भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 608, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 608

५५२ याज्ञवल्क्यस्मृतिः

नात्, गोषु ब्राह्मणसंस्थास्विति दण्डभूयस्त्वदर्शनाच्च । वैश्यसंबन्धिन्यास्तु तादृ- ग्विधे व्यापादने मासमतिकृच्छ्रं कुर्यात् । अतिकृच्छ्रे त्वाद्ये त्रिरात्रत्रये पाणिपूरान्न- भोजनमुक्तम् । अन्त्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छ्रधर्मेण मासव्रते क्रियमाणे षड्रात्रमुपवासो भवति । चतुर्विंशत्यहे च पाणिपूरान्नभोजनम् । ततश्च कृच्छ्रप्रत्या- म्नायकल्पनया किंचिन्न्यूनं धेनुपञ्चकं भवतीति पूर्वस्माद् व्रतद्वयाल्लघिष्ठत्वेन वैश्य- स्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यव्रतं द्वितीयम् । तत्र च सार्धप्राजापत्यद्वयात्मकेन प्रत्याम्नायेन किंचिद- धिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छूद्रविषयतोचिता । अथ चैतत्प्राय- श्चित्तचतुष्टयं साक्षात्कर्तृनुग्राहकप्रयोजकानुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत्तु वैष्णवं व्रतत्रयम् - 'गोघ्नस्य पञ्चगव्येन मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा ॥' इति, यच्च काश्यपीयम् - 'गां हत्वा तच्चर्मणा प्रावृतो मासं गोष्ठेशयस्त्रिषवणस्नायी नित्यं पञ्चगव्याहारः' इति, यच्च शातातपीयम् - 'मासं पञ्चगव्याहारः' इति, तत्प- ञ्चकमपि याज्ञवल्कीयपञ्चगव्याहारसमानविषयम् । यच्च शङ्खप्रचेतोभ्यामु- क्तम् - 'गोघ्नः पञ्चगव्याहारः पञ्चविंशतिरात्रमुपवसेत्सशिखं वपनं कृत्वा गोच- र्मणा प्रावृतो गाश्चानुगच्छन् गोष्ठेशयो गां च दद्यात्' इति । एतच्च याज्ञ- वल्कीयमासातिकृच्छ्रव्रतसमानविषयम् । 'दद्यात्त्रिरात्रं चोपोष्य' इत्येतद्विषयं वाऽत्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विषये पञ्चगव्याशक्तस्य तु द्वितीयं काश्यपीयं 'मासं पञ्चगव्येने'ति प्रतिपाद्य 'षष्ठे काले पयोभक्षो वा गच्छन्तीष्व- नुगच्छेत्तासु सुखोपविष्टासु चोपविशेन्नातिप्लवं गच्छेन्नातिविषमेणावतारयेन्ना- ल्पोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेनुं दद्यात्' इति द्रष्टव्यम् । अन्ना- प्यशक्तस्य 'गोघ्नो मासं यवागूं प्रसृतितन्दुलशृतां भुञ्जानो गोभ्यः प्रियं कुर्वन् शुद्ध्यति' इति पैठीनसिनोक्तं वेदितव्यम् । यत्तु सौमन्तम् - 'गोघ्नस्य गोप्रदानं गोष्ठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानुगमनं च' इति ; यच्च संवर्तेनो- क्तम् - 'सक्तुयावकभैक्षाशी पयो दधि घृतं सकृत् । एतानि क्रमशोऽश्नीया- न्मासार्धं सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥' इति; यच्च बार्हस्पत्यम् - 'द्वादशरात्रं पञ्चगव्याहारः' इति तत्तितयमपि याज्ञवल्कीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्याविषयं वा, विषमप्र- देशात्रासेन जनितव्याधितो मरणविषयं वा वेदितव्यम् । तदिदं सर्वं प्रागुक्तमका- मविषयम् । यदा पुनरीदृग्विधामविशिष्टविप्रस्वामिकामविशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपानं, मासद्वयं हविष्येण चतुर्थकालभोजनं,


१. प्रदेशाज्ञानजनित ।