भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

आचाराध्यायः ३ 'शौचाचारांश्च शिक्षयेत्'इत्याचार्यस्य धर्मशास्त्राध्यापनविधिः । शिष्येण तदध्ययनं कर्तव्यमिति कुतोऽवगम्यत इत्यत आह— पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ३ ॥ पुराणं ब्रह्मादि, न्यायस्तर्कविद्या, मीमांसा वेदवाक्यविचारः, धर्मशास्त्रं मानवादि, अङ्गानि व्याकरणादीनि षट्, एतैरुपेतश्चत्वारो वेदाः विद्याः पुरुषार्थ- साधनानि, तासां स्थानानि च चतुर्दश, धर्मस्य च चतुर्दश स्थानानि हेतवः । एतानि च त्रैवर्णिकैरध्येतव्यानि । तदन्तर्भूतत्वाद्वर्मशास्त्रमप्यध्येतव्यम् । तत्रैतानि ब्राह्मणेन विद्याप्राप्तये धर्मानुष्ठानाय चाधिगन्तव्यानि ! क्षत्रियवैश्याभ्यां धर्मानुष्ठानाय । तथा च शङ्खेन विद्यास्थानान्युपक्रम्योक्तम्—'एतानि ब्राह्मणोऽ- धिकुरुते स च वृत्तिं दर्शयतीतरेषाम्' इति । मनुरपि द्विजातीनां धर्मशास्त्राध्य- यनेऽधिकारः, ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति ( २।१६) 'निषेकादि- श्मशानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिन्ज्ञेयो नान्यस्य कँर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सम्यङ्- नान्येन केनचित् ॥' इति ॥ ३ ॥ भाषा—पुराण, न्याय, मीमांसा, धर्मशास्त्र और ( व्याकरण आदि ) अङ्गों सहित ( चारों ) वेद चौदह विद्या के और धर्म के स्थान या कारण हैं ॥ ३ ॥ अस्तु धर्मशास्त्रमध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह— मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः⁴ । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ ४ ॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः⁶ ॥ ५ ॥ 'उशनः' शब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येत- व्यमित्यभिप्रायः । नेयं परिसंख्या, किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्क्षाणामाकाङ्क्षापरिपूरण- मन्यतः क्रियते । विरोधे विकल्पः ॥ ४-५ ॥ १. पुरुषार्थज्ञानानि, पुरुषार्थसाधनज्ञानानि । २. तदन्तर्गतत्वात् । ३. तत्र ब्राह्मणेनैतानि । ४. कस्यचित् । ५. ऽङ्गिरः । ६. प्रवर्त्तका ।

४ याज्ञवल्क्यस्मृतिः भाषा—मनु, अत्रि, विष्णु, हारीत, याज्ञवल्क्य, उशनस्, अङ्गिरस्, यम, आपस्तम्ब, संवर्त, कात्यायन, बृहस्पति, पराशर, व्यास, शङ्ख, लिखित, दक्ष, गौतम, शातातप और वसिष्ठ-ये धर्मशास्त्रों के प्रणेता हैं ॥ ४-५ ॥ इदानीं धर्मस्य कारकहेतूनाह- देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६ ॥ देशो 'यस्मिन्देशे मृगः कृष्णः' ( १।२ ) इत्युक्तलक्षणः, कालः संक्रान्त्यादिः, उपायः शास्त्रोक्तेतिकर्तव्यताकलापः, द्रव्यं प्रतिग्रहादिलब्धं गवादि, श्रद्धा आस्तिक्यबुद्धिः, तदन्वितं यथा भवति तथा । पात्रं 'न विद्यया केवलया' (आचार- १।२०० ) इत्येवमादिवक्ष्यमाणलक्षणम् । प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्यवसानं त्यज्यते । एतद्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह- सकलमिति । अन्यदपि शास्त्रोक्तं जातिगुणहोमयागादि तत्सकलं धर्मस्य कारणं जातिगुणद्रव्यक्रियाभावात्मकं चतुर्विधं धर्मस्य कारणमित्युक्तं भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥ भाषा—(पवित्र) देश में (उपयुक्त) समय पर विधिपूर्वक जो भी (स्वर्णादि) द्रव्य योग्य व्यक्ति को दान दिया जाता है वह सब धर्म का लक्षण है ॥ ६ ॥ इदानीं धर्मस्य ज्ञापकहेतूनाह- श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ७ ॥ श्रुतिर्वेदः, स्मृतिर्धर्मशास्त्रम्, तथा च मनुः (२।१०) 'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' इति । सदाचारः सतां शिष्टानामाचारोऽनुष्ठानम्, स्वस्य चात्मनः प्रियं, वैकल्पिकेषु विषये यथा-'गर्भाष्टमेऽष्टमे वाब्दे' (आचार. २।१४ ) इत्यादावात्मेच्छैव नियमिका । सम्यक्सङ्कल्पजातः कामः शास्त्रविरुद्धो यथा-'मया भोजनव्यतिरेकेणोदकं न पातव्यम्' इति । एते धर्मस्य मूलं प्रमाणम् । एतेषां विरोधे पूर्वपूर्वस्य बलीयस्त्वम् ॥ ७ ॥ भाषा-वेद-धर्मशास्त्र, सज्जनों के आचरण, अपने आत्मा के अनुकूल (उत्तम) कार्य तथा विवेकपूर्ण संकल्प से उत्पन्न हुई इच्छा-ये सब धर्म का मूल कहे गये हैं ॥ ७ ॥ १. विरोधे तु । २. नुष्ठानं नाशिष्टानाम् । ३. इत्यत्रात्मेच्छैव. इत्याद्विच्छारमेच्छैव । ४. शास्त्राविरुद्धः कामो यथा ।

