भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 77, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 77

आचाराध्यायः २१ समानप्रवरा निषेधः । तथा च 'असपिण्डाम्' इत्येतत्सार्ववर्णिकम् ; सर्वत्र सापिण्ड्यसद्भावात् । 'असमानार्षगोत्रजाम्' इत्येतत्त्रैवर्णिकविषयम् । यद्यपि राजन्यविशां प्रातिस्विकगोत्राभावात्प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदि- तव्यौ । तथा च 'यजमानस्यार्षेयान्प्रवृणीते' इत्युक्त्वा 'पौरोहित्यान्‌राजन्यविशां प्रवृणीते' इत्याहाश्वलायनः ( श्रौ. सू. अ. ६ खं. १५ ) । सपिण्डासु समान- गोत्रासु समानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पन्नेऽपि ²दृष्टविरोध एव ॥- भाषा—असाध्य रोग से अछूती हो, भाई वाली हो, और समान गोत्र एवं प्रवर की न हो । असपिण्डाम्' इत्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परम्परया वा सापि- ण्ड्यमुक्तं, तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत आह- पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ ५३ ॥ मातृतो मातुः संताने पञ्चमादूर्ध्वं पितृतः पितुः संताने सप्तमादूर्ध्वं, सापिण्ड्यं निवर्तते' इति शेषः । अतश्चायं 'सपिण्ड' शब्दो³ऽवयवशक्त्या⁴ सर्वत्र प्रवर्तमानोऽपि निर्मन्ध्य-पङ्कजादिशब्दवन्नियतविषय एव । तथा च पित्रादयः षट् सपिण्डाः, पुत्रादयश्च षट्, आत्मा च सप्तमः, संतानभेदेऽपि यतः संतानभेद- स्तमादाय गणयेद्यावत्सप्तम इति सर्वत्र योजनीयम् । तथा च मातरमारभ्य तत्पितृ- पितामहादिगणनायां पञ्चमं⁵संतानवर्तिनी मातृतः पञ्चमीत्युपचर्यते । एवं पितर- मारभ्य तत्पित्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तमीति । तथा च 'भगिन्योर्भगिनीभ्रात्रोर्भ्रातृपुत्रीपितृव्ययोः। विवाहे द्वयोर्बिभूतत्वाच्छाखाभेदोऽवं⁷- गण्यते ॥ यद्यपि वसिष्ठेनोक्तं 'पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा' इति, 'त्रीनतीत्य मातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना, तदप्यर्वाङ्‌निषेधार्थं न पुनस्तत्प्राप्त्यर्थमिति सर्वस्मृतीनामविरोधः । एतच्च समानजातीये द्रष्ट- व्यम् विजातीये तु विशेषः । यथा शङ्खः- 'यद्येकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्व्वावर्तते त्रिषु ॥' एकस्माद्ब्राह्मणादे- र्जाताः एकजाताः । पृथक्क्षेत्राः भिन्नजातीयासु स्त्रीषु जाताः । पृथग्जनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः, सपिण्डाः किंतु पृथक्- १. गोत्रप्रवर्तकऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्रा- भावस्तथापि । २. दृष्टदोषविरोधः । ३. शब्दो योगेऽवयव । ४. वयव- शक्त्या प्रवर्त्तं । ५. पञ्चमपुरुषवर्तिनी । ६. ऽव्यादि । ७. वगण्यते । ८. एकपिण्डाः सपिण्डाः ।