॥ किंच, दीर्घेण बहुकालव्यापिना तीव्रेण दुःसहेनामयेन कुष्ठादिव्याधिना ग्रस्तं पीडितं ब्राह्मणं गां वा तथाविधां पथि दृष्ट्वा निरातङ्कं नीरुजं कृत्वा ब्रह्महा शुचिर्भवति । ननु 'ब्राह्मणस्य परित्राणाद्' (प्रा० २४४) इत्यत्र यदुक्तं ब्राह्मण- रक्षणं तदेव किमर्थं पुनरुच्यते, - 'ब्राह्मणं गामथापि वा' इति ? सत्यमेवम् ; किंत्वारमप्राणपरित्यागेनाधस्तनवाक्ये ब्राह्मणरक्षणमुक्तमधुना पुनरौषधदानादि- नेति विशेषः । अमुनैवाभिप्रायेणोक्तं मनुना (११।८०) - 'विप्रस्य तन्निमित्ते वा प्राणलाभे विमुच्यते' इति ॥ २४५ ॥ भाषा - बहुत दिनों से किसी दुःसह रोग से पीड़ित ब्राह्मण को अथवा गौ को मार्ग में देखने पर उसको नीरोग करने पर भी ब्रह्महत्या का पातकी शुद्ध हो जाता है ॥ २४५ ॥ आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्ध्यति ॥ २४६ ॥ किंच, विप्रस्यापहृतसर्वस्वतयावसीदतः संबन्धि द्रव्यं भूहिरण्यादिकं चौरै- र्हतं साकल्येनानीय रक्षणं यः करोति स विशुद्ध्यति । आनयने प्रवृत्तः स्वयं चौरैर्घातितो वा, यदि वा तन्निमित्त ब्राह्मणसर्वस्वानयनार्थं तन्न युध्य- मानः शस्त्रैः क्षतो मृतकल्पो जीवन्नपि विशुद्ध्यति । 'शस्त्रैः' इति बहुवचनं क्षतबहुत्वप्राप्त्यर्थम् । अत एव मनुना (११।८०) -'त्र्यवरं प्रतिरोद्धा वा सर्व- स्वमवजित्य वा' इति 'त्र्यवर'ग्रहणं कृतम् । एतस्य श्लोकद्वयोक्तकल्पपञ्चकस्य २. वा । ३. त्रिवारम् ।
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:
प्रायश्चित्ताध्यायः ५२१ ब्राह्मणरक्षणरूपत्वेनान्तरा वा 'ब्राह्मणं मोचयित्वा' इत्यनेन शङ्खवचनेन क्रोडी- कृतत्वाद् द्वादशवार्षिकसमाप्यवधित्वेनेतरग्रहणे विनियोगान्न स्वातन्त्र्यम् ॥ २४६॥ भाषा—किसी ब्राह्मण का छीना गया सभी धन अपहरणकर्ता से ( युद्ध करके ) चोट खाकर भी छुड़ाकर ला देते हैं और उसके निमित्त शस्त्रों से घायल होकर भी जीवित रहता है तो ब्रह्महत्या के पातक से शुद्ध हो जाता है ॥ २४६ ॥ प्रायश्चित्तान्तरमाह— लोमभ्यः १स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मँज्जान्तां जुहुयाद्वाऽपि मन्त्रैरेभिर्यथाक्रमम् ॥ २४७ ॥ 'लोमभ्यः स्वाहा' इत्येवमादिभिर्मन्त्रैलोमप्रभृतिमज्जान्तां तनुं जुहुयात् । 'इति'शब्दः करणत्वनिर्देशार्थः । 'एवं'शब्दः प्रकारसूचनार्थः । 'हि'शब्दः स्मृत्य- न्तरप्रसिद्धत्वगादीनां प्रभृतिशब्देनाक्षिप्यमाणानां द्योतनार्थः । ततश्च लोमा- दीनि होमद्रव्याणि चतुर्थ्या निर्दिश्यन्ते स्वाहाकारं पठित्वा तैर्मन्त्रैर्जुहुयात् । ते च हूयमानद्रव्याणां लोमत्वग्लोहितमांसमेदःस्नाव्वस्थिमज्जानामष्टसंख्यत्वा- दष्टौ मन्त्रा भवन्ति । तथा च वसिष्ठः—'ब्रह्महाऽ३ग्निमुपसमाधाय जुहुयाल्लो- मानि मृत्योर्जुहोमि लोमभिर्मृत्युं वाशय' इति प्रथमम् । १ । 'त्वचं मृत्यो- र्जुहोमि त्वचा मृत्युं वाशय' इति द्वितीयाम् । २ । 'लोहितं मृत्योर्जुहोमि लोहि- तेन मृत्युं वाशय' इति तृतीयाम् । ३ । 'मांसानि मृत्योर्जुहोमि मांसैर्मृत्युं वाशय' इति चतुर्थीम् । ४ । 'मेदो मृत्योर्जुहोमि मेदसा मृत्युं वाशय' इति पञ्चमीम् । ५ । 'स्नायूनि मृत्योर्जुहोमि स्नायुभिर्मृत्युं वाशय' इति षष्ठीम् । ६ । 'अस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वाशय' इति सप्तमीम् । ७ । 'मज्जां मृत्योर्जुहोमि मज्जाभिर्मृत्युं वाशय' इत्यष्टमीम् । ८ ॥' इति । अत्र च लोमप्र- भृति तनुं जुहुयादिति लोमादीनां होमद्रव्यत्वावगमाल्लोमभ्यः स्वाहेति सत्यपि चतुर्थ्यन्निर्देशे लोमादीनां न देवतात्वं कल्प्यते; द्रव्यप्रकाशननैव मन्त्राणां होम- साधनत्वोपपत्तेः । किंतु 'लोमभिर्मृत्युं वाशय' इत्यादिवासिष्ठमन्त्रपर्यालोचनया मृत्योरेव हविःसंबन्धावगमाद्देवतात्वं कल्प्यते । अतश्च लोमादीनि सामर्थ्यात्स्व- धितिनाऽवदाय मृत्यूद्देशेनाष्टौ होमान्कृत्वाऽन्ते तनुं प्रक्षिपेत् । अतो यत्कैश्चिदुक्त- मनादिष्टद्रव्यत्वा४दाज्यहविष्का होमा इति, -तदनिरूप्यैवोक्तमित्युपेक्षणीयम् । जुहुयादित्यनेनाग्नौ सिद्धे भ्रूणहाग्निमुपसमाधायेति पुनरग्निग्रहणं लौकिकाग्नि- प्राप्त्यर्थम् । युक्तं चैतत्; पतिताग्नीनां प्रतिपत्तिविधानात्—'आहिताग्निस्तु १. स्वाहेति हि । २. मज्जान्तम् । ३. भ्रूणहाग्निम् ४. हविष्कामो होम इति ।
यो विप्रो महापातकभाग्भवेत् । प्रायश्चित्तैर्न शुद्ध्येत तदग्नीनां तु का गतिः ॥ वैतानं प्रक्षिपेत्तोये शालाऽग्निं शमयेद् बुधः ॥' इत्युशनःस्मरणात् । तथा—'महा- पातकसंयुक्तो दैवात्स्यादग्निमान्यदि । पुत्रादिः पालयेदग्नीन्युक्तश्चादोषसंक्षयात् ॥ प्रायश्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि । गृह्यं निर्वापयेच्छ्रौतमप्स्रवत्स्येत्सपरि- च्छदम् ॥' इति कात्यायनस्मरणात् । तनुप्रक्षेपश्चोत्थायोत्थाय त्रिश्धोमुखेन कर्त- व्यः । तथाह मनुः ( ११।७३ )—'प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्- शिराः' इति । गौतमेनाप्यत्र विशेषो दर्शितः ( २२।१,२ )—'प्रायश्चित्तमग्नौ सक्तिरंग्रह्यन्नस्थिरवच्छातस्य' इति । अवच्छातस्य अनशनकर्शितकलेवरस्येत्यर्थः । तथा च काठकश्रुतिः—'अनशनेन कर्शितोऽग्निमारोहेत्' इति । इदं च मरणा- न्तिकं प्रायश्चित्तं कामकारविषयम् । तथाह मध्यमाङ्गिराः—'प्राणान्तिकं च यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥' इति । तथा—'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य शुद्धिर्निर्दिष्टा भृग्वग्निपतनादृते ॥' इति । एतच्च प्रायश्चित्तं स्वतन्त्रमेव न ब्राह्मणत्राणादिवद् द्वादशवार्षिकान्तर्भूतमित्युक्तं प्राक् ॥ २४७ ॥ भाषा—अथवा 'लोमभ्यः स्वाहा' आदि मन्त्र से क्रमशः लोम से लेकर मज्जा तक (लोम, त्वचा, रक्त, मांस, मेदस्, स्नायु, अस्थि, मज्जा) अपने शरीर का होम करे (तो ब्रह्महत्या के पाप से मुक्त हो जाता है) ॥ २४७ ॥ संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् । मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति ॥ २४८ ॥ किंच, अथवा संग्रामे युद्धभूमावुभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिमवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूच्छितो जीवन्नपि विशुद्ध्यति । लक्ष्यभावश्च प्रायश्चित्ती अयमित्येवं विदुषां धनु- र्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो न तु राज्ञा बलात्कारयितव्यः । तथाह मनुः ( ११।१७ )—'लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छ्यात्मनः' इति । इदं च मरणान्तिकत्वात्साक्षात्कर्तुः क्षत्रियस्य कामकारविषयम् । 'अपि'शब्दादश्वमे- धादिनाऽपि विशुद्ध्यति । तथाह मनुः (११।७४)—'यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन च । आभजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥'इति । अश्वमेधा- नुष्ठानं सार्वभौमक्षत्रियस्यैव ।—'यजेत वाऽश्वमेधेन क्षत्रियस्तु महीपतिः' इति पराशरस्मरणात्, 'नासार्वभौमो यजेत' इत्यसार्वभौमस्य प्रतिषेधदर्शनाच्च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम् ; 'महा- पातकर्तारश्चत्वारो मतिपूर्वकम् । अग्निं प्रविश्य शुद्ध्यन्ति स्थित्वा वा महति १. गृह्यं वा निर्वपेच्छ्रौतम् ।