आचाराध्यायः ५ देशादिकारकहेतूनामपवादमाह— इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ ८ ॥ इज्यादीनां कर्मणामयमेव परमो धर्मः यद्योगेन बाह्यचित्तवृत्तिनिरोधेनात्मनो दर्शनं याथातथ्यज्ञानम् । योगेनात्मज्ञाने देशादिनियमो नास्तीत्यर्थः । तदुक्तं 'यत्रैकाग्रता तत्राविशेषात्' (ब्र. सू. ४।१।६।१०) इति¹ ॥ ८ ॥ भाषा—यज्ञानुष्ठान, आचार, इन्द्रियनिग्रह, अहिंसा, दान, वेदाध्ययन और (पुण्य) कर्मों में यही श्रेष्ठ धर्म है कि योग अर्थात् बाह्य चित्तवृत्ति के निरोध द्वारा आत्मा का याथातथ्य बोध हो ॥ ८ ॥ कारकहेतुषु ज्ञापकहेतुषु वा संदेहे तु निर्णयहेतुमाह— चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥ ९ ॥ चत्वारो ब्राह्मणाः वेद²धर्मशास्त्रज्ञाः पर्षत् । तिस्रो विद्या अधीयन्त इति त्रैविद्याः, तेषां समूहस्त्रैविद्यम् । धर्मशास्त्रज्ञत्वमत्राप्यनुवर्तते, तद्वा पर्षत् । सा पूर्वोक्ता पर्षत् यं ब्रूते स धर्मः । अध्यात्मज्ञानेषु निपुणतमो धर्मशास्त्रज्ञश्च³ एकोऽपि वा यं⁴ब्रूते सोऽपि धर्मः ॥ ९ ॥ भाषा—वेद और धर्म को जानने वाले चार पुरुषों की या तीन विद्याओं के ज्ञाता तीन ही पुरुषों की पर्षत होती है । वह (पर्षत) जो भी कहे वह धर्म होता है । अध्यात्मज्ञान में निपुणतम एक ही व्यक्ति जो कुछ कहता है वह धर्म होता है ॥ ९ ॥ इत्युपोद्घातप्रकरणम् । ब्रह्मचारिप्रकरणम् एतैर्नवभिः श्लोकैः सकलशास्त्रोपोद्घातमुक्त्वा इदानीं वर्णादीनां धर्मान्वक्तुं प्रथमं तावद्वर्णानाह— ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥ १० ॥ ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा वक्ष्यमाणलक्षणास्तेषामाद्यास्त्रयो ब्राह्मण- क्षत्रियवैश्या द्विजाः, —द्विजायन्त इति द्विजाः, तेषां द्विजानां वै एव न⁵ शूद्रस्य, १. पातञ्जले । २. वेदशास्त्रधर्मज्ञाः । ३. वेदधर्मशास्त्रज्ञश्च । ४. सोऽपि धर्म एव । ५. न शूद्राणां ।

६ याज्ञवल्क्यस्मृतिः एतेन शूद्रस्यामन्त्रकाः क्रियाः इत्युक्तं भवति, 'शूद्रोऽप्येवंविधः कार्यो बिना मन्त्रेण संस्कृतः' इति यमोक्तेः । निषेकाद्याः निषेको गर्भाधानमाद्यो यासां तास्तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म १अन्तो यासां ताः क्रिया मन्त्रैर्भवन्ति ॥ १० ॥ भाषा—ब्राह्मण, क्षत्रिय, वैश्य और शूद्र—ये (चार) वर्ण हैं; इनमें आरंभ के तीन द्विज हैं। गर्भाधान से लेकर अन्त्येष्टि तक की इनकी सभी क्रियाएँ मन्त्रों द्वारा सम्पादित होती हैं ॥ १० ॥ इदानीं ताः क्रिया अनुक्रामति— गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥ ११ ॥ अह्न्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १२ ॥ गर्भाधानमित्यनुगतार्थं कर्मनामधेयम् । एवं वक्ष्यमाणान्यपि । तद् गर्भाधान- मृतौ ऋतुकाले वक्ष्यमाणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात्पूर्वम् । षष्ठेऽष्टमे वा मासि सीमन्तोन्नयनम् । एते च द्वे पुंसवन-सीमन्तोन्नयने क्षेत्रसंस्कारकर्म- त्वात्सकृदेव कार्ये, न प्रतिगर्भम् । तथाह देवलः—'सकृच्च संस्कृता नारी सर्वगर्भेषु संस्कृता । य य गर्भं प्रसूयेत स सर्वः संस्कृतो भवेत्' इति । यद्वा-एते आ इते आगते गर्भकोशाज्जाते २कुमारे जातकर्म एकादशेऽहनि ३नाम । तच्च पितामहमातामहादिसम्बद्धं कुलदेवतासम्बद्धं वा । यथाह शङ्खः (२।१४)— 'कुलदेवतासम्बद्धं पिता नाम कुर्यात्' इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठे मास्यन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलं कार्यमिति प्रत्येके सम्बध्यते ॥ ११-१२ ॥ भाषा— गर्भाधान संस्कार (गर्भधारण के) समय पर होता हैं और पुंसवन गर्भचलन के पहले होता है; जन्म लेने पर जातकर्म, ग्यारहवें दिन नामकरण, चौथे मास में निष्क्रमण, संस्कार करे । छठें मास में अन्नप्राशन संस्कार करे और चूडाकरण संस्कार कुल की रीति के अनुसार करना चाहिए ॥ ११-१२ ॥ एतेषां नित्यत्वेऽप्यानुषङ्गिकं फलमाह— एवमेनः शमं याति बीजगर्भसमुद्भवम् । १. अन्ते यासां । २. कुमारे जाते । ३. नामकशब्द ।

आचाराध्यायः ७ एवमुक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैरेनः पापं शमं याति। किम्भूतम् ? बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनिमित्तं वा, न तु पतितोत्पन्नत्त्वादि ॥— स्त्रीणां विशेषमाह— तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १३ ॥ एता जातकमीदिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर्यथाकालं कार्याः । विवाहः पुनः समन्त्रकः कार्यः ॥ १३ ॥ भाषा— इस प्रकार से ( इन संस्कारों द्वारा ) शुक्र और गर्भ से संबद्ध पाप शान्त होता है । ये जातकमीदि ) स्त्रियों के लिये विना मन्त्र के किये जाते हैं और विवाह संस्कार मंत्रों के साथ होता है ॥ १३ ॥ उपनयनकालमाह— गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशाभेके यथाकुलम् ॥ १४ ॥ गर्भाधानमादिं कृत्वा जननं वाऽष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनमेवोप- नायनम् । स्वार्थे अण् । १वृत्तानुसारत, छन्दोभङ्गात् । आर्षं वा दीर्घत्वम् । अत्रेच्छया विकल्पः । राज्ञामेकादशे । विशां वैश्यानां सैके एकादशे । द्वादशे इत्यर्थः । 'गर्भ'ग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि 'गर्भ'शब्दस्य बुद्धया विभज्योभयत्राप्यनुवर्तनं कार्यम् । 'गर्भादेकादशे राज्ञो गर्भाद्धि द्वादशे विशः' ( शंख. २।७) इति स्मृत्यन्तरदर्शनात् । यथा अथ ४शब्दानुशासनं, केषां शब्दानाम् ? लौकिकानां वैदिकानामिति । अत्रापि कार्यमित्यनुवर्तते । कुलस्थित्या केचिदुपनयनमिच्छन्ति ॥ १४ ॥ भाषा— गर्भकाल से आठवें अथवा जन्म से आठवें वर्ष में ब्राह्मण का उपनयन संस्कार होता है । इसी प्रकार कुल के अनुसार क्षत्रिय के लिए ग्यारहवें वर्ष में और वैश्य के लिये बारहवें वर्ष में यह संस्कार विहित है ॥ १४ ॥ गुरुधर्मनाह— उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १५ ॥ स्वगृह्योक्तविधिनाेपनीय गुरुः ५शिष्यं महाव्याहृतिपूर्वकं वेदमध्यापयेत् । महाव्याहृतयश्च भूर्भुवस्स्वस्त्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण । किञ्च १. अवधिं कृत्वा जन्मनो । २. प्रकरणानुसारम् । ३. वचनात् । ४. शब्दानामिति । ५. शिष्यं गुरुः ।

