याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 59, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ३ 'शौचाचारांश्च शिक्षयेत्'इत्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तदध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह— पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ३ ॥ पुराणं ब्रह्मादि, न्यायस्तर्कविद्या, मीमांसा वेदवाक्यविचारः, धर्मशास्त्रं मानवादि, अङ्गानि व्याकरणादीनि षट्, एतैरुपेतश्चत्वारो वेदाः विद्याः पुरुषार्थ- साधनानि, तासां स्थानानि च चतुर्दश, धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि । तदन्तर्भूतत्वाद्वर्मशास्त्रमप्यध्येतव्यम् । तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि ! क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथा च शङ्खेन विद्यास्थानान्युपक्रम्योक्तम्—'एतानि ब्राह्मणोऽ- धिकुरुते स च वृत्तिं दर्शयतीतरेषाम्' इति । मनुरपि द्विजातीनां धर्मशास्त्राध्य- यनेऽधिकारः, ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति ( २।१६) 'निषेकादि- श्मशानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिन्ज्ञेयो नान्यस्य कँर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सम्यङ्- नान्येन केनचित् ॥' इति ॥ ३ ॥ भाषा—पुराण, न्याय, मीमांसा, धर्मशास्त्र और ( व्याकरण आदि ) अङ्गों सहित ( चारों ) वेद चौदह विद्या के और धर्म के स्थान या कारण हैं ॥ ३ ॥ अस्तु धर्मशास्त्रमध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह— मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः⁴ । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ ४ ॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः⁶ ॥ ५ ॥ 'उशनः' शब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येत- व्यमित्यभिप्रायः । नेयं परिसंख्या, किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्क्षाणामाकाङ्क्षापरिपूरण- मन्यतः क्रियते । विरोधे विकल्पः ॥ ४-५ ॥ १. पुरुषार्थज्ञानानि, पुरुषार्थसाधनज्ञानानि । २. तदन्तर्गतत्वात् । ३. तत्र ब्राह्मणेनैतानि । ४. कस्यचित् । ५. ऽङ्गिरः । ६. प्रवर्त्तका ।