प्रायश्चित्ताध्यायः ५२३ क्रतौ ॥' इति यमेन मरणकालाग्निप्रवेशतुल्यतया महाक्रतोरश्वमेधस्य निर्दिष्ट- त्वात् । स्वर्जितादयश्च त्रैवर्णिकस्याहिताग्नेरिष्टप्रथमयज्ञस्य द्वादशवार्षिकेण सह विकल्पन्ते । नच स्वर्जिताद्यर्थमाधानं प्रथमयज्ञानुष्ठानं वा कार्यम्; पतितस्य द्विजातिकर्मस्वनधिकारात् । नच संध्योपासनवद्विरोध इति युक्तम्; आधा- नादेरुत्तरक्रतुशेषत्वाभावात् । ते च दक्षिणान्यूनाधिक्याश्रयेण द्वादशवार्षिका- द्यर्हेषु साप्ताद्धन्त्रादिषु व्यवस्थापनीयाः ॥ २४८ ॥ भाषा-अथवा युद्ध भूमि में (दोनों पक्षों से बाण चलते रहने पर बीच में खड़ा होकर) बाणों का लक्ष्य होकर मर जाने पर शुद्ध होता है; कठिन प्रहार की वेदना से घायल होकर जीवित रहने पर भी वह ब्रह्महत्या के पाप से मुक्त हो जाता है ॥ २४८ ॥ अरण्ये नियतो जप्त्वा त्रिवै वेदस्य संहिताम् । शुद्ध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम् ॥ २४९ ॥ किंच, अरण्ये निर्जनप्रदेशे नियतो नियताहारः- 'जपेद्वा नियताहारः' (११।७७) इति मनुस्मरणात् । त्रिवारं मन्त्रब्राह्मणात्मकं वेदं जपित्वा शुद्धयति । 'संहिता'ग्रहणं पदक्रमव्युदासार्थम् । यद्वा मिताशनो भूत्वा प्लाक्षात् प्रस्रवणादारभ्य पश्चिमोदधेः प्रतिस्रोतः स्रोतः स्रोतः प्रति सरस्वतीं इत्वा गत्वा विशुद्ध्यति । अशनं च हविष्येण कार्यम्- 'हविष्यभुग्वाऽनुचरेत्प्रतिस्रोतः सर- स्वतीम्' (११।७७) इति मनुस्मरणात् । अयं च वेदजपो विदुषो हन्तुर्निर्ध- नस्यात्यन्तगुणवतो निर्गुणव्यापादने प्रमादकृते द्रष्टव्यः । सरस्वतीगमनं तु तादृश एव विषये विद्याविरहिणो द्रष्टव्यम् । निमित्तञ्च- 'तिरस्कृतो यदा विप्रो निर्गुणो म्रियते यदि' इति सुमन्तुवचनस्य दर्शितत्वात् । यत्पुनर्मनुवचनम् (११।७५)- 'जपित्वाऽन्यतमं वेदं योजनानां शतं व्रजेत्' इति तदपि 'अरण्ये नियतो जप्त्वा' इत्येतस्यैव विषयेऽशक्तस्य द्रष्टव्यम् ॥ २४९ ॥ भाषा-निर्जन स्थान में परिमित भोजन करता हुआ तीन बार सम्पूर्ण वेदों की संहिता का जप करने पर अथवा अल्पाहार करते हुए सरस्वती नदी के किनारे-किनारे पश्चिम समुद्र तक जाने पर शुद्ध होता है ॥ २४९ ॥ पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् । आदातुश्च विशुद्धयर्थमिष्टिर्वैश्वानरी स्मृता ॥ २५० ॥ किंच, 'न विद्यया केवलया' (आ० २००) इत्याद्युक्तलक्षणे पात्रे गोभू- हिरण्यादिकं जीवनपर्याप्तं समर्थं धनं दत्त्वा शुद्धिमवाप्नुयात् । तद्धनं यः प्रति- १. द्वादशवार्षिकषड्वार्षिकत्रैवार्षिकादिषु साप्ताद्धन्त्रादिषु । २. शुध्य- त्यथ मिताशी वा ।
गृह्णाति तस्य वैश्वानरदैवत्येष्टिः शुद्धयर्थं कर्तव्या । - एतच्चाहिताग्निविषयम् । अनाहिताग्नेस्तु तद्देवत्यश्चरुर्भवति; य एवाहिताग्नेर्धर्मः स एवौपासनिकस्येति गृह्यकारवचनात् । 'वा' शब्दात् सर्वस्वं सपरिच्छदं वा गृहं दद्यात् । यथाह मनुः (११।७६ ) - 'सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् । धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥' इति । इदं च पात्रे धनदानं निर्गुणस्य धनवतो हन्तु- र्निर्गुणव्यापादने द्रष्टव्यम् । तत्रैव विषये अविद्यमानान्वयस्य सर्वस्वदानं सान्व- यस्य तु सोपस्करगृहदानमिति व्यवस्था । यदपि पराशरेणोक्तम्- 'चातुर्विद्योप- पन्नस्तु विधिवद् ब्रह्मघातके । समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् ॥ सेतुबन्ध- पथे भिक्षां चातुर्वर्ण्यात्समाहरेत् । वर्जयित्वा विकर्मस्थान्कृतोपानद्विवर्जितः ॥ अहं दुष्कृतकर्मा वै महापातककारकः । गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ गोकुलेषु च गोष्ठेषु ग्रामेषु नगरेषु च । तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ एतेषु ख्यापयेदेनः पुण्यं गत्वा तु सागरम् । ब्रह्महाऽपि प्रमुच्येत स्नात्वा तस्मिन्महो- दधौ ॥ ततः पूतो गृहं प्राप्य कृत्वा ब्राह्मणभोजनम् । दत्त्वा वस्त्रं पवित्राणि पूतात्मा प्रविशेद् गृहम् ॥ गवां वाऽपि शतं दद्याच्चातुर्विद्याय दक्षिणाम् । एवं शुद्धिमाप्नोति चातुर्विद्यानुमोदितः ॥' इति । - तदपि 'पात्रे धनं वा पर्याप्तम्' इत्यनेन समानविषयम् । यच्च सुमन्तुवचनम् - 'ब्रह्महा संवत्सरं कृच्छ्रं चरेदधः- शायी त्रिश्रवणी कर्मावेदको भैक्षाहारो दिव्यनदीपुलिनसंगमाश्रमगोष्ठपर्वतप्रस्रवण- तपोवनविहारी स्यात् स्थानवीरासनी संवत्सरे पूर्णे हिरण्यमणिगोधान्यतिलभूमि- सर्पींषि ब्राह्मणेभ्यो ददन्पूतो भवति' इति तदपि हन्तुर्मूर्खस्य धनवतो जातिमात्र- व्यापादने द्रष्टव्यम् । यत्पुनर्वसिष्ठवचनम् - 'द्वादशरात्रमभक्षो द्वादशरात्र- मुपवसेत्' इति तन्मनसाऽध्यवसितब्रह्महत्यस्य स्वत एवोपरतजिघांसस्य वेदित- व्यम् । यत्पुनः - 'षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् । चान्द्रायणं च कुर्वीत पराकद्वयमेव च ॥' इति षट्त्रिंशन्मतवचनं तदप्रत्ययानेयपुंस्त्वस्य सप्रत्यय- वधे द्रष्टव्यम् । अत्रैव विषये अप्रत्ययवधे बृहस्पतिराह- 'अरुगायाः सरस्वत्याः संगमे लोकविश्रुते । शुद्धयेत्त्रिशवणस्नायी त्रिरात्रोपोषितो द्विजः ॥' इति । एवमन्यान्यपि स्मृतिवचनान्यन्विष्य विषमाणां व्यवस्था विज्ञेया । समानां तु विकल्पः । एतानि च द्वादशवार्षिकादिधनदानपर्यन्तानि ब्राह्मणस्यैव । क्षत्रिया- देस्तु द्विगुणादिकम् । यथाहाङ्गिराः- 'पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वृत्तं व्रतं स्मृतम् ॥' इति । एवं च ब्राह्म- णानां येन हन्तृहन्मयानगतगुणविशेषेण यः प्रायश्चित्तविशेषो व्यवस्थितः स एव तद्गुणविशिष्टे क्षत्रियादौ हन्तरि द्विगुणत्रिगुणो वेदितव्यः । अनयैव दिशा क्षत्रियवैश्यादावपि हीनेनोत्कृष्टवधे दोषगौरवात्प्रायश्चित्तस्यापि द्वैगुण्यादि कल्प-
१. ब्रह्महा विप्रमुच्येत । २. वीरासनेन संवत्सरे ।
[Header] प्रायश्चित्ताध्यायः ५२५
