याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
'परिवृत्तिः परिवेत्ता च संवत्सरं ब्राह्मणगृहेषु भैक्षं चरेयाताम्' इति तदुभयमपि कामकारेण कन्यापित्राद्यननुज्ञातोद्वाहविषयम् । प्रायश्चित्तस्य गुरुत्वात् । यदा पुनः कामतः कन्यां पित्रादिदत्तामेव परिणयति तदा मानवं त्रैमासि- कम् । पूर्वोक्तौ कृच्छ्रातिकृच्छ्रौ याज्ञवल्कीयं च व्रतचतुष्टयमज्ञातविषयम् । यमेनाप्यत्र विशेष उक्तः—'कृच्छ्रौ द्वयोः परिवेद्ये कन्यायाः कृच्छ्र एव च । अतिकृच्छ्रं चरेद्दाता होता चान्द्रायणं चरेत् ॥' इति । एतच्च पर्याहिताग्न्या- दीनामपि समानम् । एकयोगनिर्देशात् । यथाह गौतमः ( १५।१८ )—'परिवि- त्तिपरिवेत्तृपर्याहितपर्याधात्रग्रेदिधिषूपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्' इति । अत एव वसिष्ठेनाग्रेदिधिषूपत्यादाविदमेव प्रायश्चित्तमुक्तम् ( २०।९, १० ) 'अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निर्विशेत तां चैवोपयच्छेत । दिधि- षूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्तां पुनर्निर्विशेत' इति । अग्रेदिधिष्वा- देर्लक्षणं स्मृत्यन्तरेऽभिहितम्—'ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । या साऽग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूः स्मृता ॥' इति । तत्राऽग्रेदिधिषूपतिः प्राजापत्यं कृत्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्राति- कृच्छ्रौ कृत्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढे दत्त्वाऽन्यामुद्वहेदिति परिवे- दनम् । तथा भृतकाध्यापकभृतकाध्यापितयोश्च पयसा ब्रह्मसुवर्चलां पिबेदित्य- धिकृत्य विष्णुरोक्तम्—'भृतकाध्यापनं कृत्वा भृतकाध्यापितस्तथा । अनुयोग- प्रदानेन त्रीन्पक्षाञ्छियततः पिबेत् ॥' इति । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुयोगप्रदानम् । अत एव स्मृत्यन्तरे—'दत्तानु- योगानध्येतुः पतितान्मनुरब्रवीत्' इत्युक्तम् । अत्रापि पूर्वोक्तव्रतैः सहास्य शक्त्यपेक्षया विकल्पः । इति भृतकाध्यापकभृतकाध्यापितप्रकरणम् । तथा पारदार्येऽप्युपपातकसामान्यप्राप्तमानवत्रैमासिकस्य याज्ञवल्क्यव्रतच- तुष्टयस्यापि गुरुदारादावपवाद उक्तः । तथाऽन्यत्रापि गौतमादिभिः पारदार्यविशे- षेणापवाद उक्तः । यथाह गौतमः—'द्वे पारदार्ये त्रीणि श्रोत्रियस्य' इति । तथा वार्षिकं प्राकृतं ब्रह्मचर्यं प्रस्तूत्य तेनैवेदमभिहितम् 'उपपातकेषु चैवम्' इति । तत्रेयं व्यवस्था—ऋतुकाले कामतो जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यम् । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृतं ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्म- चर्यम् । यद्वा, श्रोत्रियपत्न्यां गुणवत्यां ब्राह्मण्यां त्रैवार्षिकम् । तादृग्विधायामेव क्षत्रियायां द्वैवार्षिकम् । तादृश्यामेव वैश्यायां वार्षिकमिति व्यवस्था । एतत्स- १. अधीयानस्य नाशितम् ।
मानदृष्ट्या शूद्रायां षाण्मासिकं प्राकृतं ब्रह्मचर्यं कल्पनीयम् । अत एव शङ्खेन 'वैश्यामवकीर्णः संवत्सरं ब्रह्मचर्यं त्रिषवणं चानुतिष्ठेत्, क्षत्रियायां द्वे वर्षे, त्रीणि ब्राह्मण्यां वैश्यावच्च शूद्रायां ब्राह्मणपरिणीतायाम्' इति वर्णक्रमेण ह्रासो दर्शितः । एवं क्षत्रियस्यापि क्षत्रियादिषु स्त्रीषु क्रमेण द्विवार्षिकैकवार्षिकैकषाण्मासिकानि पूर्वोक्त एव विषये योजनीयानि । वैश्यस्य च वैश्याशूद्रयोर्वार्षिकषाण्मासिके । शूद्रस्य शूद्रायां परभार्यायां षाण्मासिकमेव । यत्त्वापस्तम्बीयम्—'सवर्णायामनान्य- पूर्वायां सकृत्संनिपाते पादः, पतत्येवमभ्यासे पादः, पादश्चतुर्थे सर्वम्' इति, तद्गौतमीयत्रिवार्षिकेन समानविषयम् । अन्यपूर्विकायां चतुरभ्यासे द्वादशवार्षि- कपायश्चित्तविधानादेकस्यामेव गमनाभ्यासे नेदं प्रायश्चित्तं, किंतु प्रतिगमनं पादपादन्यूनं कल्प्यम् । एतत्सर्वं कामकारविषयम् । अकामतः पुनरेतदेवार्ध- क्लृप्त्या पूर्वोक्तविषये योजनीयम् । अनुतुकाले तु जातिमात्रब्राह्मण्यां कामतो- गमने मानवं त्रैमासिकम् । जातिमात्रक्षत्रियादिक्षीषु पुनरस्मिन्नेव विषये तदी- यान्येव द्वैमासिकचान्द्रायणमासिकानि योजनीयानि । क्षत्रियादीनां च क्षत्रिया- दिक्षीषु द्वैमासिकादीन्येव । अकामतः पुनरेतासु क्षत्रियादितैर्वर्णिकानां याज्ञव- ल्कीयमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासं प्राजापत्याचरणं च क्रमेण द्रष्टव्यम् । शूद्रागमने तु कामतो विहितं मासवतमेवार्थक्लृप्त्या योजनीयम् । अत एव संवर्तः—'शूद्रां तु ब्राह्मणो गत्वा मासं मासार्धमेव वा । गोमूत्रयावका- हारस्तिष्ठेत्तैत्पापमुक्तये ॥' इति । अकामतोऽर्धमासिकमित्यभिप्रेतम् । 