याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 79, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः २३ रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः-नित्यः, काम्यश्च । तत्र नित्ये प्रजार्थे ‘सवर्णः श्रोत्रियो वरः’ ( आचार. ५५ ) इत्यनेन सवर्णा मुख्या दर्शिताः । इदानीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्यत आह— यदुच्यते द्विजातीनां १शूद्राहारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ ५६ ॥ यदुच्यते ‘सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥’ इत्युपक्रम्य-ब्राह्मणस्य चतस्रो भार्याः, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे इति द्विजातीनां शूद्रावेदनमिति नैतद्याज्ञवल्क्यस्य मतम् । यस्मादयं द्विजातिस्तत्र स्वयं जायते । ‘तज्जाया जाया भवति यदस्यां जायते पुनः’ इति श्रुतेः । अत्र च ‘तत्रायं जायते स्वयम्’ इति हेतुं वदता नित्यकपुत्रो- त्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयननिषेधं कुर्वता नित्यक- पुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये, क्षत्रियस्य च वैश्यौ३ भार्यानुज्ञाता भवति ॥ ५६ ॥ भाषा—द्विजातियों को शूद्रवर्ण से स्त्री ग्रहण करने की जो बात कही गई है वह मुझे मान्य नहीं है; कारण, स्त्री में स्वयं ( पुरुष का आत्मा ) ही जन्म लेता है ॥ ५६ ॥ इदानीं रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रममात्रानधिकारिणो गृहस्थाश्रमावस्थामात्रभिकाङ्क्षिणः परिणयनक्रममाह— तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ ५७ ॥ वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्यस्यैका । शूद्रस्य तु स्वैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नित्यकानुकल्पे काम्ये च पुत्रोत्पा- दनविधौ । अतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा ‘विप्रान्मूर्धावसिक्तो हि’ इत्युपक्रम्य विन्नास्वेष विधिः स्मृतः’ इति च तत् रतिकामस्याश्रममात्रामिकाङ्क्षिणो वा नान्तरीयकत्या४ऽपत्यस्य ॥ ५७ ॥ भाषा—वर्ण की अनुलोमता से ब्राह्मण क्षत्रिय और वैश्य की क्रमशः १. शूद्रादारोप । २ तत्रात्मा जायते । ३. वैश्याभ्यनुज्ञा । ४. अन्योद्देशकव्यापारनिर्वर्त्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्त्वं वा नान्त- रीयकत्वम् ।