नीयम् । दोषगौरवं च दण्डगौरवादवगम्यते । यथोक्तम् — ‘प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥’ इति । यत्तु चतुर्विंशतिमतवचनम् — ‘प्रायश्चित्तं यदाम्नातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियः कुर्यादर्धं वैश्यः समाचरेत् ॥ शूद्रः समाचरेत्पादमशेषेष्वपि पाप्मसु ॥’ इति,—तत्प्रतिलोमानुष्ठितचतुर्विधसाहसव्यतिरिक्तविषयम् । तथा मूर्धावसिक्ता- दीनामप्यनुलोमोत्पन्नानां दण्डवत्प्रायश्चित्तमूहनीयम् । दर्शितं दण्डतारतम्यम् — ‘दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः’ इति । ततश्च मूर्धावसिक्तस्य ब्राह्मणवधे ब्राह्मणादतिरिक्तं क्षत्रियान्न्यूनमध्यर्धं द्वादशवार्षिकं भवति । अनयैव दिशा प्रतिलोमोत्पन्नानामपि प्रायश्चित्तगौरवमूहनीयम् । तथा आश्रमिणामपि अङ्गिरसा विशेषो दर्शितः — ‘गृहस्थोक्तानि पापानि कुर्वन्त्याश्रमिणो यदि । शौचवच्छोधनं कुर्युर्ब्रह्महानिदर्शनात् ॥’ इति शौचवदिति — ‘एतच्छौचं गृहस्थानां द्विगुणं ब्रह्म- चारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥’ ( मनुः—५।१३७ ) इति वचनाद्यथा ब्रह्मचार्यादीनां शौचं द्वैगुण्यादिक्रमेण वर्धते, तथा शोधनं प्रायश्चित्तमपि भवतीत्यर्थः । ब्रह्मचारिणस्तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षादूर्ध्वमेव । अर्वाक्तु पुनः ‘बालो वाप्यूनषोडशः; प्रायश्चित्तार्धमर्हन्ति’ इति षोडशवर्षादर्वा- चीनस्यार्धप्रायश्चित्ताभिधानात् । नच द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाप्त्यनुपपत्तेः प्रवृत्तिरेव नोपपद्यत इति शङ्कनीयम् । यतः प्रक्रान्तप्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवत्येव । यथाह हारीतः — ‘प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ॥’ इति । व्यासोऽप्याह — ‘धर्मार्थं यतमानस्तु न चेच्छक्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥’ इति ॥ २५० ॥ भाषा — अथवा पात्र ( योग्य ) व्यक्ति को गौ, भूमि और सोना आदि पर्याप्त धन देने पर ब्रह्महत्या का पापी शुद्ध होता है और दान लेने वाले की शुद्धि के लिये वैश्वानरी इष्टि करने का विधान है ॥ २५० ॥ अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशमाह — यागस्थक्षत्रविट्घाती चरेद् ब्रह्महणि व्रतम् । गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ २५१ ॥ दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यौ यो व्यापादयति असौ ब्रह्महणि पुरुषे यद्ब्रह्महत्याव्रतमुपदिष्टं द्वादशवार्षिकादि तच्चरेत् । यद्यपि ‘याग’शब्दः सामान्यवचनस्तथाऽप्यत्र सोमयागमभिधत्ते । ‘सवनगतौ च राजन्यवैश्यौ’ इति वसिष्ठेन सवनत्रयसंपादकस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्र च गुरुघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिश-
[Footnote] १, हन्ता ।
५२६ याज्ञवल्क्यस्मृतिः त्रिगुणाद्यपेक्षया प्रागुक्तवद् व्यवस्था वेदितव्या । एवं गर्भबधादिष्वपि। मरणान्तिकं तु नातिदिश्यते; व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे व्रतस्यैव द्वैगुण्यम् । एतच्च व्रतं संपूर्णमेव कर्तव्यम्,-'पूर्वयोर्वर्णयोर्वेदाध्यायिनं हत्वा' (धर्म. १।२४,६,५) इति प्रक्रम्यापस्तम्बेन द्वादशवार्षिकाभिधानात् । गर्भं च विज्ञासु संभूतं हत्वा यथावर्णं यद्वर्णपुरुषवधे यत्प्रायश्चित्तमुक्तं तद्वर्णगर्भबधे तच्चरेत् । एतच्चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषयम्; 'हत्वा गर्भमविज्ञातम्' (११।८७) इति मानवे विशेषदर्शनात् । अत्र च यद्यपि ब्राह्मणगर्भस्य ब्राह्मणत्वा- देव तद्वधनिमित्तव्रतप्राप्तिस्तथाऽपि स्त्रीत्वस्यापि संभवात्- 'स्त्रीशूद्रविट्क्षत्र- वध-'(प्रा० २३६) इत्युपपातकत्वेन तत्प्रायश्चित्तप्राप्तिरपि स्यात्, अतः स्त्रीपुंन- पुंसकत्वेनाविज्ञातेऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं 'ब्रह्महत्याव्रतं कुर्यात्' इत्यर्थवद- तिदेशवचनम् । उपजाते स्त्रीपुंसादिविशेषव्यञ्जने यथायथमेव प्रायश्चित्तम् । यश्चात्रेय्या निषूदको व्यापादकः सोऽपि तथा व्रतं चरेत् । हन्यमानात्रेयीवर्णानु- रूपं व्रतं चरेदित्यर्थः । 'आत्रेयी'शब्देनर्तुमत्युच्यते 'रजस्वलामृतुस्नातामात्रेयीमा- हुर्यत्र ह्येतदपत्यं भवति' इति वसिष्ठस्मरणात् । अत्रिगोत्रा च । - 'अत्रिगोत्रां वा नारीम्' (५०।९) इति विष्णुस्मरणात् । एतदुक्तं भवति-ब्राह्मणगर्भबधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भबधे क्षत्रियात्रेयीवधे च क्षत्रहत्या- व्रतम्, एवमन्यत्रापीति । 'च'शब्दात्साक्ष्ये अनृतवचनादिष्वपि । तथाह मनुः (११।८८) - 'उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥' इति । यत्र व्यवहारे असत्यवचनेन प्राणिनां वधप्रा- प्तिस्तद्विषयमेतत्; प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश्च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः- 'आहिताग्नेर्द्विजाग्र्यस्य हत्वा पत्नीमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयीघ्नस्तथैव च ॥' इति । 'सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥' इति पराशरस्मरणात् । एवं च सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चि- त्तातिदेशात्तद्व्यतिरिक्तस्त्रीवधस्य 'स्त्रीशूद्रविट्क्षत्रवध-'(प्रा० २३६) इत्युपपातक- मध्यपाठादुपपातकत्वमेव ॥ ननु 'ब्राह्मणो न हन्तव्य' इत्यत्र निषेधेऽनुपादेयगत- त्वेन लिङ्गवचनयोरविवक्षितत्वाद् ब्राह्मणजातेश्च स्त्रीपुंसयोरविशेषात्तदतिक्रमनिमि- त्तप्रायश्चित्तविधेः- 'ब्रह्महा द्वादशाब्दानि' (प्रा० २४३) इत्यस्योभयत्र प्राप्तत्वा- त्किमर्थं 'तथात्रेयीनिषूदक' इत्यतिदेशवचनम् ? उच्यते, - सत्यपि ब्राह्मणत्वेऽ- नात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थं ततस्तस्यापि पातकमध्यपा- ठादुपपातकप्रायश्चित्तमेव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्य- स्य । अतः पतितत्यागादिकार्यमत्र^२ न भवति ॥ २५१ ॥ १. रविपर्ययात् । २. कार्यमात्रम् ।