८ याज्ञवल्क्यस्मृतिः शौचाचारांश्च वक्ष्यमाणलक्षणान् शिक्षयेत् । 'उपनीय शौचाचारांश्च शिक्षयेत्' इत्यनेन प्रागुपनयनात्कामचारो दर्शितो वर्णधर्मान्वर्जयित्वा । स्त्रीणामप्येतत्स- मानं विवाहादर्वाक् , उपनयनस्थानीयत्वाद्विवाहस्य ॥ १५ ॥ भाषा- गुरु शिष्य का उपनयन संस्कार करके उसे महाव्याहृतियों के साथ वेद पढ़ावे और शौच के नियमों की शिक्षा दे ॥ १५ ॥ शौचाचारानाह- दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ १६ ॥ कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश्च दक्षिणः, 'पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमुत्सृजेत्' इति लिङ्गात् । असावहनि संध्ययोश्च उदङ्मुखो मूत्र- पुरीषे कुर्यात् । चकाराद्भस्मादिरहिते देशे । रात्रौ तु दक्षिणामुखः ॥ १६ ॥ भाषा- यज्ञोपवीत कान पर चढ़ाकर दिन में एवं सन्ध्या को उत्तर की ओर मुख करके तथा रात्रि में दक्षिण की ओर मुख करके मूत्र और पुरीष का त्याग करे ॥ १६ ॥ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १७ ॥ किंच, अनन्तरं शिश्नं गृहीत्वोत्थायोद्धृताभिरद्भिर्वक्ष्यमाणलक्षणाभिर्मृद्भिश्श्च गन्धलेपयोः क्षयकरं शौचं कुर्यात् । अतन्द्रितोऽनलसः । उद्धृताभिरद्भिरिति जलान्तःशौचनिषेधः । अत्र 'गन्धलेपक्षयकरम्' इति सर्वाश्रमिणां साधारणमिदं १शौचम् । मृत्संख्यानियमस्त्वदृष्टार्थः ॥ १७ ॥ भाषा- शिश्न को पकड़ कर और उठाकर, अलग लिये गये जल और मिट्टी द्वारा (मल के) गन्ध एवं लेप को नष्ट करने वाला शौच आलस्यरहित होकर करे ॥ १७ ॥ अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १८ ॥ शुचौ अशुचिद्रव्यासंसृष्टे । देश इत्यु२पानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रह्वो गच्छन्वा । उदङ्मुखः प्राङ्मुखो वेति दिगन्तरनिवृत्तिः । 'शुचौ देशे' इत्येतस्मात्पादप्रक्षालनप्राप्तिः । ब्राह्मेण तीर्थेन वक्ष्यमाणलक्षणेन द्विजो न शूद्रादिः । नित्यं सर्वकालमाश्रमान्तरगतोऽपि । उपस्पृशेदाचामेत् । कथम् ? अन्तर्जानु जानुनोर्मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥ १८ ॥ १. शौचमिदं । २. इत्युपादानात् ।

आचाराध्यायः भाषा—ब्राह्मण प्रतिदिन दोनों घुटनों के बीच हाथ रखकर, पवित्र स्थल पर उत्तर या पूर्व की ओर मुख करके बैठे और ब्राह्म तीर्थ से आचमन करे ॥ १८ ॥ प्राजापत्यादितीर्थान्याह— कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ १९ ॥ कनिष्ठायास्तर्जन्या अङ्गुष्ठस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेव- तीर्थानि यथाक्रमं वेदितव्यानि ॥ १९ ॥ भाषा—कनिष्ठा, तर्जनी और अंगुठे के मूलभाग तथा हाथ का अग्रभाग- ये सब क्रमशः प्रजापति तीर्थ, पितृतीर्थ और देवतीर्थ कहे जाते हैं ॥ १९ ॥ आचमनप्रकारः— त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥ २० ॥ वारत्रयमपः पीत्वा मुखमङ्गुष्ठमूलेन द्विरुन्मृज्य खानि छिद्राणि ऊर्ध्वकाय- गतानि घ्राणादीनि अद्भीरुपस्पृशेत् । १अद्भिरित्यशान्तरसंसृष्टाभिः । २पुनरद्भि- रित्यवग्रहणं प्रतिच्छिद्रमुदकस्पर्शानार्थम् । स्मृत्यन्तरात्-'अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्ठ- योर्नाभिं हृदयं तु तलेन वै । सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥' इति । पुनस्ता एव विशिनष्टि-प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरमप्राप्ताभिः । फेनबुद्बुदरहिताभिः । तु शब्दादूर्ध्वधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥ २० ॥ भाषा—तीन बार जल पीकर, (अँगूठे के मूलभाग से) दो बार मुख धोकर, नाक, कान, आँख और मुँह का जल से स्पर्श करे। वह जल स्वच्छ होना चाहिए' उसमें फेन एवं बुलबुले न होंवे ॥ २० ॥ | हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ २१ ॥ हृत्कण्ठतालुगाभिरद्भिर्यथाक्रमेण द्विजातयः शुष्यन्ति । स्त्री च शूद्रश्च अन्ततः ३अन्तर्गतेन तालुना स्[पृ]ष्टाभिरपि । 'सकृत्' इति वैश्याद्विशेषः । च शब्दादनुपनीतोऽपि ॥ २१ ॥ १. संस्पृष्टाभिः । २. पुनर्रवग्रहणं । ३. अन्तेन ।

