याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 602, कुल 782 में से
संदर्भ में पढ़ें२४६ | याज्ञवल्क्यस्मृतिः एवं ब्रह्महादिमहापातकिप्रायश्चित्तमभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तमाह- एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः । एभिः पूर्वोक्तैर्ब्रह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि तत्समः । यो येन सहाचरति सोऽपि तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रा- यश्चित्तातिदेशार्थं तत्समग्रहणम्, न पुनः पातकत्वातिदेशार्थम् । तस्य 'यश्च तैः सह संवसेत्' (प्रा० २२३) इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यति- देशत्वे कृत्स्नमेव द्वादशवार्षिकं कार्यम्, साक्षान्महापातकिस्वात्संसर्गिणः । 'अपि'- शब्दाच्च केवलं महापातकिसंयोगी तत्समः किन्त्वतिपातकोपपातक्यादीनां मध्ये यो येन सह संसर्गं करोति, सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं कुर्यादिति दर्शयति अत एव मनुना सकलं प्रायश्चित्तजातमध्यायान्तेऽभिधाया- भिहितम् (११।१८१)-'यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥' इति । विष्णुनापि सामान्येनोपपातक्यादेरेनस्वि- मात्रसंसर्गे तत्प्रायश्चित्तभावत्वं दर्शितम्-'पापात्मना येन सह यः संसृज्येत स तस्यैव व्रतं कुर्यात्' इति । अत एव मनुना सामान्येनैनस्विमात्रप्रतिषेधः कृतः (११।१८९)-'एनस्विभिरनिर्णीतैर्नार्थं कंचित्समाचरेत्' इति । तथा-'न संसर्गं भजेत्सद्भिः प्रायश्चित्ते कृते सति' इति च ।- एतच्च द्वादशवार्षिकादिव्रति- तप्रायश्चित्तं बुद्धिपूर्वसंसर्गविषयम्; 'पतितेन सहोषित्वा जानन्संवत्सरं नरः । मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥' इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर्वसिष्ठोक्तम् (१९।४५,४६)-'पतितसंप्रयोगे तु ब्राह्मेण यौनेन वा शौवेन वा यास्तेभ्यः सकाशान्मात्रा उपलभ्येरंस्तासां परित्यागस्तैश्च न संवसेदुदीचीं दिशं गत्वाऽनश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते' इति । तथा-'ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥' इति, तैरिति तृतीया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्ट- यसंसर्गिण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् । ननु महापातकिसंसर्ग एव महापातकित्वे हेतुर्न ब्रह्महादिविशेषसंसर्गः, तस्य व्यभि- चारात् । अतोऽत्र ब्रह्महादिसंसर्गिसंसर्गिणोऽपि महापातकिसंसर्गो विद्यत इति तस्यापि महापातकित्वं स्याच्च न प्रतिषेधः । उच्यते,-स्यादेवं यदि प्रमाणा- न्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तैस्मिन्नैव भवितुमर्हतीति । तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापातकि- त्वहेतुत्वस्यावगमितत्वात् । एवं च सति प्रतिषेधाभावोऽप्यहेतुः प्राप्यभावादेव ।
१. पातकिस्वा । २. अतिदेशकत्वे । ३. इति सर्वं निरवद्यम् । ४. तैरिति सर्वनाम । ५. तस्मिन्नेव ।