भाषा-यज्ञ में (दीक्षणीया और उदयनीया पर्यन्त सोमयाग में वर्त्तमान) क्षत्रिय और वैश्य की हत्या करने वाला ब्रह्महत्या वाला व्रत करे; गर्भपात कराने वाले और रजस्वला स्त्री की हत्या करने वाला वर्ण के अनुसार (जिस वर्ण का गर्भ या स्त्री हो) हत्या का प्रायश्चित्त करे ॥२५१॥ चरेद् व्रतमहत्वाऽपि घातार्थं चेत्समागतः। द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ २५२ ॥ किंच, यथावर्णमित्यनुवर्त्तते; ब्राह्मणादिहनने कृतनिश्चयस्तद्व्यापादनार्थं सम्यगागत्य शस्त्रादिप्रहारे कृते कथंचित्प्रतिबन्धवशादसौ न मृतस्तदा अहत्वाऽपि यथावर्णं ब्रह्महत्यादि व्रतं चरेत् । तथा च गौतमः (२२।११)-'स्पृष्ट्वेदं ब्राह्मणवधे अहत्वाऽपि' इति । ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता-सत्यम्; अत एवौपदेशिकेभ्यो न्यूनत्वादातिदेशिकानां पादोनान्येव ब्रह्महत्यादिव्रतानि द्वाद- शवार्षिकादीनि भवन्ति । एवच्च प्रपञ्चितं प्राक् । किंच, यस्तु सवनसंपादकं सोम- यागमनुतिष्ठन्तं ब्राह्मणं व्यापादयति तस्मिन्द्रादशवार्षिकादिव्रतं द्विगुणं समा- दिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षया सत्यपि सव- नस्थत्वस्याविशेषे पूर्ववदेव व्यवस्थाऽवगन्तव्या । ब्रह्महत्यासमानां तु गुर्व- ङ्गिचेपादीनामातिदेशिकेभ्योऽपि न्यूनत्वादध्र्धोनं द्वादशवार्षिकादिप्रायश्चित्तमि- त्युक्तम् ॥ २५२ ॥ भाषा-वध करने के लिए आकर (किसी कारणवश) वध न होने पर भी (वर्ण के अनुसार ब्रह्महत्या आदि का) व्रत करे । सोमयाग के अनुष्ठान में लगे हुए ब्राह्मण को मारने पर दूना (दोहरा चौबीस वर्ष का) व्रत करे ॥ २५२ ॥ इति ब्रह्महत्याप्रायश्चित्तप्रकरणम् । अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते- सुराम्बुघृतगोमूत्रपयसामग्निसंनिभम् । सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ २५३ ॥ सुरादीनां मध्येऽन्यतममग्निसंनिभं क्वाथापादिताग्निसंस्पर्शदाहशक्तिकं कृत्वा पीत्वा सुरापो मरणाच्छुद्धिं प्राप्नोति । गोमूत्रसाहचर्यादुन्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच्च स्त्रणमेव गोमूत्रम् । एतच्चार्द्रवाससा कार्यम् । 'सुराप आर्द्रवासाश्च अग्निवर्णां सुरां पिवेत्' इति पैठीनसिस्मरणात् । तथा-'लौहेन पात्रेण सुरापोऽग्निवर्णां सुरामायसेन पात्रेण ताम्रेण वा पिवेत्' ३. माप्नुयात् ।
५२८ याज्ञवल्क्यस्मृतिः इति प्रचेतःस्मरणात् । एतच्च सकृत्पानमात्रे; 'सुरापानं सकृत्कृत्वाऽप्यग्निवर्णां सुरां पिबेत्' इत्यङ्गिरःस्मरणात् । यत्तु वसिष्ठवचनम्—'अभ्यासे तु सुरा- याश्च अग्निवर्णां पिबेद् द्विजः' इति, —तत्सुरान्यरिक्तमद्यपानविषयम् । एतच्च कामकारविषयम् ; 'सुरापाने कामकृते ज्वलन्तीं तां विनििक्षिपेत् । मुखे तया विनिर्दग्धो मृतः शुद्धिमवाप्नुयात् ॥' इति बृहस्पतिस्मरणात् । यत्तु 'सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत्' (११।९०) इति मनुना मोहग्रहणं कृतं, तच्छास्त्रार्थापरिज्ञानाभिप्रायेण । अत्रेदं चिन्तनीयम्—किं 'सुरा' शब्दो मद्यमात्रे रूढ उत तिसृष्वेव गौडीमाध्वीपैष्टीष्वाहोस्वित्पैष्ट्यामेवेति । तत्र केचिन्मद्यमात्रे रूढ इति वर्णयन्ति; 'अभ्यासे तु सुरायाः' (२०।२२) इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्तेऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । न चासौ गौणः प्रयोग इति शङ्कनीयम् । मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वादिति,—तदयुक्तम् ; 'पानसं द्राक्षं माधूकं खार्जूरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम् ॥' इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश्च मद्यमात्रे सुराशब्द- प्रयोगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु 'सुरा'शब्दस्य रूढिं मन्यन्ते । तथा हि—यद्यप्यनेकत़्र सुराशब्दप्रयोगो दृश्यते तथाऽपि कुत्रानादित्वमिति संदेहे—'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा' (११।९४) इति मनुवचनाद्गुडमधुपिष्टविकारेष्वनादित्वनिर्धारणात्तत्रैव मुख्यत्वं युक्तम् । नचा- नेकत्र शक्तिल्पना दोषः; मदशक्तेरुपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । नच तालादिरसेष्वप्युपाधेर्विद्यमानत्वादतिप्रसङ्गः; पङ्कजादिशब्दवद्योगरूढत्वा- श्रयणात् । अतश्च—'यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः' (मनुः ११।९४) इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपरं न पुनरनयोगौ- डीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । 'द्विजोत्तम'ग्रहणं द्विजात्युपलक्ष- णम्,—एतदप्ययुक्तम् ; 'द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम्' इति पुल- स्त्यवचने गौडीमाध्वीभ्यामपि सुरामद्यँस्यातिरेकदर्शनात् । तथा—'सुरा वै मलमन्नानां पाप्मा च मलमुच्यते' (मनुः ११।९३) इति । अन्नविकारस्यैव सुरात्वनिर्देशादन्नशब्दस्य च 'अन्नेन व्यञ्जनम्' इत्यादिषु व्रीह्यादिविकार एव प्रयोगदर्शनाद् गुडमधुनोश्च रसरूपत्वात्तथा सौत्रामणिग्रहेषु चान्नविकारे एव 'सुरा'शब्दस्य श्रुतत्वात् पैष्ट्येव सुरा मुख्योच्यते । इतरयोस्तु सुराशब्दो गौणः; यत्तूक्तम्—'गौडी माध्वी' इति मनुवचनात्तिसृष्वप्यौपत्तिकत्वनिर्धारणादिति,— तदप्ययुक्तम् ; यतो नेदं शब्दानुशासनवच्छब्दार्थसम्बन्धानादित्वप्रतिपादनपरं, १. पाधिकत्वेन । २. नैकशक्ति । ३. मद्यस्य व्यतिरेक ।
किंन्तु कार्यप्रतिपादनपरम् । अतो गुरुप्रायश्चित्तनिमित्ततया गौडीमाध्व्योर्गौणः 'सुरा'शब्दयोगः । 'एवं च नानेकक्तिकल्पनादोषो नाप्युपाध्याश्रयणं कृतम् । न चात्र 'द्विजोत्तम'ग्रहणस्योपलक्षणत्वम् । अतश्च—'सुरा वै मलमन्नानां पाप्मा च मलमूच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥' ( मनुः ११।९३ ) इति पैष्ट्या एव वर्णत्रयसंबन्धित्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधः, न क्षत्रियवैश्ययोः; 'यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानाम्शनता हविः ॥' ( ११। ९५ ) इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनाऽपि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शितः—'माधूक मैक्षवं सैरं तालं खार्जूरपानसम् । मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥' इति ॥ बृहद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोर्दोषाभावो दर्शितः—'कामादपि हि राजन्यो वैश्यो वाऽपि कथंचन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥' इति । व्यासेनापि तयोर्माध्वीपानमनुज्ञातम्—'उभौ मध्वासवक्षीबावुभौ चन्दनचर्चितौ । एकपर्यङ्करधिनौ दृष्टौ मे केशवार्जुर्नौ ॥' इति । एवं ब्राह्मण- संबन्धित्वेन मद्यमात्रनिषेधे सत्यपि—'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥' ( मनुः ११। ९४ ) इति गौडीमाध्व्योः पृथङ्निषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपाद- नपरम् । अयं च सुरानिषेधोऽनुपनीतस्यानूढायाश्च कन्याया भवत्येव; 'तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्' ( मनुः ११।९३ )—इति जातिमा- त्रावच्छेदेन निषेधात् । अतश्च 'सुरां पीत्वा द्विजो मोहात्' ( ११।९० ) इति प्रायश्चित्तविधिवाक्ये मनुना यद्द्विजग्रहणं कृतं तद्वर्णत्रयोपलक्षणार्थम् ; निमि- त्तभूतनिषेधसापेक्षत्वान्नैमित्तिकविधेर्निषेधे च वर्णमात्रस्यावच्छेदकत्वात् । यथा 'यस्य हविर्निरूप्तं पुरस्ताच्चन्द्रमा अभ्युदेति' इति निमित्तवाक्ये हविर्मात्राभ्यु- दयस्य निमित्तंतावावगतौ तत्सापेक्षनैमित्तिकवाक्ये श्रूयमाणमपि 'त्रेधा तन्दुला- न्विभजेत्' इति तन्दुलग्रहणं तन्दुलादिरूपहविर्मात्रोपलक्षणम् । इयांस्तु विशेषः— 'पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति वचनात्कामकारेऽपि, न मर- णान्तिकं किंतु पादमेव द्विगुणीकृत्य षड्वार्षिकं देयम् ; 'विहितं यदकामानां कामात्तद्द्विगुणं चरेत्' इत्यङ्गिरःस्मरणात् । एवं वृद्धातुरादिष्वपि योज्यम् । तथा 'तद्ब्राह्मणेन नात्तव्यं देवानाम्शनता हविः' ( मनुः ११।९५ )—इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वादनुपनीतेनापि न पेयम् । ननु कथ- मनुपनीतस्य दोषः ? 'प्रागुपनयनात्कामचारकामवादकामभक्षाः' ( २।१ ) इति- १. निन्दितत्वावगतौ ।
