याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 78, कुल 782 में से
संदर्भ में पढ़ेंशौचाः । पृथक्शौचमाशौचप्रकरणे वक्ष्यामः । 'पिण्डस्त्वावर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥ भाषा—तथा माता के कुल में पाँच पीढ़ी से ऊपर एवं पिता के कुल में सात पीढ़ी से ऊपर हो ॥ ५३ ॥ 'दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । पुरुषा एव पूरुषाः, दशभिः पुरुषैर्मातुतः पञ्चभिः पितुतः पञ्चभिर्विख्यातं यत्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् अध्ययनमुपलक्षणं श्रुताध्ययन- संपन्नानाम् । महच्च तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं, तस्मा- त्कन्यका ग्राहर्तव्येति नियम्यते ॥ भाषा—जिस उच्च कुल के पुरुष दस पीढ़ियों से प्रख्यात वेद पाठी हों उस कुल की कन्या ग्रहण करे; एवं सर्वतः प्राप्तौ सत्यामपवादमाह— स्फीतादपि नसंचारिरोगदोषसमन्वितात् ॥ ५४ ॥ स्फीतादिति । संचारिणो रोगाः श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणित- द्वारेणानुप्रविशन्तो दोषाः पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः । एतैः समन्वितात्स्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्त्तव्या ॥ ५४ ॥ भाषा—किन्तु यदि महान् कुल में भी संसर्गज रोग हों तो उससे कन्या न ले ॥ ५४ ॥ एवं कन्याग्रहणनियममुक्त्वा कन्यादाने वरनियममाह— एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमाञ्जनप्रियः ॥ ५५ ॥ एतैरेव पूर्वोक्तैर्गुणैर्युक्तो दोषैश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः- सवर्ण उत्कृष्टो वा, न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः । यत्नात् प्रयत्नेन पुंस्त्वे परीक्षितः । परीक्षोपायश्च नारदेन दर्शितः-'यस्याप्सु प्लवते बीजं ह्लादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः । जनप्रियः २स्मित- पूर्वमृद्गभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥ भाषा—वर भी इन्हीं पूर्वोक्त गुणों से युक्त, सवर्ण और विद्वान् होना चाहिए, उसके पुरुषत्व की यत्नपूर्वक परीक्षा की गई हो और वह युवक, विवेकशील और प्रिय होवे ॥ ५५ ॥ १. पौरुष । २. स्मितमृदुपूर्वाभिभाषण ।