याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 76, कुल 782 में से
संदर्भ में पढ़ें२० याज्ञवल्क्यस्मृतिः पल्लभ्यते, दृश्यते चापि सारूप्यम् । देहस्त्वमेवान्यत् इत्यापस्तम्बवचनाच्च । यथा गर्भोपनिषदि—'एतत् षाट्कौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतः । अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांसरुधिराणि मातृतः' इति तत्र तत्रावयवान्वय- प्रतिपादनात् । १निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये मातृसंताने भ्रातृपितृव्यादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तैिस्तत्र तन्नावगम्यमाना परित्यक्ता स्यात् । सत्स्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते । तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति । एवं परम्परयैकशरीरावयवान्वयेन तु सापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा ३प्रमाणतश्च न्यूनां उद्वहेत् परिणयेत् स्वगृह्योक्तेन विधिना ॥ ५२ ॥ भाषा—ब्रह्मचर्य से च्युत न होकर शुभ लक्षणों से युक्त स्त्री से विवाह करे, जो पहल किसी अन्य पुरुष को प्रदत्त या किसी द्वारा भुक्त न हो सुन्दरी हो, असपिण्ड हो तथा (आयु एवं शरीर-प्रमाण में) अपने से छोटी हो ॥ ५२ ॥ विशेषान्तरप्याह— अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । अरोगिणीं अचिकित्सनीयव्याध्यनुपसृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का- निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्षगोत्रजां ऋषेरिदमार्षं नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम्, आर्षं च गोत्रं च आर्षगोत्रे, समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्युदासे निमित्तम् । ४तेनासमानार्षजामसमानगोत्रजामित्यर्थः५ । तथा च 'असमानप्रवरै- र्विवाहः' (गौ. स्मृ. ४।१) इति गौतमः । तथा असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इति (३।५) मनुः । तथा मातुलगोत्रामप्यपरिणेयां केचिदिच्छन्ति६, 'मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥' इति प्रायश्चित्तस्मरणात् । अत्र च 'असपिण्डाम्' इत्यनेन पितृष्वसृ-मातृष्वस्रादिदुहितृनिषेधः । तथा 'असगोत्राम्' इत्यनेनासपिण्डा या अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा 'असमानप्रवराम्' इत्यनेनाप्यसपिण्डा या असगोत्राया अपि १. पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा । २. भ्रातृपुत्रादिषु । भ्रातृव्य- पितृव्या । ३. प्रमाणेन च । ४. असमानगोत्रजां असमानार्षजामित्यर्थः । ५. असगोत्रा च । ६. 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोर- विज्ञाने व्युद्वहेदविशङ्कितः ॥' इति व्यासः । ७. त्यक्त्वा ।