'ब्राह्मणश्वेदं प्रेक्षापूर्वकं ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मणः कृच्छ्रोऽनिवृत्तधर्मकर्मणोऽति- कृच्छ्र' इति तद्ब्राह्मणभार्यायां शूद्रायां द्रष्टव्यम् । द्विजातिस्त्रीषु च विप्रोढासु द्वित्रिपर्यभिचारितासु अबुद्धिपूर्वगमने वा । तथा च संवर्तः—'विप्रामस्वजनां गत्वा प्राजापत्यं समाचरेत्' इति । कामतस्तु—'राज्ञीं प्रव्रजितां धात्रीं साध्वीं वर्णोत्तमामपि । कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥' इति यमोक्तं कृच्छ्रद्वयं द्रष्टव्यम् । चतुराद्यभ्यासे तु 'व्यभिचारस्य स्वैरिण्यां वृषल्यामवकीर्णः सचैलस्नात उदकुम्भं दद्याद् ब्राह्मणाय, वैश्यायां च चतुर्थकालाहारो ब्राह्मणान्भोजयेद्यवसभांरं च गोभ्यो दद्यात् , क्षत्रियायां त्रिरात्रोपोषितो यवाढकं । दद्यात् । ब्राह्मण्यां त्रिरात्रोपोषितो गां दद्याद्रोध्रववकीर्णः प्राजापत्यं चरेत् । 'अनूढायामवकीर्णः पलालभारं सीसमाषकं च दद्यात्' इति शङ्खोक्तं वेदितव्यम् । चतुराद्यभ्यास- विषयत्वं चास्य 'चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी मता' इति स्मृत्यन्तरादवगम्यते । अत्रैव विषये षट्त्रिंशन्मतेऽप्युक्तम्—'ब्राह्मणों बन्धकीं
१. मवकीर्णी । २. द्विवार्षिकवार्षिकषाण्मासिकानि । ३. त्रैवार्षिकाणाम् । ४. तिष्ठेत्तत्पापमोक्षतः इति । ५. भार्यायां द्रष्टव्यम् । ३६ या०
गत्वा किंचिद्दद्याद्द्विजातये । राजनयां चेदनुर्दद्याद्वैश्यां गत्वा तु चैल कम् ॥ शूद्रां गत्वा तु वै विप्र उदकुम्भं द्विजातये । दिवसोपोषितो वा स्याद्दद्याद्विपाय भोज- नम् ॥' इति ( अनुलोमव्यवाये गर्भे द्विगुणं, यदि सा अतिदूषिता न प्रतिलो- मगा भवति तदैव । अन्त्यजातिगमने द्वैगुण्यं, प्रतिलोमदूषितासु अन्त्यावसा- यिनीषु च चाण्डालीगमें यथा गुरुतल्पत्वं तथा किंचिन्न्यूनं तारतम्यं कल्प्यम् । चाण्डालीगमने वार्षिकम् । गर्भे गुरुतल्पत्वं तथैव ज्ञेयम् ।) इदं प्रायश्चित्तजातं गर्भाऽनुत्पत्तिविषयम् । तदुत्पत्तौ तु यद्विशेषेण यत्प्रायश्चित्तमुक्तं तदेव तत्र द्विगुणं कुर्यात् ।—'गमने तु व्रतं यत्स्याद्गर्भे तद्द्विगुणं चरेत्' इत्युशनःस्मरणात् । शूद्र्यां गर्भमादधतश्चतुर्विंशतिमते विशेष उक्तः—'वृषल्यामभिजातस्तु- त्रीणि वर्षाणि चतुर्थकालसमये नक्तं भुञ्जीत' इति । यत्तु मनुवचनम् (३।१७)—'शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥' इति,—तस्यापगौरवख्यापनपरम् । प्रातिलोम्य- व्यवाये तु सर्वत्र पुरुषस्य वध एव—'प्रातिलोम्ये वधः पुंसो नार्याः कर्णा- दिकर्तनम्' इति वचनात् ॥ यत्तु वृद्धप्रचेतोवचनम्—'शूद्रस्य ब्राह्मणीं मोहाद्गच्छतः शुद्धिरिच्छतः । पूर्णमेतद् व्रतं देयं माता यस्माद्धि तस्य सा ॥ पाद- हान्याऽन्यवर्णासु गच्छतः सार्ववर्णिकम् ॥' इति । द्वादशवार्षिकातिदेशकं, तच्च- भार्य्याभ्रान्त्या गच्छतो वेदितव्यम्; मोहादिति विशेषणोपादानात् । यत्तु संवर्त- वचनम्—'कथंचिद् ब्राह्मणीं गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छ्रं सान्तपनं वा स्यात्प्रा- जाप्त्यं विशुद्धये ॥ शूद्रस्तु ब्राह्मणीं गच्छेद्वकथंचित्काममोहितः । गोमूत्रयावकाहारो मासेनेकेन शुद्ध्यति ॥' इति,—तदत्यन्तव्यभिचरितब्राह्मणीविषयम् । अन्त्यजा- गमनेऽपि प्रायश्चित्तं बृहत्संवर्तेनोक्तम्—'रजकव्याधशैलूषवेणुचर्मापजीविनीः । एतास्तु ब्राह्मणो गत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । इदं ब्राह्मणस्य कामतः सकृद्गमनविषयम्, क्षत्रियादीनां तु पादपादहीनं कल्प्यम् । अत्रैवापस्तम्बे- नोक्तम्—'म्लेच्छीं नटीं चर्मकारी रजको बुरुंडी तथा । एतास्तु गमनं कृत्वा चरेच्चान्द्रायणद्वयम् ॥' इति । अन्त्यजाश्च तेनैव दर्शिताः—'रजकश्चर्मकारश्च नटो बुरुड एव च । कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥' इति । ये तु चाण्डालादयोऽन्त्यावसायिनस्तत्स्त्रीगमने गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शि- तम् । एतासां चान्त्यजस्त्रीणां मध्ये यदेकस्यां व्यवाये प्रायश्चित्तमभिहितं तत्सर्वासु भवति; सर्वासां सदृशत्वात् । यथाङ्गिरसाः—'बहूनामेकधर्माणा मेकस्यापि यदुच्यते । सर्वेषां तद्भवेत्कार्यमेकरूपा हि ते स्मृताः ॥' इति । अकामतस्तु गमने—'चण्डालमेदश्वपचकपालव्रतचारिणाम् । अकामतः स्त्रियो गत्वा पराक-
१. कोष्ठान्तर्गतः क्वचिन्नास्ति । २. वहडी तथा ।
