याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 607, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५५१. महापातकादिपञ्चकमध्ये महापातकातिपातानुपपातकप्रायश्चित्तान्युक्त्वा- ऽधुनोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्राप्तं गोवधप्रायश्चित्तं तावदाह— पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुद्ध्यति ॥ २६३ ॥ कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः । दद्यात्त्रिरात्रं २चोपोष्या वृषभैकादशास्तु गाः ॥ २६४ ॥ गां हन्तीति गोघ्नः, मूलविभुजादित्वात्कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् ? पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथा- विधि मिश्रितानि पिबन्, आहारान्तरपरित्यागेन भोजनकार्ये तस्य विधानात् । तथा गोष्ठेशयः । प्राप्तशयनानुवादेन गोष्ठविधानाद्दिवा च स्वापप्रतिषेधाद्रात्रौ गोशालायां शयानः । गा अनुगच्छति तदस्य व्रतमिति गोऽनुगामी । व्रते- ऽणिनिः । अतश्च यासां गोष्ठे शेते सन्निधानात्त एव गाः प्रातर्वनं प्रतिचरन्तीरनु- गच्छेत् । अनुगच्छेदिति वचनाद्यदा ता गच्छन्ति तदैव स्वयमनुगच्छेत् । यदा तु तिष्ठन्त्यासते वा तदा पश्चाद्गमनस्याशक्यकरणत्वात्स्वयमपि तिष्ठेदासीत वेति गम्यते । अनुगमनविधानादेव ताभिः सायं गोष्ठं व्रजन्तीभिः सह गोष्ठप्रवेशोऽ- प्यर्थसिद्धः । एवं कुर्वन्मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेर्गोहत्यायाः शुद्ध्यतीत्येकं व्रतम् । मासं गोष्ठेशयो गोऽनुगामीति चानुव- र्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छ्रविधानादेव । अतश्च मासं निरन्तरं कृच्छ्रं समाहितश्चरेदित्यपरम् । अत एव जाबालेन मासं प्राजापत्यस्य पृथक् प्रायश्चित्त- त्वमुक्तम्—'प्राजापत्यं चरेन्मासं गोहन्ता चेदकामतः । गोहितो गोऽनुगामी स्याद्गोप्रदानेन शुद्ध्यति ॥' (प्रा० २६०) इति । अतिकृच्छ्रं वा तथैव समाच- रेदित्यन्यत् । कृच्छ्रातिकृच्छ्रयोर्लक्षणमुत्तरत्र वक्ष्यते । अथवा त्रिरात्रमुपवासं कृत्वा वृषभ एकादशो यासां गवां ता दद्यादिति व्रतचतुष्टयम् । तत्राकामकृते जातिमात्रब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा वृषभैकादशगोदानसहितत्रि- रात्रोपवासो द्रष्टव्यः । विशिष्टस्वामिकाया विशिष्टगुणवत्याश्च वधे गुरुप्रायश्चि- त्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासं पञ्चगव्या- शित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वात्तन्मासोपवासतु- ल्यत्वम् । ततश्च षड्भिः षड्भिरुपवासैरेकैकप्राजापत्यकल्पनया पञ्चकृच्छ्राणां प्रत्या- म्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौरेकेति षट् धेनवो भवन्तीति वृष- भैकादशगोदानसहितत्रिरात्रव्रताल्लघीयस्त्वम् । कथं पुनर्ब्राह्मणगवीनां गुरुत्वम् ? 'देवब्राह्मणराज्ञां तु विज्ञेयं द्रव्यमुत्तमम्' इति नारदेन तद्द्रव्यस्योत्तमत्वाभिधा- १. प्राजापत्यं वाऽतिकृच्छ्रम् । २. वोपोष्य ।