भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 599, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 599

प्रायश्चित्ताध्यायः ५४३ भ्यासे मरणान्तिकमेव; 'गुरुभार्यां तु यो वेश्यां मत्वा गच्छेत्पुनः पुनः । लिङ्गाग्रं छेदयित्वा तु ततः शुद्धयेत्स किल्बिषात् ॥' इति लौगाक्षिसमरणात् । शूद्रायां तु कामतोऽभ्यासे द्वादशवार्षिकम् ; 'पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः । ब्रह्मचर्यमदुष्टात्मा संचरेद् द्वादशाब्दिकम् ॥' इत्युपमन्युस्मरणात् । क्षत्रियायां तु गुरुभार्यायामबुद्धिपूर्वगमने यमोक्तं त्रैवार्षिकमष्टमकालाश्रनं द्रष्टव्यम् । 'कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदा व्रती । स्थानासनाभ्यां विहरन्निरहोऽभ्युपयन्नपः । अधःशायी त्रिभिर्वर्षैस्तदपोहेत पातकम् ॥' इति । अत्रैवाभ्यासे जातूकर्ण्योक्तं- 'गुरोः क्षत्रसुतां भार्यां पुनर्गत्वा त्वकामतः । अब्दमात्रं समुत्कृत्य शुद्धयेज्जी- वन्मृतोऽपि वा ॥' इति । वैश्यायां त्वकामतो गमने 'प्राजापत्यं चरेत्कृच्छ्रम्' (प्रा० २६०) इत्येतदेव याज्ञवल्कीयम् । तथा च वृद्धमनुः- 'गमने गुरुभा- र्यायाः पितृभार्यागमे तथा । अब्दद्वयमकामात्तु कृच्छ्रं नित्यं समाचरेत् ॥' इति । तत्रैवाभ्यासे हारीतोक्तं मरणान्तिकं ब्रह्मचर्यम् - 'अध्यस्य विप्रो वैश्यायां गुरो- रज्ञानमोहितः । षडङ्गं ब्रह्मचर्यं च स चरेद्यावदायुषम् ॥' इति । गुरुभार्यायां शूद्रायां त्वमतिपूर्वे मानवम् ( ११।१०५ ) - 'खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥' इति । अथवा 'गुरुदा- राभिगामी संवत्सरं कण्टकिनीं शाखां परिष्वज्याधःशायी त्रिषवणी भैक्षाहारः पूतो भवति' इति सुमन्तूक्तं कुर्यात् । तत्रैवाभ्यासे मानवम् ( ११।१०६ ) - 'चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः' इति । क्षत्रियायां कामतः प्रवृत्तस्य रेतःसेकादर्वाङ्निवृत्तौ व्याघ्रोक्तम् - 'कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्राति- कृच्छ्रकम् । चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥' इति । अत्रेयं व्यवस्था- तया प्रोत्साहितस्य त्रैमासिकं प्राजापत्यचरणम् । उभयेच्छातः प्रवृत्तस्यातिकृच्छ्र- चरणं तावदेव । स्वेन प्रोत्साहितायां पुनःकृच्छ्रातिकृच्छ्रानुष्ठानं च तावदेवेति । तत्रैव कामतः प्रवृत्तस्य रेतःसेकात्पूर्वं कण्वोक्तं द्रष्टव्यम् - 'चान्द्रायणं तप्तकृच्छ्रप्र- तिकृच्छ्रं तथैव च । सकृद्गत्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥' इति । तथा प्रोत्साहितस्यातिकृच्छ्रः, उभयेच्छातः प्रवृत्तस्य तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां तु चान्द्रायणम् । वैश्यायां कामतः प्रवृत्तस्य रेतःसेकात्पूर्वं निवृत्तौ कण्वोक्तम् - 'तप्तकृच्छ्रं पराकं च तथा सान्तपनं गुरोः । भार्यां वैश्यां सकृद्गत्वा बुद्ध्या मासं चरेद् द्विजः ॥' इति । अत्रोभयोरिच्छातः प्रवृत्तौ तप्तकृच्छ्रः, स्वेन प्रोत्साहितायां पराकः, तया प्रोत्साहितस्य सान्तपनम् । अत्रैवाकामतः प्रवृत्तस्य प्रजापतिराह- 'पञ्चरात्रं तु नाश्नीयात्सप्तरात्रौ वा तथैव च । वैश्यां भार्यां गुरोर्गत्वा सकृदज्ञा- नतो द्विजः ॥' इति । तया प्रोत्साहितस्य तु पञ्चरात्रम् । उभयेच्छातः प्रवृत्तौ सप्तरात्रम् । स्वेन प्रोत्साहितायामष्टरात्रम् । शूद्रायां तु कामतः प्रवृत्तस्य रेतः सेकात्पूर्वं निवृत्तौ जाबालिराह - 'अतिकृच्छ्रं तप्तकृच्छ्रं पराकं वा तथैव च । गुरोः