व्रतमाचरेत् ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्च संवर्तवचनम् —'रजकव्याधशैलूष- वेणुचर्मोपजीविनाम् । स्त्रियो विप्रो यदा गच्छेत्कृच्छ्रं चान्द्रायणं चरेत् ॥' इति,— तदप्यकामविषयम् । यत्तु शातातपेनोक्तम्—'कैवर्तीं रजकीं चैव वेणुचर्मोपजी- विनीम् । प्राजापत्यविधानेन कृच्छ्रेणैकेन शुद्ध्यति ॥' इति, —तद्वेतःसेकाप्राप्तिवृत्ति- विषयम् । यत्तुशनसोक्तम्—'कापालिकाञ्चभोक्तॄणां तन्नारीगामिनां तथा । ज्ञाना- र्कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्द्वद्वयम् ॥' इति, —तदभ्यासविषयम् । यदा तु चाण्डा- ल्यादिषु गच्छतो गर्भो भवति, तदा 'चाण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्' इत्युशनसोक्तं द्वादशवार्षिकं द्रष्टव्यम् । यत्तु-'अन्त्यजायां प्रसूतस्य निष्कृतिर्न विधीयते । निर्वासनं कृताङ्कस्य तस्य कार्यमसंशयम् ॥' इत्यापस्तम्बवचनं, तत्कामकारविषयम् । स्त्रीणामपि सवर्णानुलोमव्यवाये यत्पुरुषस्योक्तं त्रैवार्षिकादि तदेव भवति । 'यत्पुंसः परदारेषु तच्चैनां चारयेद् व्रतम् ॥' ( ११।१७६ )— इति मनुस्मरणात् । प्रातिलोम्येन व्यवाये एव परस्त्रीपुंसयोः प्रायश्चित्तभेदः । यथाह वसिष्ठः (२१।२,३)—'शूद्रश्चेद् ब्राह्मणीमभिगच्छेद्धोरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् , ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां खरमारोप्य महा- पथमनुव्राजयेत्पूता भवतीति विज्ञायते' इति । तथा-'वैश्यश्चेद् ब्राह्मणीमभिगच्छेल्लो- हितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा- ऽभ्यज्य नग्नां गौरखरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते' इति । तथा 'राजन्यश्चेद् ब्राह्मणीमभिगच्छेदिक्षुरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां गौरखरमारोप्य महापथमनुसंत्राजये- त्पूता भवतीति विज्ञायते' इति । एवं वैश्यो राजन्यां शूद्रश्च राजन्यावैश्ययोरिति । पूता भवतीति वचनाद्राजवीथिपरिव्राजनमेव दण्डरूपं प्रायश्चित्तान्तरनिरपेक्षं शुद्धिसाधनमिति दर्शयति । ब्राह्मण्याः प्रातिलोम्येन द्विजातिव्यवाये प्रायश्चित्तान्तरमप्युक्तं संवर्तेन— 'ब्राह्मण्यकामा गच्छेच्चेत्क्षत्रियं वैश्यमेव वा । गोमूत्रयावकैर्मासात्तदर्थाच्च विशु- द्ध्यति ॥' इति । कामतस्तु तद्द्विगुणं कर्तव्यम् । 'कामात्तद्द्विगुणं भवेत्' इति वच- नात् । षट्त्रिंशन्मतेऽपि 'ब्राह्मणी क्षत्रियवैश्यसेवायामतिकृच्छ्रं कृच्छ्रातिकृच्छ्रौ चरेत् । क्षत्रिययोषितां ब्राह्मणराजन्यवैश्यसेवायाँ कृच्छ्रार्धं प्राजापत्यमतिकृच्छ्रम् । वैश्ययोषितां ब्राह्मणराजन्यवैश्यसेवायां कृच्छ्रपादं कृच्छ्रपादं कृच्छ्रार्धं प्राजापत्यम् । शूद्रायाः शूद्रसेवने प्राजापत्यम् । ब्राह्मणराजन्यवैश्यसेवायां त्वहोरात्रं त्रिरात्रं कृच्छ्रार्धम्' इति । शूद्रसेवायां तु विशेषो बृहत्प्रचेतसोक्तः—'विप्रा शूद्रेण संस्पृक्ता न चेत्तस्मात्प्रसूयते । प्रायश्चित्तं स्मृतं तस्याः कृच्छ्रं चान्द्रायणत्रयम् ॥' एतदनिच्छन्त्यां स्वप्नप्रतिभान्त्या वा वेदितव्यम् । 'चान्द्रायणे द्वे कृच्छ्रश्च विप्राया वैश्यसेवने । १. द्वैन्द्वं स्मृतम् । २. वैश्यसंगमे ।
५६६ याज्ञवल्क्यस्मृतिः
कृच्छ्रचान्द्रायणे स्यातां तस्याः क्षत्रियसंगमे ॥ क्षत्रिया शूद्रसंपर्के कृच्छ्रं चान्द्राय- णद्वयम् । चान्द्रायणं सकृच्छ्रं तु चरेद्वैश्येन संगता ॥ शूद्रं गत्वा चरेद्वैश्या कृच्छ्रं चान्द्रायणोत्तरम् । आनुलोम्ये प्रकुर्वीत कृच्छ्रं पादावरोपितम् ॥' इति । प्रजाता- यांस्तु चतुर्विंशतिमते विशेष उक्तः— 'विप्रगर्भे पराकः स्यात्क्षत्रियस्य तथैन्दवम् । ऐन्दवश्च पराकश्च वैश्यस्याकामकारतः ॥ शूद्रगर्भे अवेक्ष्यागश्चाण्डालो जायते यतः । गर्भस्रावे धातुदोषैश्चरेच्चान्द्रायणत्रयम् ॥' इति । 'अकामकारतः' इति विशेषणोपादानात् कामकारे पुनः पराकादिकं द्विगुणं कुर्यात् । यदा त्वनिःसृतग- र्भैव दशमासं स्थित्वा प्रजायते तदा प्रायश्चित्ताभावः । 'ब्राह्मणक्षत्रियविशां भार्याः शूद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः ॥' इति वसिष्ठस्म- रणात् । यदा त्वाहितगर्भैव पश्चाच्छूद्रादिभिर्व्यभिचरति तदा गर्भपातशङ्कया प्रसवोत्तरकालमेव प्रायश्चित्तं कुर्यात् ; 'अन्तर्वत्नी तु या नारी समेताक्रम्य कामिना । प्रायश्चित्तं न कुर्यात्सा यावद्गर्भो न निःसृतः ॥ जाते गर्भे व्रतं पश्चा- त्कुर्यान्मासं तु यावकम् । न गर्भदोषस्तस्यास्ति संस्कार्यः स यथाविधि ॥' इति स्मृत्यन्तरदर्शनात् । यदा त्वौद्धत्यात्प्रायश्चित्तं न कुर्वन्ति, तदा नार्याः कर्णादिकर्तनमिति द्रष्टव्यम् । अन्त्यजादिगमनेऽपि स्त्रीणां स्मृत्यन्तरे प्रायश्चित्तं दर्शितम्—'रजकव्याधशैलूषवेणुचर्मोपजीविनाः । ब्राह्मण्येतान्यदा गच्छेदेकामा- दैन्दवत्रयम् ॥' इति । तथा चाण्डाल्याद्यन्त्यावसायिगमनेऽपि—'चाण्डालं पुल्कसं म्लेच्छं श्वपाकं पतितं तथा । ब्राह्मण्याकामतोगत्वा चान्द्रायणचतुष्ट- यम् ॥' इति 'अकामत' इति वचनात्कामतोगद्विगुणं कल्प्यम् । तथा—'चाण्डा- लेन तु संपर्क यदि गच्छेत्कथंचन । सशिखं वपनं कुर्याद्भुञ्जीयाद्यावकौदनम् ॥ त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् । आत्मना २संमिते कूपे गोमयोदकक- र्दमे ॥ तत्र स्थित्वा निराहारा सा त्रिरात्रं ततः क्षिपेत् । शङ्खपुष्पीलता मूलं पत्रं वा कुसुमं फलम् । क्षीरं सुवर्णसंमिश्रं क्वाथयित्वा ततः पिवेत् ॥ एकभक्तं चरेत्पश्चा- द्यावत्पुष्पवती भवेत् । बहिस्तावच्च निवसेद् यावच्चरति तद्व्रतम् ॥ प्रायश्चित्ते ततश्चीर्णे कुर्याद् ब्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुद्ध्यै स्वायंभुवोऽब्रवीत् ॥' इति ।-एतदप्यकामविषयमेव; 'यदि गच्छेत्कथंचन' इति वचनात् । ऋष्य- शृङ्गेणाप्यन्त्यज्यव्यवाये प्रायश्चित्तान्तरमुक्तम्—'संस्पृक्ता स्यादथान्त्यैर्या सा कृच्छ्रौन्दं समाचरेत्' इति ।-कामतः सकृद्गमने इदम् । यदा त्वाहितगर्भाया एव पश्चाच्चाण्डालादिव्यवायस्तदा तेनैव विशेष उक्तः—'अन्तर्वत्नी तु युवतिः संस्पृक्ता चान्त्ययोनिना । प्रायश्चित्तं न सा कुर्याद्यावद्गर्भो न निःसृतः ॥ न प्रचारं गृहे कुर्यान्न चाङ्गेषु प्रसाधनम् । न शयीत समं भर्त्रा न वा भुञ्जीत
१. दुकामादैन्दवद्वयम् । २. संमिते कर्दे ।
बान्धवैः ॥ प्रायश्चित्तं गते गर्भे विधिं कृच्छ्रादिकं चरेत् । हिरण्यमथवा धेनुं दद्याद्विप्राय दक्षिणाम् ॥' इति । यदा तु कामतोऽन्त्यन्तसंपर्कं करोति तदा - 'अन्त्यजेन तु संपर्के भोजने मैथुने कृते । प्रविशेत्संप्रदीप्तेऽग्नौ मृत्युना सा विशु- द्ध्यति ॥' इत्युशनसोक्तं द्रष्टव्यम् । यदा तूक्तं प्रायश्चित्तं न करोति तदा पुंलिङ्गेनाङ्कनीया, वध्या वा भवेत् । 'हीनवर्णोपभुक्ता या साऽङ्कया वध्याऽथवा भवेत्' इति पराशरस्मरणात् । इति पारदार्यप्रकरणम् । तथा परिवित्तिप्राय- श्चित्तानामपि परिवेत्तृप्रायश्चित्तवद्व्यवस्था विज्ञेया । इयांस्तु विशेषः- 'परिवेत्तु- र्यस्मिन्विषये कृच्छ्रातिकृच्छ्रौ तत्र परिवित्तेः प्राजापत्यमिति । परिवित्तिः कृच्छ्रं द्वादशरात्रं चरित्वा पुनर्निविशेत् तां चैवोपयच्छेत्' इति वसिष्ठस्मरणात् । इति परिवित्तिप्रकरणम् । वार्धुष्यलवणक्रययोस्तु मनुयोगीश्वरोक्तसामान्योपपा- तकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि ॥ २६५ ॥ भाषा-उपपातकों की भी शुद्धि इसी प्रकार ( गोवध के प्रायश्चित्त से ) अथवा चान्द्रायण व्रत से या एक मास तक केवल दूध पीकर रहने या पराक व्रत करने से होती है ॥ २६५ ॥ लवणक्रयानन्तरं 'स्त्रीशूद्रविट्क्षत्रवध' ( प्रा० २३६ ) इत्युपपातकंमध्ये पठितं तत्र प्रायश्चित्तान्तरमप्याह - ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् । ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ २६६ ॥ वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् । षण्मासाञ्छूद्रहाप्येतद्धेनूर्दद्याद् दशाथवा ॥ २६७ ॥ एकमधिकं यस्मिन्सहस्रे तदेकसहस्रं, तस्य पूरण एकसहस्रः, ऋषभ एक- सहस्रो यासां गवां ताः ऋषभैकसहस्रास्ताः क्षत्रवधे दद्यात् । अथवा बृहत्प्रा- यश्चित्तं ब्रह्महत्याव्रतं वर्षत्रयं कुर्यात् । वैश्यघाती पुनरेतत् ब्रह्महत्याव्रतमेकवर्षं चरेत् । गवामृषभैकशतं वा दद्यात् । शूद्रघाती तु ब्रह्महत्याव्रतं षण्मासं चरेत् । यद्वा दशधेनूरचिरप्रसूताः सवत्सा दद्यात् । इदमकामतो जातिमात्रक्षत्रियादि- वधविषयम् ; 'अकामतस्तु राजन्यं विनिपात्य' ( मनुः ११।१२७ ) इति प्रक्रम्यैतेषामेव प्रायश्चित्तानां मानवेऽभिधानात् । दानतपसोश्च शक्त्यपेक्षया व्य- वस्था । ईषद्वृत्तस्थयोस्तु विट्शूद्रयोः- 'तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडश ॥' ( ११।१२६ ) इति मनूक्तं द्रष्टव्यम् । वृत्तस्थे क्षत्रिये तु सार्धचतुर्वार्षिकं कल्प्यम् । 'वृत्त'शब्देन चात्र गुणादिकमुच्यते । 'गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तकं १. वृषभैकसहस्रा । २. वैश्यहा ह्येतत् । ३. व्रतत्रयमेवतु ।
[Page-header: ५६८ याज्ञवल्क्यस्मृतिः]