१० याज्ञवल्क्यस्मृतिः

भाषा—द्विजाति अर्थात ब्राह्मण, क्षत्रिय और वैश्य क्रमशः हृदय, कण्ठ और तालु तक जल के पहुँचने पर शुद्ध होते हैं। स्त्री और शूद्र तो तालु से एक ही बार जल स्पर्श कराने पर शुद्ध हो जाते हैं ॥ २१ ॥ स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ २२ ॥ प्रातःस्नानं यथाशास्त्रमब्दैवतैर्मन्त्रैः 'आपोहिष्ठा' इत्येवमादिभिर्मार्जनम् । प्राणसंयमः प्राणायामो वक्ष्यमाणलक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण गायत्र्याः । 'तत्सवितुर्वरेण्यम्' इत्याद्यायाः प्रतिदिनंसं २जपः कार्यः । 'कार्य'- शब्दो यथालिङ्गं प्रत्येकमभिसंबध्यते ॥ २२ ॥ भाषा—स्नान, अब्दैवत मन्त्र द्वारा मार्जन, प्राणायाम, (तदुपरान्त ) सूर्योपस्थान और गायत्री का जप प्रतिदिन करे ॥ २२ ॥ प्राणायामविचारः— गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ २३ ॥ गायत्रीं पूर्वोक्ताम् 'आपोज्योतिः' इत्यादिना शिरसा संयुक्तां उक्तव्याहृति- पूर्विकां प्रतिव्याहृति प्रणवेन संयुक्तां ओंभूः ओंभुवः ओस्वरिति त्रीन्वारान्मुख नासिकासंचारिवायुं निरुन्धन् मनसा जपेदित्ययं सर्वत्र प्राणायामः ॥ २३ ॥ भाषा—शिरोमन्त्र और महाव्याहृति (का जप करने) के उपरान्त (प्रत्येक महाव्याहृति में) प्रणव जोड़ते हुए गायत्री का तीन बार (मुख और नासिका की) श्वासवायु रोककर जप करने पर एक प्राणायाम होता है ॥ २३ ॥ सावित्रीजपप्रकारः— प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ २४ ॥ संध्यां प्राक्प्रातरेवं हि तिष्ठेदा सूर्यदर्शनात् । प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तेनात्मानमद्भिः संप्रोक्ष्य सावित्रीं जपन् प्रत्यक्संध्यामा³सीत । अर्थात् 'प्रत्यङ्मुख' इति लभ्यते । आ तारकोदयात् तारकोदयावधि । प्राक्संध्यां प्रातः समये एवं पूर्वोक्तविधिमाचरन् प्राङ्मुखः सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र १. मित्यादेः । २. जपः कार्यः । ३. मुपासीत ।

खण्डमण्डलस्योपलब्धिः स संधिः ॥ २४ ॥

अहः संपूर्णादित्यमण्डलदर्शनयोग्यः कालः, तद्विपरीता रात्रिः । यस्मिन्काले खण्डमण्डलस्योपलब्धिः स संधिः ॥ २४ ॥ भाषा—प्राणायाम के उपरान्त मार्जन के मंत्र से सिर पर जल छिड़ककर (सन्ध्या को) पश्चिम की ओर मुख करके तारागण का उदय होने तक सावित्री का जप करे ॥ २४ ॥ अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ २५ ॥ ततः संध्योपासनानन्तरं द्वयोः संध्ययोरग्निकार्यं अग्नौ कार्यं समित्प्रक्षेपादि यत्तत्कुर्यात् स्वगृह्योक्तेन विधिना ॥ २५ ॥ भाषा—इसी प्रकार प्रातःकाल सूर्य के उदय होने तक पूर्व दिशा को करके मुख जप करे । इसके उपरान्त दोनों सन्ध्याओं में (सायं एवं प्रातः) अग्निहोत्र करे ॥ २५ ॥ ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन् । तदनन्तरं वृद्धान् गुरुप्रभृतीन्अभिवादयेत् । कथम् ? असौ देवदत्तशर्माऽहमिति स्वं नाम कीर्तयन् ॥— गुरुं चैवाप्युपासीत स्वाध्यायर्थं समाहितः ॥ २६ ॥ आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ २७ ॥ तथा गुरुं वक्ष्यमाणलक्षणमुपासीत तत्परिचर्यापरस्तदधीनस्तिष्ठेत् । स्वाध्या- यार्थमध्ययनसिद्धये समाहितोऽविक्षिप्तचित्तो भवेत् । आहूतश्चाप्यधीयीत गुर्वाहूत एवाधीयीत, न स्वयं गुरुं प्रेरयेत् । यच्च लब्धं तत्सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर्हितमाचरेत् । नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दाद्गुरुदर्शने गौतमोक्तं कण्ठप्रावृतादि वर्जयेत् ॥ २६-२७ ॥ भाषा—तब 'मैं अमुक हूँ' ऐसा कहते हुए श्रेष्ठ व्यक्तियों को प्रणाम करे । अध्ययन के लिए दत्तचित होकर गुरु की परिचर्या करे । (गुरु द्वारा) बुलाये जाने पर ही अध्ययन करे और जो कुछ प्राप्त हो वह सब गुरु को अर्पित करे । मन, वाणी, शरीर और कार्यों द्वारा उनके अनुकूल कार्य करे ॥ २६-२७ ॥ कृतज्ञाद्रोहिमेधाविशुचिकल्या²नसूयकाः । अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥ २८ ॥ १. लब्धं तस्मै । २. कल्याणसूचकाः । ३. अध्याप्याः साधुशक्ताप्तस्वार्थदा धर्मतस्त्विमे ।

१२ याज्ञवल्क्यस्मृतिः कृतमुपकारं न विस्मरतीति कृतज्ञः। अद्रोही दयावान् । मेधावी ग्रन्थ- ग्रहणधारणशक्तः । शुचिर्बाह्याभ्यन्तरशौचवान् । कल्यः आधिव्याधिरहितः । अनसूयको दोषानाविष्करणेन गुणाविष्करणशीलः । साधुः वृत्तवान् । शक्तः शुश्रूषायाम् । आप्तो बन्धुः । ज्ञानदो विद्याप्रदः । १वित्तदोऽर्पणपूर्वकसमर्थप्रदाता । एते गुणाः समस्ता व्यस्ताश्च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेण अध्याप्याः ॥ २८ ॥ भाषा—कृतज्ञ, द्रोहहीन, मेधावी, पवित्र आधिव्याधि में मुक्त, परदोषान्वेषण से विरत, सदाचारी, ( सेवा में ) समर्थ, बन्धु, विद्याप्रद एवं धनदाता — ये ही शास्त्र के अनुसार अध्यापन योग्य होते हैं ॥ २८ ॥ दण्डादिधारणमाह— दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं च १कार्ष्णादि, उपवीतं कार्पासादिविनिर्मितं, मेखलां च मुञ्जादि, ब्राह्मणादिर्ब्रह्मचारी धारयेत् ॥— भैक्षचर्याप्रकारः— ब्राह्मणेपु चरेद् भैक्षमनिन्द्येष्वात्मवृत्तये ॥ २९ ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या२ यथाक्रमम् ॥ ३० ॥ पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेप्वनिन्द्येषु अभिशस्तादिव्यतिरिक्तेषु स्वकर्मनिरतेषु भैक्षं३ चरेत् । आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्य- तद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । 'तदभावे तत्पुत्रादा' इति नियमात् । अत्र च 'ब्राह्मण' ग्रहणं संभवे ४सति नियमार्थम् । यत्तु 'सार्ववर्णिकं भैक्षचरणम्' इति, तस्त्रैवर्णिक५विषयम् । यच्च 'चातुर्वर्ण्यं चरेद्वैक्षम्' इति, तदापद्विषयम् । कथं भैक्षचर्या कार्या ? आदिमध्यावसानेषु भवच्छब्दो- पलक्षिता 'भवति भिक्षां देहि', 'भिक्षां भवति देहि', भिक्षां देहि भवति इत्येवं वर्णक्रमेण भैक्षचर्या कार्या ॥ २९-३० ॥ भाषा—पलाश का दण्ड, कृष्णमृगचर्म, यज्ञोपवीत और मूँज की मेखला धारण करे । जीवन निर्वाह के लिए पवित्र ( अर्थात् अपने कर्म में रत रहने वाले ) ब्राह्मणों के घर भिक्षायाचन करे । ब्राह्मण, क्षत्रिय और वैश्य क्रमशः आरम्भ, मध्य और अन्त में 'भवत्' शब्द का प्रयोग करते हुए भिक्षा की याचना करे ॥ २९-३० ॥ १. अर्पणपूर्वकं । २. कार्ष्णाजिनादि । ३. भैक्ष्य । ४. सति । नियमार्थं । ५. त्रैवर्णिकप्राप्त्यर्थम् ।