५३० याज्ञवल्क्यस्मृतिः गौतमवचनात्, तथा—'मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वाऽऽपञ्च- माद्वर्षादूर्ध्वं पित्रोः सुहृद्गुरोः ॥' इति कुमारवचनाच्च दोषाभावावगतेः । उच्यते,—सुरामद्ययोर्निषेधवाक्ये जातिमात्रावच्छेदकत्वश्रवणादप्रतिहतैव नि- षेधप्रवृत्तिः । अत एव स्मृत्यन्तरे निषेधवचनम्—'सुरापाननिषेधस्तु जात्याश्रय इति स्थितिः' इति । अतः 'पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः' इति । 'सर्वपापेषु सुरापानादिष्वपि' इति वचनात्पाद एव सुरापाने प्रायश्चित्तम् । तथा जातूकर्ण्येन मद्यपानेऽपि प्रायश्चित्तमुक्तम्—'अनुपेतस्तु यो बालो मद्यं मोहा- त्पिबेद्यदि । तस्य कृच्छ्रत्रयं कुर्यान्माता भ्राता तथा पिता ॥' इति । अतो गौतमवचनं सुरादिव्यतिरिक्तशुक्तपर्युषितादिविषयम् । कुमारवचनं तु स्वल्प- दोषख्यापनपरम् । अत एव प्रागुपनयनात्कृतदोषस्योपनयनमेव प्रायश्चित्तमित्युक्तं मनुना ( २।२७ )—'गार्भैर्होमैर्जातकर्मचूडामौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥' इति । अयमत्रार्थः-त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टी- प्रतिषेधः । ब्राह्मणस्य मद्यमात्रनिषेधोऽप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य न सुराप्रतिषेधो नापि मद्यप्रतिषेधः ॥ २५३ ॥ भाषा—सुरा पीने वाला महापातकी सुरा, जल, घृत, गोमूत्र और दूध में किसी एक को खूब खौलाकर पीए और उससे उसकी मृत्यु हो जाय तब वह शुद्ध होता है ॥ २५३ ॥ प्रायश्चित्तान्तरमाह— बालवासा जटी वाऽपि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणांश्चाऽपि भक्षयेत्त्रिसमा निशि ॥ २५४ ॥ गोश्वागादिलोमनिर्मितवस्त्राप्रावृतो बालवासाः, 'बालवासो'ग्रहणं चीरवल्क- लयोरुपलक्षणार्थम् ; 'सुरापगुरुतल्पगौ चीरवल्कलवाससौ ब्रह्महत्याव्रतं चरेया- ताम्' इति प्रचेतःस्मरणात् । 'जटी'ग्रहणं मुण्डित्वनिराकरणार्थम् । 'ब्रह्म- हत्याव्रतं चरेत्' इत्यनेनैव सिद्धे यद्बालवसनादिग्रहणं तदन्यत्र संभंवि स्वयं मारितशिरःकपालादिनिवृत्यर्थम् । इदमकामतो जलबुद्धया यः सुरां पिबति तद्विषयम् ; 'इयं विशुद्धिरुदिता प्रमाप्याऽकामतो द्विजम्' ( मनुः ११।८९ )— इत्यकामोपाधित्वेन विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । अत्र च सुरा- पानस्य महापातकत्वादसत्यप्यातिदेशिकत्वे संपूर्णमेव द्वादशवार्षिकं कुर्यान्न पादो- नम् । अत एव वृद्धहारीतः—'द्वादशभिर्वर्षैर्महापातकिनः पूयन्ते' इति । १. चरेद् ब्रह्महणि व्रतम् । २. भक्षयेत्तु समां निशि । ३. संभवे श्रूय- माणस्वसंबन्धि स्वयम् ।
अथवा पिण्याकं¹ पिण्डितं त्रिसमा वर्षत्रयपर्यन्तं रात्रौ भक्षयेत् । कणा- स्तन्दुलेल²वास्तान्वा पूर्ववद्भक्षयेत् ।- एतच्च सकृदेव कार्यम् ; 'कणान्वा भक्ष- येदब्दं पिण्याकं वा सकृन्निशि' ( ११।९२ ) इति मनुस्मरणात् । अस्य च पिण्या- कादिभक्षणस्य भोजनकार्ये विहितत्वादशनान्तरपरित्यागः । एतच्चोदकबुद्ध्या सुरा- पाने छर्द्दनोत्तरकाले वेदितव्यम् ; 'एतदेव व्रतं कुर्यान्मद्यपश्छर्द्दने कृते । पञ्चगव्यं च तस्योक्तं प्रत्यहं कायशोधनम् ॥' इति व्यासवचनात् । नच सुरासंसृष्टेषूद- पलब्धमानतद्गन्धरसोदकपानविषयमिदमिति सुन्दरम् । संसर्गेऽपि सुरात्वस्या- नपायात् । यथाऽऽज्यत्वस्य पृषदाज्ये । अत एव 'आज्यपा इति निगमाः कार्याः न पृषदाज्यपाः' इत्येवमुक्तं न्यायविद्भिः । यत्पुनरापस्तम्बवचनम् ( १।२५ )- 'स्तेयं कृत्वा सुरां पीत्वा गुरुदारान्गत्वा ब्रह्महत्यां च कृत्वा चतुर्थं कालं मित- भोजनोऽभ्युपेयात्सवनानुपशं स्थानासनाभ्यां विहरंस्त्रिभिर्वर्षैः पापं व्यपनुदति' इति । यच्चाङ्गिरोवचनम्- 'महापातकसंयुक्ता वर्षैः शुद्ध्यन्ति ते त्रिभिः' इति, तदुभयमपि 'पिण्याकं वा कणान्वा' इत्यनेनै कविषयम् । यदपि यमेन प्रायश्चित्तद्वय- मुक्तम् - 'बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पूतः । समत्वं ब्राह्मणैर्गच्छेदिष्ट्येषा वैदिकी श्रुतिः ॥ भूमिप्रदानं यः कुर्यात्सुरां पीत्वा द्विजोत्तमः । पुनर्न च पिबेत्तां तु संस्कृतः स विशुद्ध्यति ॥' इति, -तदुभयमपि पूर्वेण सहैकविषयम् । यद्वा अतिरिक्तदक्षिणाकतृत्वाश्रयणाद् द्वादशवार्षिकेन सह विकल्पते । अत्रापि बालवृद्धादीनां सार्धैकवर्षीयमनुपनीतानां तु नवमासिकमित्येवं कल्पना कार्या । यत्तु मनुवचनम् ( ११।९२ )- 'कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी ॥' इति, -तत्तालुमात्रसंयोगे सुराया अबुद्धिपूर्वे द्रष्टव्यम् । ननु च द्रवद्रव्यस्याभ्यवहरणं पानमित्युच्यते । अभ्यव- हरणं च कण्ठादधोनयनं न तालुवादिसंयोगमात्रं, अतः कथं तत्र पाननिमित्तं प्रायश्चित्तम् ? उच्यते- येन तालुवादिसंयोगेन विना पानक्रिया न निर्वर्तते सोऽपि पानक्रियाप्रतिषेधेन प्रतिषिद्धः । अतो यद्यपि मुख्यपानाभावान्न महा- पातकत्वं तथापि तत्प्रतिषेधेन तदङ्गभूतान्यभिचारिताल्वादिसंयोगस्यापि प्रति- षिद्धत्वेन दोषस्य विद्यमानत्वादङ्गावस्थेव प्रायश्चित्तम् ।- 'चरेद् व्रतमहत्त्वाऽपि घातार्थं चेत्समागतः' इति । यथा हननप्रतिषेधेन तदङ्गभूताध्यवसायादेरपि प्रति- षिद्धत्वात्प्रायश्चित्तविधानम् । यत्तु बौधायनीयम् - 'त्रैमासिकममत्या सुरापाने कृच्छ्राब्दपादं चरित्वा पुनरुपंनयनम्' इति; यच्च याम्यम् - 'सुरां पीत्वा द्विजं हत्वा रुक्मं हृत्वा द्विजन्मनः । संयोगं पतितैर्गत्वा द्विजश्चान्द्रायणं चरेत् ॥' इति; यदपि बार्हस्पत्यम् - 'गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् । १. पिण्याकपिण्डान् । २. तंदुलानवस्तान्वा । ३४ या०