हितानां च तत्सर्वं वृत्तमुच्यते ॥' इति मनुस्मरणात् । यत्तु वृद्धहारीतवचनम्- 'ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिकं द्विजः ॥ शूद्रं हत्वा चरेद्वर्षं वृषभैकादशाश्च गाः ॥' इति, -तत्कामकारविषयम् । श्रोत्रियक्षत्रियादिवधे तु-'तुरीयोऽनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् । अर्धं वैश्य- वधे कुर्यात्तुरीयं वृषलस्य तु ॥' इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत्तु वसिष्ठव- चनम्-'ब्राह्मणो राजन्यं हत्वाऽष्टौ वर्षाणि व्रतं चरेत् , षड् वैश्यं, त्रीणि शूद्रम्' इति,-तदपि हारीतीयेन समानविषयम् । क्षत्रिये त्वीषद्गुणन्यून इत्येतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश्च भवति तदा-'पूर्वयोर्वर्णयोर्वेदाध्यायिनं हत्वा' ( ध० १।२४।६ ) इत्यापस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयागे त्वश्रोत्रिये क्षत्रियादौ व्यापादिते 'यागस्थक्षत्रविट्घाती चरेद् ब्रह्महणि व्रतम्' इति द्रष्टव्यम् । श्रोत्रिये पुनर्यागस्थे क्षत्रियादौ 'ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश्च गा दद्यात् , वैश्यवधे त्रिवार्षि- कमृषभैकशताश्च गा दद्यात् , शूद्रवधे सांवत्सरिकमृषभैकादशाश्च गा दद्यात्' ( २२।१४-१६ ) इति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच्चामति- पूर्वविषयम् । 'पूर्ववदमतिपूर्वे चतुर्षु वर्णेषु प्रमाध्य द्वादश षट् त्रीन् संवत्सरं च व्रतान्यादिशेत्, तेषामन्ते गोसहस्रं च ततोऽर्धं तस्यार्धमर्धं च दद्यात्; सर्वेषामा- नुपूर्व्येण'इति स्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयमेव, किंचिन्न्यूनगु- णे क्षत्रिये गुणाधिकयोर्वैश्यशूद्रयोश्च द्रष्टव्यम् । 'स्त्रीशूद्रविट्क्षत्रवध' इत्युपपात- कमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वादुपपातकसामान्यप्राप्ता- न्यपि प्रायश्चित्तान्यत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस्तु योगी- श्वरोक्तं त्रिरात्रोपवाससहितमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतच्च प्रागुक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् ।-'अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । तथा ब्राह्मणराजन्यवधे षड्वार्षिकं तथा ॥ ब्राह्मणः क्षत्रियं हत्वा' ( ११।१२७ ) इत्यादिषु मनुगौतम- हारीतवसिष्ठवाक्येषु 'ब्राह्मण'ग्रहणात् । क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम् ; 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धमेकपादस्तु शूद्रजातिषु शस्यते ॥' इति वृद्धविष्णुस्मरणात् । 'यत्तु पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षदूच्च व्रतं स्मृतम् ॥' इत्याङ्गिरोवचनं तत्प्रातिलोम्येन वाग्दण्डपारुष्यविषयमित्युक्तं गोवधप्रकरणे । मूर्धावसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति; तेषां क्षत्रियादित्वाभावात् ।
१-२. वृद्धहारीतोक्तम् ।
प्रायश्चित्ताध्यायः ५६६ अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धह्रासौ कल्पनीयौ । दण्डस्य च वृद्धह्रासौ दर्शितौ—'दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः' (व्य० २०६) इत्यत्र ॥ २६६-२६७ ॥ भाषा—क्षत्रिय का वध करने पर प्रायश्चित्त कर्ता पुरुष एक साँड़ (प्रौढ़ बछवा) के साथ एक हजार गौओं का दान करे अथवा ब्रह्महत्याव्रत तीन वर्षों तक करे । वैश्य का वध करने वाला एक वर्ष तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ एक सौ गौओं का दान करे । शूद्र का वध करने वाला छै मास तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ नई ब्यायी दस सवत्सा गौवों का दान करे ॥ २६६-२६७ ॥ इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम् । स्त्रीवधे प्रायश्चित्तमाह— १दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ २६८ ॥ ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधार- चर्मकोशं, धनुः कार्मुकं, बस्तं छागं, अविं मेषं च, विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतौ वधविषयम् । कामतस्तु ब्रह्मगर्भ आह—'प्रतिकोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावित्येवं यथार्हंतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं २व्यापादयति तदा किंचिद्देयम् । 'वैशिकेिन किंचित्'० (२२।२७) इति गौतमस्मरणात् । वैशि- केन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कू- पेऽथ विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरःस्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गो- वधप्रायश्चित्तानि यथार्हं योज्यानि ॥ २६८ ॥ भाषा—ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र की व्यभिचारिणी स्त्री का वध करने पर प्रायश्चित्त कर्ता यथाक्रम (वर्णानुक्रम) से जल भरने वाला चमड़े का मशक, धनुष, बकरा तथा भेड़ का दान करे ॥ २६८ ॥ १. दुर्वृत्ता ब्रह्मन्नृपविट्शूद्रयोषाः । २. व्यापादितास्तदा ।
१७० याज्ञवल्क्यस्मृतिः