आचाराध्यायः [१९] भोजनप्रकारः— कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ ३१ ॥ पूर्वोक्तेन विधिना भिक्षामहृत्य गुरवे निवेद्य तदनुज्ञया कृताग्निकार्यो वाग्यतो मौनी अन्नं सत्कृत्य संपूज्य अकुत्सयन्ननिन्दन् आपोशानक्रियां 'अमृतोप- स्तरणमसि' इत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनः अग्निकार्यग्रहणं संध्याकाले कथञ्चिदकृताग्निकार्यस्य ^१कालान्तरविधानार्थं न पुनस्तृतीय- प्राप्त्यर्थम् ॥ ३१ ॥ भाषा--(हवनादि) अग्निकार्य करके गुरु की आज्ञा पाकर, आचमन करके, अन्न का सत्कार करके और (अन्न की) निन्दा न करते हुए मौन होकर भोजन करे ॥ ३१ ॥ ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ ३२ ॥ ब्रह्मचर्ये स्थित ^२एकान्नं नाद्यादनापदि स्वास्थ्याभावे । ब्राह्मणः पुनः श्राद्धेऽभ्यर्थितः सन् ^३काममश्नीयात् । व्रतमपीडयन् मधुमांसपरिहारेण । अत्र 'ब्राह्मण' ग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम् । 'राजन्यवैश्ययोश्चैव नैतत्कर्म प्रचक्षते' इति स्मरणात् ॥ ३२ ॥ भाषा-ब्रह्मचर्याश्रम में रहते हुए, रोगादि विपत्ति से मुक्त दशा में किसी एक ही (व्यक्ति के) अन्न का भोजन न करे; श्राद्ध भोजन के अवसर पर ब्राह्मण अपने व्रत का उल्लंघन न करते हुए ऐसा कर सकता है ॥ ३२ ॥ मधुमांसादिवर्ज्यान्त्याह— मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ ३३ ॥ मधु क्षौद्रं, न मद्यम्; तस्य 'नित्यं मद्यं ब्राह्मणो वर्जयेत्' इति निषेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्ट- मग्गुरोः । शुक्तं निष्ठुरवाक्यं, ^४नाम्लरसः, तस्या भक्ष्यप्रकरणे निषेधात् । स्त्रियसमुप- भोगे । प्राणिहिंसनं जीववधः । ^५भास्करस्योदयास्तमयावलोकनम् । अश्लीलम- सस्र्यंभाषणम् । परिवादः संवसद्रूपस्य परदोषस्य ख्यापनम् । 'आदि' शब्दात् स्मृत्यन्तरोक्तं गन्धमाल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥ १. कालान्तरं मध्याह्नादि । २. एकान्नमेकस्वामिकम् । ३. कामं यथेष्टम् । ४. न रसादि । ५. भास्करस्य चालोकनं । ६. गुह्यभाषणं ।

२४ याज्ञवल्क्यस्मृतिः भाषा—मधु, मांस, लेप और अंजन (गुरु के अतिरिक्त अन्य का) जूठा भोजन, कठोर वचन, स्त्री, जीवहिंसा, (उदय और अस्त के समय) सूर्यदर्शन, अश्लील (और असत्य) भाषण तथा दोषान्वेषण इत्यादि से परहेज रखे ॥ ३३ ॥ गुर्वादिलक्षणमाह— स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय दद्वेदमाचार्यः स उदाहृतः ॥ ३४ ॥ योऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः। यः पुनरुपनयनमात्रं कृत्वा वेदं १प्रयच्छति स आचार्यः ॥ ३४ ॥ भाषा—वह गुरु होता है जो (उपनयन तक की) क्रियाएँ करके इस (ब्रह्मचारी) को वेद का ज्ञान देता है। केवल उपनयन संस्कार करके वेद प्रदान करने वाले को आचार्य कहा गया है ॥ ३४ ॥ उपाध्यार्त्विज्लक्षणम्— एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ ३५ ॥ वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक्। एते च गुर्वाचार्योपाध्यायर्त्विजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥३५॥ भाषा—(वेद के) एक भाग या अङ्ग की शिक्षा देने वाला उपाध्याय होता है, और यज्ञकर्म कराने वाले को ऋत्विज् कहते हैं। ये (गुरु, आचार्य, उपाध्याय और ऋत्विज्) क्रमानुसार पूज्य होते हैं, और माता इन सबसे अधिक पूजनीय होती है ॥ ३५ ॥ वेदग्रहणार्थं ब्रह्मचर्यावधिमाह— प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥ ३६ ॥ यदा विवाहासंभवे 'वेदानधीत्य वेदौ वा वेदं वा' इति प्रवर्तते तदा प्रतिवेदं वेदं वेदं प्रति ब्रह्मचर्यं पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । 'ग्रहणान्तिकं' इत्येके वर्णयन्ति । केशान्तः पुनर्गोदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे १. ददाति ।