तत्कृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥' इति,–तत्तितयमप्यनन्यौषधसाध्य- व्याध्युपशमार्थे पाने वेदितव्यम्; प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेवान्नं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः ( ११।१५० )— 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥' इति । यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात्—'सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति । यत्तु बौधायनीयम् (२।१।२१)—'सुरापानस्य यो भाण्डेऽष्वापः पर्युषिताः पिबेत् । शङ्ख- पुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत्त्र्यहम् ॥' इति,–तत्पर्युषितत्वादधिकम् । अकाम- तोऽभ्यासे पुनर्मुनुनोक्तम् ( ११।१४७ )—'अपः सुराभाजनस्था मद्यभाण्ड- स्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः ॥' इति; यत्तु विष्णूक्तम् ( ५२।२३ )–'अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति,–तन्मतिपूर्वकपाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह—'सुराभाण्डे स्थितं तोयं यदि कश्चित्पिबेद्द्विजः । स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । सुरापस्य मुखगन्धघ्राणे तु मानवम् ( ११।१४९ )—'ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥' इति,– तत्सोमयाजिन एवामतिपूर्वे; मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम्; साक्षात्सुरागन्धघ्राणस्य तु 'जातिभ्रंशकरेषु यत्' इति जातिभ्रंशकरत्वात्—'जाति- भ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' ( ११।१२४ ) इति मनूक्तं द्रष्टव्यम् ॥ २५४ ॥
भाषा—अथवा बकरा आदि के बाल से बना हुआ वस्त्र धारण कर एवं जटा रख के ब्रह्महत्या के लिए विहित व्रते करे । अथवा तीन वर्ष तक केवल रात्रि को पिण्याक (पिण्डी) या कण को भोजन करे ॥ २५४ ॥
एवं मुख्यसुरापाने प्रायश्चित्तमुक्तवा मद्यपाने प्रायश्चित्तमाह— अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५५ ॥
यः पुनरज्ञानादुदकबुद्धया सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयोऽपि द्विजातयो वर्णास्तत्तत्कृच्छ्रपूर्वकं पुनरुप- नयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनः संस्कारः स ब्राह्मणस्यैव; क्षत्रियविशोस्तदम्यनुज्ञानस्य दर्शितत्वात् । 'सुरा'शब्दश्चात्र मद्यपरः; प्रायश्चित्त- स्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अत
१ अज्ञानाद्दारुणीं पीत्वा ।
प्रायश्चित्ताध्यायः ५३३ एव गौतमेनात्र मद्यशब्दः प्रयुक्तः ( २३।२ )—'अमत्या मद्यपाने पयो घृत- मुदकं वा त्र्यहं तप्तानि पिबेत्स तप्तकृच्छ्रस्ततोऽस्य संस्कारो मूत्रपुरीषकुणपरेतसां प्राशने च'इति । यदप्यस्मिन्नेव विषये मनुनोक्तम् (११।१४६)—'अज्ञानाद्वारुणीं पीत्वा संस्कारेण विशुद्ध्यति' इति, -तदपि तप्तकृच्छ्रपूर्वकमेव गौतमवाक्यानुरो- धात् । पुनःसंस्कारश्च पुनरुपनयनम् । तच्चाश्वलायनोक्तक्रमेण कर्तव्यम् । यथो- क्तम्—'अथोपेत्तपूर्वस्य कृताकृतं केशवपनं मेधाजननं चानिरुक्तं परिदानं कालश्च तत्सवितुर्वृणीमह इति सावित्रीम्' इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्— 'मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनः संस्का- रश्च' इति । चान्द्रायणं वा शङ्खोक्तम्—'असुरामद्यपायी चान्द्रायणं चरेत्' इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम्—'अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा षड्रात्रेण विशुद्ध्यति ॥' इति ।-एतच्च तालादि- मद्यविषयम् । गौडीमाध्व्योः पुनरज्ञानतः पाने 'असुरायाः सुरायाश्चाज्ञानतः' इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनः संस्कारो घृतप्राशश्च द्रष्टव्यः । तयोर्मतिपूर्व- पाने तु 'पिण्याकं वा कणान्वा' (प्रा० २५४) इति त्रैवार्षिकम् । कामतस्तु तत्पाना- भ्यासे 'अभ्यासे तु सुराया अग्निवर्णां सुरां पिबेन्मरणात्पूतो भवति' इति वासिष्ठं मरणान्तिकं द्रष्टव्यम् । नात्र 'सुरा' शब्दः पैष्ट्यभिप्रायः; तस्याः सकृत्पानेऽपि मर- णान्तिकस्य दर्शितत्वात् । मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमे- नोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । कुशमूलविपक्वेन त्र्यहं क्षीरेण वर्तयेत् ॥' इति । अज्ञानतोऽभ्यासे तु वसिष्ठेनोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥ एतेषा- मुदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥' इति । ज्ञानतः पाने तु विष्णूक्तम्—'मद्य- भाण्डस्थितं तोयं पीत्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति । ज्ञानतोऽभ्यासे तु शङ्खेनोक्तम्—'मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्' इति । अत्यन्ताभ्यासे तु हारीतोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । एषु च वाक्येषु 'द्विज'ग्रहणं ब्राह्मणाभिप्रायम् ; क्षत्रियवैश्ययोरप्रतिषेधादिति दर्शितं प्राक् । इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं गुरुत्वात्प्रायश्चित्तस्य । तालादिमद्यभाण्डो- दकपाने तु कल्प्यम् ॥ २५५ ॥ भाषा—अज्ञान से सुरा, वीर्य, विष्ठा या मूत्र पीने पर तीनों द्विजाति वर्ण पुनः संस्कार करने योग्य हो जाते हैं । ( सुरापान में पुनः संस्कार केवल ब्राह्मण का ही होता है ) ॥ २५५ ॥
५३४ याज्ञवल्क्यस्मृतिः द्विजातिभार्यायां प्रत्याह— पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ २५६ ॥ या द्विजातिभार्या सुरां पिबति सा कृतपुण्याऽपि सती पतिलोकं न याति किंत्विहैव लोके श्वगृध्रसूकरलचितां तिर्यग्योनिं क्रमेण प्राप्नोति । 'ब्राह्मणी' ग्रहणं चात्र 'तिस्रो वर्णानुपूर्व्येण' ( आ० ५७ ) इति न्यायेन यस्य द्विजातेर्यास्त्य्रो भार्यास्तासामुपलक्षणम् । अत एव मनुः—'पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । पतिताधंशरीरस्य निष्कृतिर्न विधीयते ॥' इति । धर्मार्थकामेषु सहाधि- काराद्दम्पत्योरेकशरीरत्वमेव, अतो यस्य द्विजातेर्भार्या सुरां पिबति तस्य भार्या- रूपमर्धं शरीरं पतति । पतितस्य च भार्यारूपस्यार्धशरीरस्य निष्कृतिर्न विधी- यते । तस्माद् द्विजातिभार्याया ब्राह्मण्याद्यया न सुरा पेया । 'तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्' इति निषेधविधौ लिङ्गस्याविवक्षितत्वेन वर्णत्रयभार्याणा- मपि प्रतिषेधे सिद्धे पुनर्वचनं द्विजातिभार्यायाः शूद्राया अपि सुराप्रतिषेध- प्राध्यर्थम् । अतो द्विजातिभार्याभिः सुरापाने प्रायश्चित्तस्यार्धं कार्यम् ; शूद्र- भार्यायास्तु शूद्रायाः शूद्रवदेव न प्रतिषेधः । सुरापानसमेषु तु निषिद्धभक्षणादिषु सुरापानप्रायश्चित्तार्धमित्युक्तं प्राक् ॥ २५६ ॥ भाषा—जो ब्राह्मणी स्त्री सुरापान करती है वह पतिलोक नहीं प्राप्त करती है; वह इसी लोक में कुतिया, गिद्धनी और सूकरी होकर जन्म लेती है ॥२५६॥ इति सुरापानप्रायश्चित्तप्रकरणम् । क्रमप्राप्तं सुवर्णस्तेयप्रायश्चित्तमाह— ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् । स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचिः ॥ २५७ ॥ ब्राह्मणस्वामिकं सुवर्णं योऽपहरत्यसौ सुवर्णस्तेयं मया कृतमित्येवं स्वकर्म ख्यापयन् राज्ञे मुसलं समर्पयेत् । मुसलसमर्पणस्य दृष्टार्थत्वात्तेन मुसलेन राजा तं हन्यात् । तेन राज्ञा हतो मुक्तो वा शुद्धो भवति । 'अपहरण'शब्देन च समक्षं परोक्षं वा बलाच्चौर्येण वा क्रयादिस्वत्वहेतुं विना ग्रहणमुच्यते । 'मुसलं समर्पयेत्'इति यद्यपि सामान्येनोक्तं तथापि तस्य हननार्थत्वात् तत्समर्थस्या- योमयादेर्ग्रह्णम् । अत एव मनुनोक्तम् (८।३१५)—स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् । अंसि चोभयतस्तीक्ष्णमायसं दण्डमेव वा ॥' इति । शङ्खेना- प्यत्र विशेष उक्तः ( ११।१०० )—'सुवर्णस्तेनः प्रकीर्णकेश आईवासा आयसं १. शक्ति चोभयतस्तीक्ष्णामा ।
मुसलमादाय राजानमुपतिष्ठेत् 'इदं मया पापं कृतमनेन मुसलेन मां घातयस्व' इति स राज्ञा शिष्टः सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव कार्यम् । अत एव मनुनोक्तम् ( ११।१०० ) — 'ततो मुसलमादाय सकृद्ध- न्यात्तु तं स्वयम्' इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्धयेत् , मुक्तो वा मरणाजीवन्नपि विशुद्ध्येदिति यावत् । तथा च संवर्तेनोक्तम्—'ततो मुसल- मादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुद्ध्यति ॥' इति ॥ यथोक्तं ब्राह्मणवधे — 'मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति' इति । नन्वताडित एव राज्ञा मुक्तः स्तेनः शुद्धयेदित्ययमर्थः कस्मान्नोच्यते ? उच्यते,— 'अनघ्नन्नेनस्वी राजा' इति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् । भवतु राज्ञो दोषस्तथाप्यतिक्रान्तनिषेधेन राज्ञा स्नेहादिना मुक्तः स्तेनः कथं न शुद्धयेदिति चेत् ,—उच्यते — एवं च सति अकारणिका शुद्धिरापतेत् । अथो- च्यते—मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्ठानेन शुद्धयङ्गीकरणान्नाकारणिकेति,— तदप्यसुन्दरम् ; मुक्तः 'शुचिः' इति मोक्षस्यैव शुद्धिहेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाजीवन्नपि विशुद्ध्येदिति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषाद्यनुपादानात् क्षत्रियादीनां च महापात कित्वाविशेषात्प्राय- श्चित्तान्तरस्यानाम्नानाच्च । यत्पुनर्मानवे ( ११।९९ ) — 'सुवर्णस्तेयकृद्विप्रः' इति 'विप्र'ग्रहणं तन्नरमात्रोपलक्षणम् । 'प्रायश्चित्तीयते नर' इति तस्यैव प्रकृ- तत्वात् , 'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' ( मनुः ११।५४ ) इति निमित्तवाक्ये विशेषाद्यनुपादानाच्च । तत्सापेक्षनैमित्तिकवाक्ये 'सुवर्णस्तेयकृ- द्विप्रः' ( ११।९९ ) इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथा 'अभ्युदिते- ष्ट्यां यस्य हविः'इति वाक्ये 'तन्दुल'ग्रहणं हविर्मात्रस्य । इदं च राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य ; 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' ( ८ ३८० ) इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तनिषेधे राज्ञा हन्यते तथाऽपि शुद्धो भवति; 'वधेन शुद्ध्यति स्तेनो ब्राह्मणस्तपसैव वा' (मनुः ११।१०० ) इति ब्राह्मणस्यापि वधेन शुद्ध्यभिधानात् । नच 'तपसैव वा' इत्येवकारेण वधनिषेधः; तस्य केवलतपसाऽपि शुद्ध्यभिधानपरत्वात् । यदि वधो निषिद्धस्तर्हि 'तपसैव वा' इति विकल्पाभिधानमनुपपन्नम् । नच दण्डा- भिप्रायं विकल्पाभिधानम् ; तस्यानिर्दिष्टत्वात् । किंच 'एकार्थास्तु विकल्पेरन्' इति न्यायेनैकार्थानामेव विकल्पो व्रीहियवयोरिव । नच दण्डतपसोरेकार्थत्वम् ; दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच 'वधेन शुद्ध्यति स्तेन' इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः । नहि भवति 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय च'
५३६ याज्ञवल्क्यस्मृतिः
इति विकल्पस्तस्माद् द्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न निषेधः ; मनुना—‘सुवर्णस्तेयकृद्विप्र' ( ११।९९ ) इत्यभिधाय—‘गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।' ( ११।१०० ) इति सर्वनाम्ना प्रकृ- तब्राह्मणपरामर्शेनैव हननविधानात्—‘न जातु ब्राह्मणं हन्यात्' इत्यस्य प्राय- श्चित्तव्यतिरिक्तदण्डरूपहननविषयत्वेनाप्युपपत्तेः ।—एतच्च मरणान्तिकं मति- पूर्वसुवर्णस्तेयविषयम् । ‘मरणान्तिकं हि यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । यत्तु कामकृते पापे विज्ञेयं नात्र संशयः ॥' इति मध्यमाङ्गिरःस्मरणात् । अत्र च ‘सुवर्ण'शब्दः परिमाणविशिष्टहेमद्रव्यवचनो न जातिमात्रवचनः । 'जाल- सूर्यमरीचिस्थं त्रसरेणु रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरस्तु ते त्रयः षड्भिर्यवो माषस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥' इति षोडशमाषपरिमिते हेमनि ‘सुवर्ण'शब्दस्य परिभा- षितत्वात् । अतो ‘ब्राह्मणसुवर्णापहरणं महापातकम्' इत्यादिप्रयोगेषु कृतपरि- माणस्यैव सुवर्णस्य ग्रहणं युक्तम् ; परिमाणकरणस्य दृष्टार्थत्वात् । न ह्यदृ- ष्टार्थंपरिमाणस्मरणम् । नापि लोकव्यवहारार्थम् ; अतत्परत्वात्स्मृतिकार- प्रवृत्तेः । अत एवोक्तं न्यायविद्भिः—‘कार्यकाले संज्ञापरिभाषयो रुपस्थानम्' इति । तथा नामानि गुणफलोपबन्धेनार्थवदित्युकतं 'पञ्चदशान्येउक्थ्यानि' इत्यत्र । नच दण्डमात्रोपयोगिपरिमाणस्मरणमित्युक्तमिति युक्तम् ; तावन्मात्रार्थत्वे प्रमाणाभावात् । अतोऽविशेषात्सर्वशेषत्वमेव युक्तम् । किंच, दण्डस्य दमना- र्थत्वादमनस्य च परिमाणविशेषमन्तरेणापि सिद्धेर्नातीव परिमाणस्मरणमु- पयुज्यते । शब्दैकसमधिगम्ये तु महापातकितादावेकान्ततः स्मरणमुपयु- ज्यते । अतः षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्वं तन्नि- मित्तं मरणान्तिकादिप्रायश्चित्तविधानं च । द्वित्रादिमाषात्मकहेमहरणं तु क्षत्रि- यादिहेमहरणवदुपपातकमेवेति युक्तम् । किंच, सुवर्णान्न्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदेशात्तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तमिति युक्तम् । तथा चोक्तं षट्त्रिंशन्मते—'वालाग्रमात्रेऽपहृते प्राणायामं समाचरेत् । लिक्षामात्रेऽपि च तथा प्राणायामत्रयं बुधः ॥ राजसर्षपमात्रे तु प्राणायामचतुष्ट- यम् । गायत्र्यष्टसहस्रं च जपेत्पापविशुद्धये ॥ गौरसर्षपमात्रे च सावित्रीं वै दिनं जपेत् । यवमात्रे सुवर्णस्य प्रायश्चित्तं दिनद्वयम् ॥ सुवर्णकृष्णलं ह्येकमपहृत्य द्विजोत्तमः । कुर्यात्सान्तपनं कृच्छ्रं तत्पापस्यापनुत्तये ॥ अपहृत्य सुवर्णस्य माष- मात्रं १द्विजोत्तमः । गोमूत्रयावकाहारस्त्रिभिर्मासैर्विशुध्यति ॥ सुवर्णस्यापहरणे वत्सरं यावकी भवेत् । ऊर्ध्वं प्राणान्तिकं ज्ञेयमथवा ब्रह्महव्रतम् ॥' इदं च वत्सरं यावकान्नं किंचिन्न्यूनसुवर्णापहारविषयम् ; सुवर्णापहारे मन्वादिमहा-