ईषद्व्यभिचरितब्राह्मण्यादिवधे विशेषमाह— अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । यदा स्वप्रकर्षेण दुष्टामीषद्व्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति तदा शूद्रहत्याव्रतं षाण्मासिकं कुर्यात् । यद्वा,—दशधेनूर्दद्यात् । इदं च षाण्मासिक- मकामतॊ ब्राह्मण्या व्यापादने, क्षत्रियावधे च कामकृते द्रष्टव्यम् । कामतो वैश्या- वधे दशधेनूर्दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राशं मासं पञ्चगव्या- शनम् । यदा कामतो ब्राह्मणीं व्यापादयति, तदा द्वादशमासिकम् । क्षत्रिया- दीनां त्वकामतो व्यापादने त्रैमासिकं सार्धमासं सार्धद्वाविंशत्यहानि । यथाह प्रचेताः—‘अनुत्तमतीं ब्राह्मणीं हत्वा कृच्छ्राब्दं षण्मासान्वेति । क्षत्रियां हत्वा षण्मासान्मासत्रयं वेति वैश्यां हत्वा मासत्रयं सार्धमासं वेति शूद्रां हत्वा सार्धमासं सार्धद्वाविंशत्यहानि वा’ इति । यत्तु हारीतेन ‘षड्वर्षाणि राजन्ये प्राकृतं ब्रह्मचर्यं त्रीणि वैश्ये, सार्धं शूद्रे’ इति प्रतिपाद्योक्तं ‘क्षत्रियवद् ब्राह्मणीषु वैश्यवत्क्षत्रियायां शूद्रवद्वैश्यायां शूद्रां हत्वा नव मासान्’ इत्युक्तं,-तदपि कर्म- साधनत्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम्; अकामतस्तदर्धं कल्प्यम् । आत्रेय्यां तु प्रागुक्तम् । भाषा—ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र की ईषद् व्यभिचारिणी स्त्री का वध करने पर प्रायश्चित्त कर्ता पूर्वोक्त शूद्रहत्या-विषयक व्रत करे अथवा नई ब्यायी दस सवत्सा गौवों का दान करे । इति स्त्रीवधप्रायश्चित्तप्रकरणम् । हिंसाप्रायश्चित्तप्रसङ्गात्प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधेऽपि प्रायश्चित्त माह— अस्थिमतां सहस्रं तु तथाऽनस्थिमतामनः ॥ २६९ ॥ अस्थिमतां प्राणिनां कृकलासप्रभृतीनामनुक्तनिष्कृतीनां सहस्रं हत्वा, अन- स्थिमतां च यूकामत्कुणदंशमशकप्रभृतीनाम्, अनः शकटं तत्परिपूर्णमात्रं हत्वा शूद्रहत्याव्रतं षाण्मासिकं प्राकृतं ब्रह्मचर्यं चरेद्दशधेनूर्वा दद्यात् । ‘सहस्रम्’ इति परिमाणनियमात्ततोऽधिकवधे स्वतिरिक्तं कल्प्यम् । अर्वाक्पुनः प्रत्येकवधे तु ‘किञ्चित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके’ (प्रा०२७५) इति वक्ष्यति । ‘तथा- ऽनस्थिमतामन’ इति,-एतच्च यूकादिच्छोदिष्ठजन्तुविषयम् । स्थविष्ठानस्थिघुणा- दिजन्तुवधे तु ‘कृमिकीटवयोहत्या’ ( ११।७० ) इत्यादिना मलिनीकरणीयान्य- भिधाय ‘मलिनीकरणीयेषु तसः स्याद्यावकस्त्र्यहम्’ इति मनूक्तं द्रष्टव्यम् ॥
प्रायश्चित्ताध्यायः ५७१ भाषा—गिरगिट आदि हड्डी वाले एक हजार जन्तुओं का वध होने पर तथा जूँ, खटमल, डाँस एवं मच्छर आदि बिना हड्डी वाले एक बैलगाड़ी प्रमाण ( असंख्य ) जन्तुओं का वध हो जाने पर प्रायश्चित्तकर्ता पूर्वोक्त शूद्रहत्याव्रत अर्थात् प्राकृत ब्रह्मचर्य अथवा नयी ब्यायी दस सवत्सा गौओं का दान करे ॥ २६९ ॥ मार्जारगोधामकुलमण्डूकांश्च पतत्रिणः । हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ २७० ॥ किंच, मार्जारादयः प्रसिद्धाः, पतत्रिणश्चाषकाकोलूकाः, तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्छ्रं वा चरेत् । 'वा' शब्दाद्योजनगमनादिकं वा कुर्यात् ॥ यथाह मनुः ( ११।१३२ )—'पयः पिबेत्त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् । अपः स्पृशेत्स्रवन्त्यां वा सूक्तं वाऽब्दैवतं जपेत् ॥' इति । इदं च प्रत्येकवध- विषयम् । समुदितवधे तु ( ११।१३१ )—'मार्जारनकुलौ हत्वा चाषं मण्डूक- मेव च । श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥' इति मनूक्तं षाण्मासिकं द्रष्टव्यम् ॥ यत्पुनर्वासिष्ठेनोक्तम्—'श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान्हत्वा कृच्छ्रं द्वादशरात्रं चरेत्किञ्चिद्दद्यात्' इति, तत्कामतोंऽभ्यासविषयं वेदितव्यम् । दहरोऽल्पमूषकश्छुच्छुन्दरी वा ॥ २७० ॥ भाषा—बिलाव, गोह, नेवला, मेढक, चाष, कौवा, उल्लू, आदि पक्षियों का वध हो जाने पर तीन अहोरात्र केवल दूध पीवे अथवा पादकृच्छ्र ( एक योजन तक पैदल चलना रूपो ) व्रत करे ॥ २७० ॥ गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः । खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ २७१ ॥ किंच, दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षो वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकमेको वृषः । क्रौञ्चे पक्षिणि त्रिहायनो वत्सः । 'देय' इति सर्वत्रानुषङ्गः । मनुनाप्यत्र विशेष उक्तः ( ११। १३६ )—'वासो दद्याद्धयं हत्वा पञ्च नीलांन्वृषान्गजम् । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥' इति ॥ २७१ ॥ भाषा—हाथी का वध हो जाने पर पाँच नील बैल, सुग्गा ( तोता ) पक्षी का वध हो जाने पर दो वर्षों का बछड़ा, एवं गदहा, बकरा तथा भेड़ के वध हो जाने पर एक-एक बैल, और क्रौञ्च पक्षी का वध हो जाने पर तीन वर्षों के बछड़े का दान करे ॥ २७१ ॥ १. उपस्पृशेत् ।