आचाराध्यायः १५ ब्राह्मणस्य कार्यम्। एतच्च द्वादशवार्षिके वेदव्रते बोद्धव्यम्। इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम्। राजन्य-वैश्ययोस्तूपनयनकालवद् द्वाविंशे चतुर्विंशे वा१ द्रष्टव्यम् ॥ ३६ ॥ भाषा—प्रत्येक वेद के लिए बारह अथवा पांच वर्षों का ब्रह्मचर्यकाल होता है; किन्तु कुछ लोग विद्याग्रहण के अन्त तक ब्रह्मचर्य बताते हैं। केशान्त या गोदान नाम का कर्म (गर्भकाल से) सोलहवें वर्ष में करना चाहिए ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह— आ षोडशादा द्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ ३७ ॥ अत ऊर्ध्वं पतन्त्येते २सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ ३८ ॥ आषोडशाद्वर्षात्षोडशवर्षं यावत् आ द्वाविंशादा चतुर्विंशाद्वर्षाद्ब्रह्मक्षत्रविशां३ औपनायनिकः उपनयनसंबंधी परः कालः। नातः परमुपनयनकालोऽस्ति, किन्तु अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः। सर्वधर्मेष्वनधिकारिणो भवन्ति। सावित्रीपतिताः पतितसावित्रीका भवन्ति। सावित्रीदानयोग्या न भवन्ति। व्रात्याः संस्कारहीनाश्च व्रात्यस्तोमात्क्रतोर्विना कृते तु तस्मिन्नुपनयनाधिकारिणो भवन्ति ॥ ३७-३८ ॥ भाषा—सोलह, बाइस और चौबीस वर्ष तक क्रमशः ब्राह्मण, क्षत्रिय वैश्य के लिए उपनयन संस्कार की आखिरी अवधि होती है। इस समय के बाद (यज्ञोपवीत न होने पर) ये सभी धर्मों से बहिष्कृत होकर च्युत, सावित्रीदान के अयोग्य और व्रात्यस्तोम यज्ञ के बिना व्रात्य अर्थात् संस्कारहीन हो जाते हैं ॥ ३७-३८ ॥ 'आद्यास्त्रयो द्विजाः' (आचार. २०।१) इत्युक्तं, तत्र हेतुमाह— मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ ३९ ॥ मातुः सकाशात्प्रथमं जायन्ते, मौञ्जिबन्धनाच्च द्वितीयं जन्म यस्मात्तस्मादेते ब्राह्मण-क्षत्रिय-वैश्या द्विजा उच्यन्ते ॥ ३९ ॥ १. वा यथासंभवं। २. त्रयोऽप्येते यथाकालमसंस्कृताः। ३. ब्राह्मणक्षत्रियविशां।

१६ याज्ञवल्क्यस्मृतिः भाषा—ब्राह्मण, क्षत्रिय और वैश्य पहले माता से जन्म लेते हैं; मौजि- मेखला के बाँधे जाने पर (उपनयन के समय) इन सबका दूसरा जन्म होता है; अतः इन्हें द्विज कहा जाता है ॥ ३९ ॥ वेदग्रहणाध्ययनफलमाह— यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ ४० ॥ यज्ञानां श्रौत-स्मार्तानां, तपसां कार्यसन्तापरूपाणां चान्द्रायणादीनां, शुभानां च कर्मणां उपनयनादिसंस्काराणां अवबोधकत्वेन वेद एव द्विजातीनां परो निःश्रेयसकरो १ नान्यः। 'वेद एव' इति तन्मूलकत्वेन स्मृतेरप्युपलक्षणार्थम् ॥ ४० ॥ भाषा—यज्ञों, तपस्याओं और (उपनयनादि) शुभ कर्मों का अवबोधक होने से वेद ही द्विजातियों के लिए परम उपकारक होता है दूसरा नहीं ॥ ४० ॥ ग्रहणाध्ययनफलमुक्त्त्वेदानीं २काम्यव्रतब्रह्मयज्ञाध्ययनफलमाह— मधुना पयसा चैव स देवांस्तर्पयेद् द्विजः । पितॄन्मधुघृताभ्यां च ऋचोऽधीते च३ योऽन्वहम् ॥ ४१ ॥ यजूंषि भक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा ॥ ४२ ॥ स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४३ ॥ योऽन्वहमृचोऽधीते स मधुना पयसा च देवान्पितॄंश्च मधुघृताभ्यां तर्पयति । यः पुनः शक्तितोऽन्वहं यजूंष्यधीते स घृतामृतैर्देवान्पितॄंश्च मधुसर्पिभ्यां तर्पयति । यस्तु सामान्यन्वहमधीते स सोमघृतैर्देवान्पितॄंश्च मधुसर्पिभ्यां प्रीणाति । ऋगादिग्रहणं सामान्येन ऋगादिमं६त्राप्रासद्यर्थम् ॥ ४१-४३ ॥ भाषा—जो द्विज प्रतिदिन ऋचाओं का अध्ययन करता है, वह मधु और दूध से देवताओं के लिये तथा मधु और घृत से पितरों के लिये तर्पण करता है । जो (द्विज) प्रतिदिन यथाशक्ति यजुस् मन्त्रों का अध्ययन करता है वह घृत और जल से देवताओं का तथा आज्य एवं मधु से पितरों को प्रसन्न करता है । जो (द्विज) प्रतिदिन सामवेद के मन्त्रों का पाठ करता है वह सोम और घृत से देवताओं के लिए तर्पण करता है, और मधु तथा घृत द्वारा पितरों को तृप्ति प्रदान करता है ॥ ४१-४३ ॥ १. परो मोक्षकरो । २. काम्यब्रह्म । ३. हि यो । ४. पितॄंश्च मधुना द्विजः । ५. प्रीणाति । ६. मंत्र ।

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ ४४ ॥ वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ ४५ ॥ मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् । करोति तृप्तिं ३कुर्याच्च पितॄणां मधुसर्पिषा ॥ ४६ ॥ ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यः पुनः शक्तितोऽन्वहं अथर्वाङ्गिरसोऽधीते स देवान्मेदसा पितॄंश्च मधुस- र्पिभ्यां तर्पयति । यस्तु वाकोवाक्यं प्रश्नोत्तररूपवेदवाक्यम् । पुराणं ब्राह्मादि । चकारान्मानवादिधर्मशास्त्रम् । नाराशंसीश्च रुद्रदैवत्यान्मन्त्रान् । गाथा यज्ञ- गाथेन्द्रगाथाद्याः । इतिहासान् महाभारतादीन् । विद्याश्च वारुणाद्या विद्याः । शक्तितोऽन्वहमधीते । स मांसक्षीरौदनमधुसर्पिर्भिर्देवान् पितॄंश्च मधुसर्पिभ्यां तर्पयति ॥ ते पुनस्तृप्ताः सन्तो देवाः पितरश्च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैरनन्योपघातलक्षणैस्तर्पयन्ति ॥ भाषा—जो द्विज प्रतिदिन यथाशक्ति अथर्वाङ्गिरस पढ़ता है वह देवों का मेद द्वारा एवं पितरों का मधु और घृत द्वारा तर्पण करता है। जो (द्विज) प्रतिदिन यथाशक्ति वाकोवाक्य पुराण, नाराशंसी, गाथा इतिहास तथा (वारुणादि) विद्याओं का अध्ययन करता है वह मांस दूध, ओदन और मधु द्वारा देवताओं के लिए तर्पण करता है और पितरों को मधु तथा घृत द्वारा तृप्त करता है, वे (देवता और पितर) तृप्त होकर इस (स्वाध्याय के अधिकारी) को सभी शुभ अभीष्ट फलों द्वारा सुखी बनाते हैं ॥ प्रशंसार्थमाह— यं यं क्रतुमधीते४ च तस्य तस्याप्नुयात्फलम् ॥ ४७ ॥ त्रिवित्तपूर्णपृथिवीदानस्य फलमश्नुते । तँपसश्च परस्येह ६नित्यं स्वाध्यायवान्द्विजः ॥ ४८ ॥ यस्य यस्य क्रतोः प्रतिपादक वेदैकदेशमन्वहमधीते तस्य तस्य क्रतोः फलमवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत्फलं परस्य १. पितॄंश्च मधुसर्पिषा । संतर्पयेद्यथाशक्ति योऽथर्वाङ्गिरसीः पठेत् । २. विद्यां योऽधीते शक्तितोऽन्वहम् । ३. च तथा । ४. मधीयीत; मधीतेऽसौ ५. तपसो यत्परस्य । ६. नित्यः । २ या०

