याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 619, कुल 782 में से
संदर्भ में पढ़ेंमानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अत एव शङ्खेन 'वैश्यामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्, क्षत्रियायां द्वे वर्षे, त्रीणि ब्राह्मण्यां वैश्यावच्च शूद्रायां ब्राह्मणपरिणीतायाम्' इति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिषु स्त्रीषु क्रमेण द्विवार्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्रयोर्वार्षिकषाण्मासिके । शूद्रस्य शूद्रायां परभार्यायां षाण्मासिकमेव । यत्त्वापस्तम्बीयम्—'सवर्णायामनान्य- पूर्वायां सकृत्संनिपाते पादः, पतत्येवमभ्यासे पादः, पादश्चतुर्थे सर्वम्' इति, तद्गौतमीयत्रिवार्षिकेन समानविषयम् । अन्यपूर्विकायां चतुरभ्यासे द्वादशवार्षि- कपायश्चित्तविधानादेकस्यामेव गमनाभ्यासे नेदं प्रायश्चित्तं, किंतु प्रतिगमनं पादपादन्यूनं कल्प्यम् । एतत्सर्वं कामकारविषयम् । अकामतः पुनरेतदेवार्ध- क्लृप्त्या पूर्वोक्तविषये योजनीयम् । अनुतुकाले तु जातिमात्रब्राह्मण्यां कामतो- गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिक्षीषु पुनरस्मिन्नेव विषये तदी- यान्येव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि । क्षत्रियादीनां च क्षत्रिया- दिक्षीषु द्वैमासिकादीन्येव । अकामतः पुनरेतासु क्षत्रियादितैर्वर्णिकानां याज्ञव- ल्कीयमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासवतमेवार्थक्लृप्त्या योजनीयम् । अत एव संवर्तः—'शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावका- हारस्तिष्ठेत्तैत्पापमुक्तये ॥' इति । अकामतोऽर्धमासिकमित्यभिप्रेतम् । 'ब्राह्मणश्वेदं प्रेक्षापूर्वकं ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मणः कृच्छ्रोऽनिवृत्तधर्मकर्मणोऽति- कृच्छ्र' इति तद्ब्राह्मणभार्यायां शूद्रायां द्रष्टव्यम् । द्विजातिस्त्रीषु च विप्रोढासु द्वित्रिपर्यभिचारितासु अबुद्धिपूर्वगमने वा । तथा च संवर्तः—'विप्रामस्वजनां गत्वा प्राजापत्यं समाचरेत्' इति । कामतस्तु—'राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥' इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु 'व्यभिचारस्य स्वैरिण्यां वृषल्यामवकीर्णः सचैलस्नात उदकुम्भं दद्याद् ब्राह्मणाय, वैश्यायां च चतुर्थकालाहारो ब्राह्मणान्भोजयेद्यवसभांरं च गोभ्यो दद्यात् , क्षत्रियायां त्रिरात्रोपोषितो यवाढकं । दद्यात् । ब्राह्मण्यां त्रिरात्रोपोषितो गां दद्याद्रोध्रववकीर्णः प्राजापत्यं चरेत् । 'अनूढायामवकीर्णः पलालभारं सीसमाषकं च दद्यात्' इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यास- विषयत्वं चास्य 'चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता' इति स्मृत्यन्तरादवगम्यते । अत्रैव विषये षट्त्रिंशन्मतेऽप्युक्तम्—'ब्राह्मणों बन्धकीं
१. मवकीर्णी । २. द्विवार्षिकवार्षिकषाण्मासिकानि । ३. त्रैवार्षिकाणाम् । ४. तिष्ठेत्तत्पापमोक्षतः इति । ५. भार्यायां द्रष्टव्यम् । ३६ या०