१. द्विजाधमः ।
स्मृतिषु द्वादशवार्षिकविधानात् । 'बलाद्ये कामकारेण गृह्णन्ति स्वं नराधमाः । तेषां तु बलहर्तृ णां प्राणान्तिकमिहोच्यते ॥' सुवर्णपरिमाणादर्वागपीत्यभि- प्रेतम् । इदं च स्तेयप्रायश्चित्तमपहृतधनं तत्स्वामिने दत्त्वैव कार्यम् । 'स्तेये ब्रह्मस्वभूतस्य सुवर्णादेः कृते पुनः। स्वामिनेऽपहृतं देयं हर्न्रा त्वेकादशाधि- कम् ॥' इति स्मरणात् । तथा—'चरेत्सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये' ( ११ । १६४ ) इति मनुस्मरणाच्च । दण्डप्रकरणेऽप्युक्तम्—'शेषेष्वेका- दशगुणं दाप्यस्तस्य च तद्धनम् ।' इति । यद्वाऽप्यशक्त्या राजा हन्तुमसमर्थस्तदा वसिष्ठोक्तं द्रष्टव्यम्—'स्तेनः प्रकीर्णकेशो राजानमभियाचेत् । ततस्तस्मै राजौ- दुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेत् मरणात्पूतो भवतीति विज्ञायते' इति । औदुम्बरं ताम्रमयम् । यदपि द्वितीयं प्रायश्चित्तं तेनोक्तम्—'निष्कालको गोघृ- ताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन्मरणात्पूतो भवतीति विज्ञा- यते' इति,–तदपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृ- विषयं वा । तत्र 'निष्कालक' इति निर्गतकेशश्मश्रुलोमाभिधीयते, तथाश्व- मेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकमभिधायोक्तम् — 'इष्ट्वा वाऽश्व- मेधेन गोसवेन वा विशुद्धयेत्' इति ।- एतच्च विट्क्षत्रियाद्यपहर्तृविषयम् ॥ २५७ ॥ भाषा- ब्राह्मण का सोना चुराने वाला अपने कर्म को बतलाते हुए राजा के हाथ में मूसल दे; राजा द्वारा ( मूसल से ) मारे जाने पर अथवा मुक्त कर दिये जाने पर भी वह शुद्ध हो जाता है ॥ २५७ ॥ प्रायश्चित्तान्तरमाह- अनिवेद्य नृपे शुद्धयेत्सुरापव्रतमाचरन् । आत्मतुल्यं सुवर्णं वा दद्याद्धां विप्रतुष्टिकृत् ॥ २५८ ॥ स्वीयं स्तेयं राजन्यनिवेद्य सुरापव्रतं द्वादशवार्षिकमाचरन् शुद्धयेत् । शवशिरोध्वजे तत्कपालधारणनिराकरणार्थं सुरापव्रतमित्युक्तम् ।-एतच्चाकामकार- विषयम् ; 'इयं विशुद्धिरुदिता प्रमाप्याकामतौ द्विजम्' (मनुः ११।८९) —इत्य- कामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् । नन्वकामतोग्राार एव न संभवतीति कथं तद्विषयत्वम् ? उच्यते, - यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकम- ज्ञानादपहरति रजतादिद्रव्यान्तरबुद्धया वा हत्वाऽनन्तरमेवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्येवाकामतोग्राारः । यस्तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम् । मुख्यजातिसमवायाभावात् । नच मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्यपीदृशमेवासुवर्णं सुवर्णभ्रान्त्यापहरति, तथाऽपि नेदं प्रायश्चित्तम् । असुवर्णा- १. तन्निर्याप्यात्मशुद्धये । २. द्वै विप्रतुष्टिदम् ।
५३८ याज्ञवल्क्यस्मृतिः
पहारित्वादेव । न च 'सृष्टश्चेद् ब्राह्मणवधे अहत्वाऽपी'तिवदत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वादेव । न ह्यब्राह्मणः सृष्टश्चेदित्यस्य विषयः । यच्चेदं 'मनसा पापं ध्यात्वा प्रणवपूर्वकं व्याहतीर्मनसा जपेत् । व्याहृत्या प्राणायामं त्रिराच- रेत् । प्रवृत्तौ कृच्छ्रं द्वादशरात्रं चरेत्' इति,-तदपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशमज्ञानतः स्वर्णापहारः प्रायश्चित्तस्य निमित्तं, किंतु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्नेव विषये यदाऽपहर्ताऽत्यन्तमहाधनः तदात्म- तुलितं सुवर्णं दद्यात् । अथ तावद्धनं नास्ति तपश्चर्यायां चाशक्तस्तदा विप्र- तुष्टिकृद्विप्रस्य यात्रजीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिकं द्रव्यमपहरति, तदा 'एतदेव व्रतं स्तेनः पादन्यूनं समाचरेत्' इति व्यासेनोक्तं नववार्षिकं द्रष्टव्यम् । यदा पुनरीदृशमेव क्षुत्क्षामकुटुम्ब- परिरक्षणार्थमपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं 'स्वर्जिदादि वा क्रतुं कुर्या- त्तीर्थयात्रां वा', 'षडब्दं वाऽचरेत्कृच्छ्रं यजेद्वा क्रतुना द्विजः । तीर्थानि वा भ्रम- न्विद्वांस्ततः स्तेयाद्विमुच्यते ॥' इति । यदा त्वपहारसमनन्तरमेव हा कष्टं मया कृतमिति जातानुतापः प्रत्यर्पयति त्यजति वा तदापस्तम्बीयं चतुर्थकाल- मिताशनेन त्रिवर्षमवस्थानमाग्निरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् । ननु प्रत्यर्पणे त्यागे वाऽपहारधात्वर्थस्य निष्पन्नत्वात्कथं प्रायश्चित्तापत्त्वम् ? अथा- निष्पन्नस्तदा प्रायश्चित्ताभाव एवं स्यान्नतु प्रायश्चित्ताल्पत्वम्,-मैवम् ; अपहार- स्योपभोगादिफलपर्यन्तत्वादुपभोगात्प्राङ्निवृत्तौ च पुष्कलस्यापहारार्थस्याभावा- द्युक्तमेव प्रायश्चित्ताल्पत्वं पीतवान्त इवापेयद्रव्ये । नन्वेवं सति चौरहस्ता- द्बलादाकृष्य ग्रहणेऽपि तस्योपभोगलक्षणफलाभावात्प्रायश्चित्तापत्वप्रसङ्गः । मैवम् ; तस्य त्यागे स्वतःप्रवृत्त्यभावात्, फलपर्यन्तेऽपहारे स्वतः प्रवृत्तत्वाच्च । यस्तु रजतताम्रादिसंसृष्टसुवर्णपहारी, न तत्रेदं लघुप्रायश्चित्तम्; यतः संसर्गेऽपि सुवर्णत्वं नापैति भाज्यत्वमिव पृथदाज्ये । अतस्तत्र द्वादशवार्षिकमेवेति युक्तम् । अथ सुवर्णसदृशं द्रव्यान्तरमेवेति लघुप्रायश्चित्तमुच्यते । तर्हि न तशं तत्र त्रैवार्षि- कादिलघुप्रायश्चित्तादिविषयता असुवर्णत्वादेव, किंतूपपातकप्रायश्चित्तमेव । यदप्य- परमापस्तम्बोक्तम्-'स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रं सांवत्सरं चरेत्' इति,- तत्सुवर्णपरिमाणादर्वाङ्माषाद्याधिकपरिमाणद्रव्यविषयम् । यत्तूक्तं सुमन्तुना- 'सुवर्णस्तेयी मासं सावित्र्याऽष्टसहस्रमाज्याहुतीर्जुहुयात् । प्रत्यहं त्रिरात्र- मुपवासं तप्तकृच्छ्रेण च पूतो भवति' इति, तत्पूर्वोक्तमाषपरिमाणसुवर्णापहार- प्रायश्चित्तेन सह विकल्प्यते । यदप्यपरं तेनैवोक्तम्-'सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति'इति,-तन्मनसापहारे प्रवृत्तस्य स्वत एवोपरता पजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धह्यादिवल्पवर्धमेव प्रायश्चित्तं वेदितव्यम् । यानि
१. न तद्यंनन्तरम् ।