१८ याज्ञवल्क्यस्मृतिः तपसश्चान्द्रायणादेर्यत्फलं तदपि नित्यं स्वाध्यायवानाप्नोति । 'नित्य' ग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ ४७-४८ ॥ भाषा—वह जिस-जिस यज्ञ का अध्ययन करता है, उस-उस यज्ञ का फलप्राप्त करता है । धनधान्य से पूर्ण पृथिवी का तीन बार दान करने से एवं (चान्द्रायणादि) उत्कृष्ट तपस्याओं से जो फल होता है उसी का भोग नित्य स्वाध्यायरत द्विज करता है ॥ ४७-४८ ॥ एवं सामान्येन ब्रह्मचारिधर्मानभिधायाधुना नैष्ठिकस्य विशेषमाह— नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ ४९ ॥ अनेन विधिना देहं सादयन्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न२ चेहाजायते पुनः ॥ ५० ॥ अनेनोक्तेन३ प्रकारेणात्मानं निष्ठां उत्क्रान्तिकालं नयतीति नैष्ठिकः स याव- ज्जीवमाचार्यसमीपे वसेत् । न ४वेदग्रहणोत्तरकालं स्वतन्त्रो भवेत् । तदभावे तत्पुत्रसमीपे, तद्भावे तद्भार्यासमीपे, तदभावे वैश्वानरेऽपि५ । अनेनोक्तविधिना देहं १सादयन् क्षपयन् विजितेन्द्रियः इन्द्रियजये विशेषप्रयत्नवान्ब्रह्मचारी ब्रह्म- लोकममृतत्वमाप्नोति । न कदाचिदिह पुनराजायते ॥ ४९-५० ॥ भाषा—नैष्ठिक ब्रह्मचारी आचार्य के समीप निवास करे; उनके न होने पर उनके पुत्र के समीप अथवा (पुत्र के अभाव में) उनकी पत्नी के या (गुरु पत्नी के न होने पर) अग्निहोत्र की अग्नि के निकट निवास करे । इस विधि द्वारा शरीर की साधना करते हुए और विशेष प्रयत्नपूर्वक इन्द्रियों पर विजय कर वह ब्रह्मलोक प्राप्त करता है और इस संसार में पुनः जन्म नहीं लेता ॥ ४९-५० ॥ इति ब्रह्मचारिप्रकरणम् । विवाहप्रकरणम् यः पुनर्वैवाह्यस्तस्य विवाहार्थं स्नानमाह— गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । वेदं६ व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ ५१ ॥ १. साधयन् [ अस्मिन्पाठे विपरीतलक्षणा बोध्या । ] २. न चेह जायते । ३. उक्तप्रकारेण । ४. ग्रहणकालोत्तरं । ५. स्त्रोपास्याग्निसंनिधौ । ६. र्नायीत ।

आचाराध्यायः १६ पूर्वोक्तेन प्रकारेण वेदं मन्त्रब्राह्मणात्मकम्, व्रतानि, ब्रह्मचारिधर्मानुक्रान्तान् । उभयं वा, पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा स्नायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि । एतेषां च पक्षाणां शक्तिकालाद्यपेक्षया व्यवस्था ॥ ५१ ॥ भाषा—वेद ( का अध्ययन ) या व्रतों को समाप्त कर अथवा वेदाध्ययन एवं व्रत दोनों ही पूरा करके, गुरु को यथाशक्ति दक्षिणा देकर उनकी आज्ञा से ( समावर्तन ) स्नान करे ॥ ५१ ॥ स्नानानन्तरं किं कुर्यादित्यत आह— अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ ५२ ॥ अविप्लुतब्रह्मचर्योऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् । बाह्यानि 'तनुलोमकेशदशनाम्' १ इत्यादीनि (३।१०) मनुनोक्तानि । आभ्यन्त- राणि 'अष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तराऽपरिगृहीताम् । कान्तां कमनीयां वोढुर्मनोनयनानन्दकारिणीम् । 'यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिः' इत्यापस्तम्बस्मरणात् । एतच्च न्यूनाधि- काङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा सपिण्डा, न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथा हि—पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सहैकपिण्डता २ । एवं पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्व- येन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभि- रप्येकशरीरावयवान्वयात् । तथा पितृव्य-पितृष्वस्त्रादिभिरपि । तथा पत्या सह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः ३ सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र 'सपिण्ड' शब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि 'दशाहं शावमा- शौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राप्नोति । स्यादेतत् ,-यदि तत्र 'प्रत्तानामितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेषु यत्र विशेषवचनं नास्ति तत्र 'दशाहं शावमाशौचम्' इत्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इति च । 'स एवायं विरूढः प्रत्यक्षेणो- १. केशादीनि मनुप्रोक्तानि । २. सह सापिण्ड्यं । ३. एकशरीराम्भैः ।