हंसश्येनक पिकव्या जलस्थल शिखण्डिनः ।
५७२ याज्ञवल्क्यस्मृतिः हंसश्येनक पिकव्या जलस्थल शिखण्डिनः । भासं च हत्वा दद्याद् गामक्रव्यादास्तु वत्सिकाम् ॥२७२॥ किंच, क्रव्यमपक्वं मांसमत्तीति क्रव्याद् व्याघ्रसृगालादिर्मृगविशेषः वानर- साहचर्यात् , तथा हंसश्येनसमभिव्याहारात् कङ्कगृध्रादिः पक्षिविशेषश्च गृह्यते; 'जल'शब्देन जलचरा बकादयो गृह्यन्ते; 'स्थल'शब्देन स्थलचरा बेलाकादयः, शिखण्डी मयूरः; भासः पक्षिविशेषः, शेषाः प्रसिद्धाः, एषां प्रत्येकं वधे गामेकां दद्यात् । अक्रव्यादस्तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान्दृत्वा वत्सतरीं दद्यात् । तथा च मनुः (११।१३५-१३७)—'हत्वा हंसं वलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ क्रव्यादस्तु मृगान्दृत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादो वत्सतरीमुष्ट्रं हत्वा तु कृष्ण- लम् ॥' इति ॥ २७२ ॥ भाषा-हंस, बाज, बन्दर एवं मांसभोजी-व्याघ्र, स्यार आदि तथा कंक, गृध्र, आदि एवं जल-चर बगुला तथा स्थलचर (बलाका आदि), मयूर, भास आदि पशु-पक्षी के वध हो जाने पर एक गौ का दान करे । और मांस नहीं खाने वाले हरिण आदि तथा खंजरीट आदि पक्षियों के वध हो जाने पर एक बछिया का दान करे ॥ २७२ ॥ उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् । कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽशुकम् ॥ २७३ ॥ किंच, सरीसृपेषु व्यापादितेषु अयोमयो दण्डस्तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात्, पलालभारं वा । 'पण्डकं हत्वा पलालभारं त्रपु सीसकं वा दद्यात्' इति स्मृत्यन्तरदर्शनात् । यद्यपि 'पण्डको लिङ्गहीनः स्यात्संस्कारार्हश्च नैव सः' इति देवलवचनेन सामा- न्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस्तथापि न गोब्राह्मणरूपस्येह विवक्षा; गोब्राह्मण- वधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः, लिङ्गविरहिणि च पण्डे जातिसमवायाविशे- षात्तन्निमित्तमेव लघुप्रायश्चित्तमुक्तम् । तस्मान्मृगपक्षिण एव विवक्षिताः । मृग- पक्षिसमभिव्याहाराच्च कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातितेऽंशुकं वस्त्रं देयम् । तथा च मनुः (११।११३)— 'अस्थि कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैव माषकम् ॥' इति ॥ २७३ ॥ भाषा-साँप मारने पर नुकीली लोहे की छड़ी, पण्डक (नपुंसक पशु-पक्षी) को मारने पर पीतल और सीसा, सूअर मारने पर एक घड़ा घी, ऊँट मारने पर गुञ्जा और घोड़ा मारने पर वस्त्र का दान देना चाहिए ॥ २७३ ॥ १. क्रव्यादे तु वत्सिकाम् । २. बकादयः ।
प्रायश्चित्ताध्यायः ५७३ तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ २७४ ॥ किंच, तित्तिरौ पतत्त्रिणि व्यापादिते तिलद्रोणं दद्यात् । 'द्रोण'शब्दश्च परिमाणविशेषवचनः । 'अष्टमुष्टि भवेत्किंचिर्किंचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद् द्रोण इत्येतन्मानलक्षणम् ॥' इति स्मरणात् ॥ पूर्वोक्तानां गजादीनां व्यापाइने निर्धनत्वेन नीलवृषपञ्चकादि- दानं कर्तुमशक्नुवन् प्रत्येकं कृच्छ्रं चरेद्विशुद्ध्यर्थम् । 'कृच्छ्र'शब्दश्चात्र लक्षणया क्लेशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दर्शितानि (१९।१७- १९ )—'संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडह- स्त्र्यहोऽहोरात्र इति कालः । एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसि गुरुणि गुरूणि लघुनि लघूनि' इति । यदि 'कृच्छ्र'शब्देन मुख्योऽर्थो गृह्यते, तर्हि गजे शुके वा विशेषेण प्राजापत्य एव स्यात् । नच तद्युक्तम्; तपोमात्रपरत्वे तु दान- गुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश्च गजे द्विमासिकं यावकाशनं शुके तूपवास इति । एवमन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ २७४ ॥ भाषा—तित्तिर पक्षी को मारने पर एक द्रोण तिल का दान करे हाथी का वध करने पर पाँच नीलवृषों का दान न कर सकने पर शुद्धि के लिए एक कृच्छ्र व्रत करे ॥ २७४ ॥ किंचाह— फलपुष्पान्नरसजसत्त्वघाते घृताशनम् । उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तासवत्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धि- साधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते; प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वमङ्गिरसे 'प्रायश्चित्त'पदनिर्वचनव्याजेन— 'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' इति ॥ प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुमशक्यत्वात्सामान्येन प्राय- श्चित्तमाह— किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ २७५ ॥ अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित्स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके श्वेकः प्राणायामः । तत्र किंचिदिति यदा हिरण्यं दीयते तदा पणमात्रम् ; 'अस्थिमतां वधे पणो देयः' इति सुमन्तु-
