याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 598, कुल 782 में से
संदर्भ में पढ़ेंपातकिनस्त्विमे ॥' इति, - तत्समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तौ षड्वार्षिकम्; अकामतस्तु ° त्रैवार्षिकम् । जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात्प्राङ्निवृत्तौ द्वादशवार्षिकम् । अकामतस्तु षड्वार्षिकमिति कल्प्यम् । यत्तु संवर्तेन - 'पितृदारान्समारुह्य मातृ- वञ्च नराधमः' इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः, स हीनवर्णगुरुदारेषु रेतःसेकादर्वाग्द्रष्टव्यः ॥ २५९ ॥ भाषा-गुरु-पत्नी का भोग करने वाला तप्त होकर लाल बनी हुई लोहे की शय्या पर जलती हुई लोहे की स्त्रीमूर्ति के साथ सोवे, अथवा लिङ्ग और अण्डकोष को काटकर हाथ में लेकर नैर्ऋत्य दिशा को चलता-चलता शरीर त्याग दे (तो शुद्ध होता है) ॥ २५९ ॥ प्रायश्चित्तान्तरमाह- प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः । चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ॥ २६० ॥ अथवा प्राजापत्यं कृच्छ्रं वक्ष्यमाणलक्षणं समाः वर्षत्रयं चरेत् । एतच्च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरुपत्नीं सवर्णां व्यभिचारिणीमबुद्धिपूर्वं गच्छति तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्तावौशनसं-'गुरुतल्पोभिगामी संवत्सरं ब्रह्महव्रतं षण्मासान्वा तप्तकृच्छ्रं चरेत्' इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्कीयं (प्रा० २३२)-'मातुः सपत्नीं भगिनीमाचार्यतनयां तथा'. इति गुरुतल्पव्रतातिदेशा- न्नववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमनविषयं न भवति; तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयमेवेति युक्तम् । तत्रैव कामतोऽभ्यासे मरणान्तिकम्; 'मत्या गत्वा पुनर्भार्या गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां रहितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥' इति कण्व- स्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति तदा 'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति याज्ञवल्कीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अत एव स्मृत्यन्तरम्- ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवमन्यवर्णा- स्वपि । अयमर्थः-ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्न्यां गमने पादन्यूनं द्वादश- वार्षिकं, नववार्षिकमिति यावत् । तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम् ; शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तमिति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षि- कम्; शूद्रायां तु षड्वार्षिकम् । एवमेव वैश्यापुत्रस्यापीति; वैश्यायां तु कामतोऽ- १. समाम् ।