२० याज्ञवल्क्यस्मृतिः पल्लभ्यते, दृश्यते चापि सारूप्यम् । देहस्त्वमेवान्यत् इत्यापस्तम्बवचनाच्च । यथा गर्भोपनिषदि—'एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतः । अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः' इति तत्र तत्रावयवान्वय- प्रतिपादनात् । १निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसंताने भ्रातृपितृव्यादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तैिस्तत्र तन्नावगम्यमाना परित्यक्ता स्यात् । सत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते । तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति । एवं परम्परयैकशरीरावयवान्वयेन तु सापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा ३प्रमाणतश्च न्यूनां उद्वहेत् परिणयेत् स्वगृह्योक्तेन विधिना ॥ ५२ ॥ भाषा—ब्रह्मचर्य से च्युत न होकर शुभ लक्षणों से युक्त स्त्री से विवाह करे, जो पहल किसी अन्य पुरुष को प्रदत्त या किसी द्वारा भुक्त न हो सुन्दरी हो, असपिण्ड हो तथा (आयु एवं शरीर-प्रमाण में) अपने से छोटी हो ॥ ५२ ॥ विशेषान्तरप्याह— अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । अरोगिणीं अचिकित्सनीयव्याध्यनुपसृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का- निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्षगोत्रजां ऋषेरिदमार्षं नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम्, आर्षं च गोत्रं च आर्षगोत्रे, समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्युदासे निमित्तम् । ४तेनासमानार्षजामसमानगोत्रजामित्यर्थः५ । तथा च 'असमानप्रवरै- र्विवाहः' (गौ. स्मृ. ४।१) इति गौतमः । तथा असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इति (३।५) मनुः । तथा मातुलगोत्रामप्यपरिणेयां केचिदिच्छन्ति६, 'मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥' इति प्रायश्चित्तस्मरणात् । अत्र च 'असपिण्डाम्' इत्यनेन पितृष्वसृ-मातृष्वस्रादिदुहितृनिषेधः । तथा 'असगोत्राम्' इत्यनेनासपिण्डा या अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा 'असमानप्रवराम्' इत्यनेनाप्यसपिण्डा या असगोत्राया अपि १. पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा । २. भ्रातृपुत्रादिषु । भ्रातृव्य- पितृव्या । ३. प्रमाणेन च । ४. असमानगोत्रजां असमानार्षजामित्यर्थः । ५. असगोत्रा च । ६. 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोर- विज्ञाने व्युद्वहेदविशङ्कितः ॥' इति व्यासः । ७. त्यक्त्वा ।

आचाराध्यायः २१ समानप्रवरा निषेधः । तथा च 'असपिण्डाम्' इत्येतत्सार्ववर्णिकम् ; सर्वत्र सापिण्ड्यसद्भावात् । 'असमानार्षगोत्रजाम्' इत्येतत्त्रैवर्णिकविषयम् । यद्यपि राजन्यविशां प्रातिस्विकगोत्राभावात्प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदि- तव्यौ । तथा च 'यजमानस्यार्षेयान्प्रवृणीते' इत्युक्त्वा 'पौरोहित्यान्‌राजन्यविशां प्रवृणीते' इत्याहाश्वलायनः ( श्रौ. सू. अ. ६ खं. १५ ) । सपिण्डासु समान- गोत्रासु समानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि ²दृष्टविरोध एव ॥- भाषा—असाध्य रोग से अछूती हो, भाई वाली हो, और समान गोत्र एवं प्रवर की न हो । असपिण्डाम्' इत्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परम्परया वा सापि- ण्ड्यमुक्तं, तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत आह- पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ ५३ ॥ मातृतो मातुः संताने पञ्चमादूर्ध्वं पितृतः पितुः संताने सप्तमादूर्ध्वं, सापिण्ड्यं निवर्तते' इति शेषः । अतश्चायं 'सपिण्ड' शब्दो³ऽवयवशक्त्या⁴ सर्वत्र प्रवर्तमानोऽपि निर्मन्ध्य-पङ्कजादिशब्दवन्नियतविषय एव । तथा च पित्रादयः षट् सपिण्डाः, पुत्रादयश्च षट्, आत्मा च सप्तमः, संतानभेदेऽपि यतः संतानभेद- स्तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम् । तथा च मातरमारभ्य तत्पितृ- पितामहादिगणनायां पञ्चमं⁵संतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितर- मारभ्य तत्पित्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तमीति । तथा च 'भगिन्योर्भगिनीभ्रात्रोर्भ्रातृपुत्रीपितृव्ययोः। विवाहे द्वयोर्बिभूतत्वाच्छाखाभेदोऽवं⁷- गण्यते ॥ यद्यपि वसिष्ठेनोक्तं 'पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा' इति, 'त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना, तदप्यर्वाङ्‌निषेधार्थं न पुनस्तत्प्राप्त्यर्थमिति सर्वस्मृतीनामविरोधः । एतच्च समानजातीये द्रष्ट- व्यम् विजातीये तु विशेषः । यथा शङ्खः- 'यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्व्वावर्तते त्रिषु ॥' एकस्माद्ब्राह्मणादे- र्जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु स्त्रीषु जाताः । पृथग्जनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः, सपिण्डाः किंतु पृथक्- १. गोत्रप्रवर्तकऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्रा- भावस्तथापि । २. दृष्टदोषविरोधः । ३. शब्दो योगेऽवयव । ४. वयव- शक्त्या प्रवर्त्तं । ५. पञ्चमपुरुषवर्तिनी । ६. ऽव्यादि । ७. वगण्यते । ८. एकपिण्डाः सपिण्डाः ।

शौचाः । पृथक्शौचमाशौचप्रकरणे वक्ष्यामः । 'पिण्डस्त्वावर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥ भाषा—तथा माता के कुल में पाँच पीढ़ी से ऊपर एवं पिता के कुल में सात पीढ़ी से ऊपर हो ॥ ५३ ॥ 'दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । पुरुषा एव पूरुषाः, दशभिः पुरुषैर्मातुतः पञ्चभिः पितुतः पञ्चभिर्विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् अध्ययनमुपलक्षणं श्रुताध्ययन- संपन्नानाम् । महच्च तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं, तस्मा- त्कन्यका ग्राहर्तव्येति नियम्यते ॥ भाषा—जिस उच्च कुल के पुरुष दस पीढ़ियों से प्रख्यात वेद पाठी हों उस कुल की कन्या ग्रहण करे; एवं सर्वतः प्राप्तौ सत्यामपवादमाह— स्फीतादपि नसंचारिरोगदोषसमन्वितात् ॥ ५४ ॥ स्फीतादिति । संचारिणो रोगाः श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणित- द्वारेणानुप्रविशन्तो दोषाः पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः । एतैः समन्वितात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्त्तव्या ॥ ५४ ॥ भाषा—किन्तु यदि महान् कुल में भी संसर्गज रोग हों तो उससे कन्या न ले ॥ ५४ ॥ एवं कन्याग्रहणनियममुक्त्वा कन्यादाने वरनियममाह— एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमाञ्जनप्रियः ॥ ५५ ॥ एतैरेव पूर्वोक्तैर्गुणैर्युक्तो दोषैश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः- सवर्ण उत्कृष्टो वा, न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यत्नात् प्रयत्नेन पुंस्त्वे परीक्षितः । परीक्षोपायश्च नारदेन दर्शितः-'यस्याप्सु प्लवते बीजं ह्लादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः २स्मित- पूर्वमृद्गभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥ भाषा—वर भी इन्हीं पूर्वोक्त गुणों से युक्त, सवर्ण और विद्वान् होना चाहिए, उसके पुरुषत्व की यत्नपूर्वक परीक्षा की गई हो और वह युवक, विवेकशील और प्रिय होवे ॥ ५५ ॥ १. पौरुष । २. स्मितमृदुपूर्वाभिभाषण ।