भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 618, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 618

'परिवृत्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्' इति तदुभयमपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम् । प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्तामेव परिणयति तदा मानवं त्रैमासि- कम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्कीयं च व्रतचतुष्टयमज्ञातविषयम् । यमेनाप्यत्र विशेष उक्तः—'कृच्छ्रौ द्वयोः परिवेद्ये कन्यायाः कृच्छ्र एव च । अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत् ॥' इति । एतच्च पर्याहिताग्न्या- दीनामपि समानम् । एकयोगनिर्देशात् । यथाह गौतमः ( १५।१८ )—'परिवि- त्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिषूपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्' इति । अत एव वसिष्ठेनाग्रेदिधिषूपत्यादाविदमेव प्रायश्चित्तमुक्तम् ( २०।९, १० ) 'अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निर्विशेत तां चैवोपयच्छेत । दिधि- षूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर्निर्विशेत' इति । अग्रेदिधिष्वा- देर्लक्षणं स्मृत्यन्तरेऽभिहितम्—'ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । या साऽग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥' इति । तत्राऽग्रेदिधिषूपतिः प्राजापत्यं कृत्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्राति- कृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढे दत्त्वाऽन्यामुद्वहेदिति परिवे- दनम् । तथा भृतकाध्यापकभृतकाध्यापितयोश्च पयसा ब्रह्मसुवर्चलां पिबेदित्य- धिकृत्य विष्णुरोक्तम्—'भृतकाध्यापनं कृत्वा भृतकाध्यापितस्तथा । अनुयोग- प्रदानेन त्रीन्पक्षाञ्छियततः पिबेत् ॥' इति । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुयोगप्रदानम् । अत एव स्मृत्यन्तरे—'दत्तानु- योगानध्येतुः पतितान्मनुरब्रवीत्' इत्युक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः । इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् । तथा पारदार्येऽप्युपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतच- तुष्टयस्यापि गुरुदारादावपवाद उक्तः । तथाऽन्यत्रापि गौतमादिभिः पारदार्यविशे- षेणापवाद उक्तः । यथाह गौतमः—'द्वे पारदार्ये त्रीणि श्रोत्रियस्य' इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तूत्य तेनैवेदमभिहितम् 'उपपातकेषु चैवम्' इति । तत्रेयं व्यवस्था—ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यम् । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्म- चर्यम् । यद्वा, श्रोत्रियपत्न्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम् । तादृग्विधायामेव क्षत्रियायां द्वैवार्षिकम् । तादृश्यामेव वैश्यायां वार्षिकमिति व्यवस्था । एतत्स- १. अधीयानस्य नाशितम् ।