याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 588, कुल 782 में से
संदर्भ में पढ़ेंतत्कृच्छ्रं पराकं च चान्द्रायणमनुक्रमात् ॥' इति,–तत्तितयमप्यनन्यौषधसाध्य- व्याध्युपशमार्थे पाने वेदितव्यम्; प्रायश्चित्तस्याल्पत्वात् । यदा तु सुरासंसृष्टं शुष्करसमेवान्नं भक्षयति तदा पुनरुपनयनम् । यथाह मनुः ( ११।१५० )— 'अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥' इति । यदा च शुष्कसुराभाण्डस्थोदकं पिबति तदा शातातपोक्तं कुर्यात्—'सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रोपवासश्च' इति । यत्तु बौधायनीयम् (२।१।२१)—'सुरापानस्य यो भाण्डेऽष्वापः पर्युषिताः पिबेत् । शङ्ख- पुष्पीविपक्वं तु क्षीरं सर्पिः पिबेत्त्र्यहम् ॥' इति,–तत्पर्युषितत्वादधिकम् । अकाम- तोऽभ्यासे पुनर्मुनुनोक्तम् ( ११।१४७ )—'अपः सुराभाजनस्था मद्यभाण्ड- स्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः ॥' इति; यत्तु विष्णूक्तम् ( ५२।२३ )–'अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत्' इति,–तन्मतिपूर्वकपाने । ज्ञानतोऽभ्यासे तु बृहद्यम आह—'सुराभाण्डे स्थितं तोयं यदि कश्चित्पिबेद्द्विजः । स द्वादशाहं क्षीरेण पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति । सुरापस्य मुखगन्धघ्राणे तु मानवम् ( ११।१४९ )—'ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥' इति,– तत्सोमयाजिन एवामतिपूर्वे; मतिपूर्वे तु द्विगुणम् । अपीतसोमस्य तु कल्प्यम्; साक्षात्सुरागन्धघ्राणस्य तु 'जातिभ्रंशकरेषु यत्' इति जातिभ्रंशकरत्वात्—'जाति- भ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' ( ११।१२४ ) इति मनूक्तं द्रष्टव्यम् ॥ २५४ ॥
भाषा—अथवा बकरा आदि के बाल से बना हुआ वस्त्र धारण कर एवं जटा रख के ब्रह्महत्या के लिए विहित व्रते करे । अथवा तीन वर्ष तक केवल रात्रि को पिण्याक (पिण्डी) या कण को भोजन करे ॥ २५४ ॥
एवं मुख्यसुरापाने प्रायश्चित्तमुक्तवा मद्यपाने प्रायश्चित्तमाह— अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २५५ ॥
यः पुनरज्ञानादुदकबुद्धया सुरां मद्यं ब्राह्मणः पिबति, ये च ब्राह्मणादयो रेतो विण्मूत्राणि प्राश्नन्ति, ते त्रयोऽपि द्विजातयो वर्णास्तत्तत्कृच्छ्रपूर्वकं पुनरुप- नयनं प्रायश्चित्तमर्हन्ति । अत्र मद्यपाने योऽयं पुनः संस्कारः स ब्राह्मणस्यैव; क्षत्रियविशोस्तदम्यनुज्ञानस्य दर्शितत्वात् । 'सुरा'शब्दश्चात्र मद्यपरः; प्रायश्चित्त- स्यातिलघुत्वात्, अज्ञानतो मुख्यसुरापाने द्वादशवार्षिकस्य विहितत्वाच्च । अत
१ अज्ञानाद्दारुणीं पीत्वा ।