याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 589, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५३३ एव गौतमेनात्र मद्यशब्दः प्रयुक्तः ( २३।२ )—'अमत्या मद्यपाने पयो घृत- मुदकं वा त्र्यहं तप्तानि पिबेत्स तप्तकृच्छ्रस्ततोऽस्य संस्कारो मूत्रपुरीषकुणपरेतसां प्राशने च'इति । यदप्यस्मिन्नेव विषये मनुनोक्तम् (११।१४६)—'अज्ञानाद्वारुणीं पीत्वा संस्कारेण विशुद्ध्यति' इति, -तदपि तप्तकृच्छ्रपूर्वकमेव गौतमवाक्यानुरो- धात् । पुनःसंस्कारश्च पुनरुपनयनम् । तच्चाश्वलायनोक्तक्रमेण कर्तव्यम् । यथो- क्तम्—'अथोपेत्तपूर्वस्य कृताकृतं केशवपनं मेधाजननं चानिरुक्तं परिदानं कालश्च तत्सवितुर्वृणीमह इति सावित्रीम्' इति । मतिपूर्वमद्यपाने वसिष्ठोक्तं द्रष्टव्यम्— 'मत्या मद्यपाने त्वसुरायाः सुरायाश्चाज्ञाने कृच्छ्रातिकृच्छ्रौ घृतप्राशनं पुनः संस्का- रश्च' इति । चान्द्रायणं वा शङ्खोक्तम्—'असुरामद्यपायी चान्द्रायणं चरेत्' इति । मुखमात्रप्रवेशे तु मद्यस्यापस्तम्बीयं षड्रात्रम्—'अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च । एतेषामुदकं पीत्वा षड्रात्रेण विशुद्ध्यति ॥' इति ।-एतच्च तालादि- मद्यविषयम् । गौडीमाध्व्योः पुनरज्ञानतः पाने 'असुरायाः सुरायाश्चाज्ञानतः' इति वसिष्ठोक्तः कृच्छ्रातिकृच्छ्रसहितः पुनः संस्कारो घृतप्राशश्च द्रष्टव्यः । तयोर्मतिपूर्व- पाने तु 'पिण्याकं वा कणान्वा' (प्रा० २५४) इति त्रैवार्षिकम् । कामतस्तु तत्पाना- भ्यासे 'अभ्यासे तु सुराया अग्निवर्णां सुरां पिबेन्मरणात्पूतो भवति' इति वासिष्ठं मरणान्तिकं द्रष्टव्यम् । नात्र 'सुरा' शब्दः पैष्ट्यभिप्रायः; तस्याः सकृत्पानेऽपि मर- णान्तिकस्य दर्शितत्वात् । मद्यवासितशुष्कभाण्डस्थोदकस्याज्ञानतः पाने बृहद्यमे- नोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । कुशमूलविपक्वेन त्र्यहं क्षीरेण वर्तयेत् ॥' इति । अज्ञानतोऽभ्यासे तु वसिष्ठेनोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । पद्मोदुम्बरबिल्वानां पलाशस्य कुशस्य च ॥ एतेषा- मुदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥' इति । ज्ञानतः पाने तु विष्णूक्तम्—'मद्य- भाण्डस्थितं तोयं पीत्वा पञ्चरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति । ज्ञानतोऽभ्यासे तु शङ्खेनोक्तम्—'मद्यभाण्डस्थितं तोयं पीत्वा सप्तरात्रं गोमूत्रयावकं पिबेत्' इति । अत्यन्ताभ्यासे तु हारीतोक्तम्—'मद्यभाण्डस्थितं तोयं यदि कश्चित्पिबेद् द्विजः । द्वादशाहं तु पयसा पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । एषु च वाक्येषु 'द्विज'ग्रहणं ब्राह्मणाभिप्रायम् ; क्षत्रियवैश्ययोरप्रतिषेधादिति दर्शितं प्राक् । इदं च गौडीमाध्वीभाण्डस्थजलपानविषयं गुरुत्वात्प्रायश्चित्तस्य । तालादिमद्यभाण्डो- दकपाने तु कल्प्यम् ॥ २५५ ॥ भाषा—अज्ञान से सुरा, वीर्य, विष्ठा या मूत्र पीने पर तीनों द्विजाति वर्ण पुनः संस्कार करने योग्य हो जाते हैं । ( सुरापान में पुनः संस्कार केवल ब्राह्मण का ही होता है ) ॥ २५५ ॥