भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 603, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 603

भतः संसर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर्न भवति, प्रायश्चित्तं तु भवत्येव । न च संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तमिति वाच्यम् ; 'एनस्विभि- रनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' ( ११।१८९ ) इति सामान्येनैनस्विमात्रप्रतिषेधेन महापातकिसंसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्पातित्याभावेऽपियुक्तमेव प्रायश्चित्तम् । तच्च पादहीनम् ; 'यो येन संवसेद्वर्षं सोऽपि तत्समतामियात् । पादहीनं चरेत्सोऽपि तस्य तस्य व्रतं द्विजः ॥' इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्च- मयोरपि कामतः संसर्गिणोरर्धहीनं त्रिपाद्योनं च द्रष्टव्यम् । अतः साक्षाद् ब्रह्महा- दिसंसर्गीण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् । अत्र च ब्रह्महादिषु यद्यपि कामतो मरणान्तिकमुपदिष्टं तथापि संसर्गिणस्तन्नाति- दिश्यते । 'स तस्यैव व्रतं कुर्यात्' इति व्रतस्यैवातिदेशात् , मरणस्य च 'व्रत' शब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेपि संसर्गे द्वादशवार्षिकमकामतस्तु तदर्थम् । संसर्गश्च स्वनिबन्धनकर्मभेदादनेकधा भिद्यते । यथाह वृद्धबृहस्पतिः- 'एकशय्यासनं पङ्क्तिर्भाण्डं पङ्क्त्यन्नमिश्रणम् । याजनाध्यापने योनिरतथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह ॥' इति । देवलोऽपि- 'संलापस्पर्शनिःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम्॥' इति । एकशय्यासनमेकखट्वावासनमेकपङ्क्तिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन, अध्यापनं तस्य स्वस्य वा तेन, यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः, सहभोजनमेकामन्नभोजनम् , संलापः संभाषणम् , स्पर्शो गात्रसंमर्दः, निःश्वासः पतितमुखवायुसंपर्कः, सहयानमेकतुरगाद्यारोहणम् , एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमित्यपेक्षायां बृहद्विष्णुनोक्तम्- 'संवत्सरेण पतति पतितेन सहाचरन्नेकयानभोजनासनशयने, यौनस्रौवमुख्यैस्तु संबन्धैः सद्य एव' इति । अत्रैकभोजनमेकपङ्क्तिभोजनम् । एकासन्नभोजने तु सद्यःपातित्यम् ; 'याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥' इति देवलस्मरणात् । 'स्रौव'शब्देन याजन- मभिधीयते । 'मुख्य'शब्देन मुखभवत्वेनाध्यापनम् । यौनस्रौवमुख्यैरिति सत्यपि द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्यःपतनहेतुत्वम् ; 'यः पतितैः सह यौनमुख्य- स्रौवानां संबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्' इति सुमन्तुस्मरणात् । एकयानादिचतुष्टयस्य तु समुदितस्यैव पतनहेतुत्वम् ; 'एकया- नभोजनासनशयनैः' इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्ठानस्य तु पतन- हेतुत्वाभावेऽपि दोषहेतुत्वमस्त्येव; 'आसनाच्छयनाद्यानात्संभाषात्सहभोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥' इति पराशरवचनेन निरपेक्षा- णामपि पापहेतुत्वावगमात् । संलापस्पर्शनिःश्वासानां तु यानादिचतुष्टयेनानुषङ्गि- ३५ या०

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 603, कुल 782 में से · BharatKosha