याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 578, कुल 782 में से
संदर्भ में पढ़ेंयो विप्रो महापातकभाग्भवेत् । प्रायश्चित्तैर्न शुद्ध्येत तदग्नीनां तु का गतिः ॥ वैतानं प्रक्षिपेत्तोये शालाऽग्निं शमयेद् बुधः ॥' इत्युशनःस्मरणात् । तथा—'महा- पातकसंयुक्तो दैवात्स्यादग्निमान्यदि । पुत्रादिः पालयेदग्नीन्युक्तश्चादोषसंक्षयात् ॥ प्रायश्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि । गृह्यं निर्वापयेच्छ्रौतमप्स्रवत्स्येत्सपरि- च्छदम् ॥' इति कात्यायनस्मरणात् । तनुप्रक्षेपश्चोत्थायोत्थाय त्रिश्धोमुखेन कर्त- व्यः । तथाह मनुः ( ११।७३ )—'प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्- शिराः' इति । गौतमेनाप्यत्र विशेषो दर्शितः ( २२।१,२ )—'प्रायश्चित्तमग्नौ सक्तिरंग्रह्यन्नस्थिरवच्छातस्य' इति । अवच्छातस्य अनशनकर्शितकलेवरस्येत्यर्थः । तथा च काठकश्रुतिः—'अनशनेन कर्शितोऽग्निमारोहेत्' इति । इदं च मरणा- न्तिकं प्रायश्चित्तं कामकारविषयम् । तथाह मध्यमाङ्गिराः—'प्राणान्तिकं च यत्प्रोक्तं प्रायश्चित्तं मनीषिभिः । तत्कामकारविषयं विज्ञेयं नात्र संशयः ॥' इति । तथा—'यः कामतो महापापं नरः कुर्यात्कथंचन । न तस्य शुद्धिर्निर्दिष्टा भृग्वग्निपतनादृते ॥' इति । एतच्च प्रायश्चित्तं स्वतन्त्रमेव न ब्राह्मणत्राणादिवद् द्वादशवार्षिकान्तर्भूतमित्युक्तं प्राक् ॥ २४७ ॥ भाषा—अथवा 'लोमभ्यः स्वाहा' आदि मन्त्र से क्रमशः लोम से लेकर मज्जा तक (लोम, त्वचा, रक्त, मांस, मेदस्, स्नायु, अस्थि, मज्जा) अपने शरीर का होम करे (तो ब्रह्महत्या के पाप से मुक्त हो जाता है) ॥ २४७ ॥ संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् । मृतकल्पः प्रहारार्तो जीवन्नपि विशुद्ध्यति ॥ २४८ ॥ किंच, अथवा संग्रामे युद्धभूमावुभयबलप्रेरितशरसंपातस्थाने लक्ष्यभूतो मृतः शुद्धिमवाप्नुयात् । गाढमर्मप्रहारजनिततीव्रवेदनो मृतकल्पो मूच्छितो जीवन्नपि विशुद्ध्यति । लक्ष्यभावश्च प्रायश्चित्ती अयमित्येवं विदुषां धनु- र्विद्याविदां संग्रामे स्वेच्छया कर्तव्यो न तु राज्ञा बलात्कारयितव्यः । तथाह मनुः ( ११।१७ )—'लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छ्यात्मनः' इति । इदं च मरणान्तिकत्वात्साक्षात्कर्तुः क्षत्रियस्य कामकारविषयम् । 'अपि'शब्दादश्वमे- धादिनाऽपि विशुद्ध्यति । तथाह मनुः (११।७४)—'यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन च । आभजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥'इति । अश्वमेधा- नुष्ठानं सार्वभौमक्षत्रियस्यैव ।—'यजेत वाऽश्वमेधेन क्षत्रियस्तु महीपतिः' इति पराशरस्मरणात्, 'नासार्वभौमो यजेत' इत्यसार्वभौमस्य प्रतिषेधदर्शनाच्च । इदं चाश्वमेधानुष्ठानं सार्वभौमस्य कामकारकृते मरणान्तिकस्थाने द्रष्टव्यम् ; 'महा- पातकर्तारश्चत्वारो मतिपूर्वकम् । अग्निं प्रविश्य शुद्ध्यन्ति स्थित्वा वा महति १. गृह्यं वा निर्वपेच्छ्रौतम् ।