५७४ याज्ञवल्क्यस्मृतिः स्मरणात् । यदा तु धान्यं देयं तदाऽल्पसृष्टि देयम् ; 'अल्पसृष्टि भवेत्किंचित्' इति स्मरणात् । - एतच्चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः श्रूयते, तत्र स एव भवति; यथाह पराशरः- 'हंससारसचक्राह्वकौञ्चकुक्कुट- घातकः । मयूरमेषौ हत्वा च एकभक्तेन शुद्ध्यति ॥ मद्गुं च टिट्टिभं चैव शुकं पारावतं तथा । भाडिकां च बकं हत्वा शुद्ध्येद्वै नक्तभोजनात् ॥ चाषकाक- कपोतानां सारीतित्तिरघातकः । अन्तर्जले उभे संध्ये प्राणायामेन शुद्ध्यति ॥ गृध्रश्येनविहङ्गानामुलूकस्य च घातकः । अपकाशी दिनं तिष्ठेद् द्वौ कालौ मारु- ताशनः ॥ हत्वा मूषिकमार्जारसर्पाजगरडुण्डुभान् । प्रत्येकं भोजयेद्विप्रांल्लोह- दण्डश्च दक्षिणा ॥ सेधाकच्छपगोधानां शशशल्यकघातकः । वृन्ताकफलगुग्वाशी अहोरात्रेण शुद्ध्यति ॥ मृगरोहिवराहाणामविकाबस्तघातने । वृकजम्बूकऋक्षाणां तरक्षूणां च घातकः ॥ तिलप्रस्थं त्वसौ दद्याद्वायुभक्षो दिनत्रयम् । गजमेषतुर- ङ्गोष्ट्रगवयानां निपातने ॥ प्रायश्चित्तमहोरात्रं त्रिसंध्यं चावगाहनम् । खरवा- नरसिंहानां चित्रकव्याघ्रघातकः ॥ शुद्धिमेति त्रिरात्रेण ब्राह्मणानां च भोजनैः ॥' इति ॥ एवमन्येषामपि स्मृतिवचसां देशकालाद्यपेक्षया विषयव्यवस्था कल्प- नीया ॥ २७५ ॥ भाषा-फल, फूल, अन्न और रस में पड़े हुए (उत्पन्न हुए) क्षुद्र जीवों को मारने पर घी खाकर शुद्ध होवे । अस्थिवाले जीवों का (एक हजार से कम संख्या में) वध करने पर कुछ धान्य, सोना आदि का दान देना चाहिए, बिना अस्थिवाले जीवों को मारने पर एक प्राणायाम करे ॥ २७५ ॥ इति हिंसाप्रायश्चित्तप्रकरणम् । 'इन्धनार्थं द्रुमच्छेद' (प्रा० २४०) इत्युपपातकोद्देशे पठितं, हिंसाप्र- सङ्गलोभेन तद्व्युत्क्रमपठितमप्यपकृष्य तत्र प्रायश्चित्तमाह- ^३वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् । स्यादोषधिवृथाच्छेदे क्षीराशी गोऽनुगो दिनम् ॥ २७६ ॥ फलदानां आम्रपनसादीनां च वृक्षाणां गुल्मादीनां च यज्ञाद्यदृष्टार्थं विना छेदने ऋचां गायत्र्यादीनां शतं जप्यव्यम् । ओषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्नमवगर्गावां परिचर्यामनुगम्यान्ते क्षीरं पिबेदाहारान्तर- परित्यागेन । पञ्चयज्ञार्थं तु न दोषः । एतच्च फलादिद्वारेणोपयोगिषु द्रष्टव्यम् । (मनुः ११।१४२)-'फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्ली- १. कुसरं भोजयेत् । २. शशशल्यक । ३. वृक्षगुल्मलतानां च च्छेदने ।
लतानां च पुष्पितानां च वीरुधाम् ॥' इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणा- ङ्गभूतहलाद्यर्थत्वे न दोषः । 'फलपुष्पोपगान्पादपांश्च हिंस्यात्कर्षणार्थं चोपह- न्यात्' इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद्दण्डाधिक्यं तत्र प्रायश्चित्ता- धिक्यमपि कल्पनीयम् । तदुक्तम्—'चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥' इति ।-अयं च ऋक्शतजपो द्विजातिविषयः, न पुनः शूद्रादिविषयः; तेषां जपेऽनधिकारात् । अतस्तेषां दण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थ- क्यपरिहारार्थमुपपातकासाधारणप्रायश्चित्तमप्यत्र भवति । तच्च गुरुत्वादभ्यास- विषयं कल्प्यम् ॥ २७६ ॥ भाषा—( बिना यज्ञ कार्य के ) वृक्ष, गुल्म, लता और विरवा काटने पर गायत्री आदि ऋचा का सौ बार जप करे । ओषधियों ( वनस्पतियों ) को निष्प्रयोजन काटने पर दिन भर दूध पीकर रहे और गाय की सेवा करे ॥ २७६ ॥ पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात्तद्दंशनिमित्तं प्रायश्चित्तमाह— पुंश्चलीवानरखरैर्दष्टैर्श्वोष्ट्रादिवायसैः । प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ २७७ ॥ पुंश्चल्यादयः प्रसिद्धाः, एतैर्दष्टः पुमानन्तर्जले प्राणायामं कृत्वा घृतं प्राश्य विशुध्यति । 'आदि'ग्रहणाच्छृगालादीनां ग्रहणम् । तथाह मनुः (११।- १९९)—'श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहेश्च प्राणा- यामेन शुध्यति ॥' इति । अयं च घृतप्राशो भोजनप्रत्याम्नायो द्रष्टव्यः; प्रायश्चि- त्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । -एतदशक्तविषयम् ; 'श्वसृगालमृगम- हिषाजाविकखरकरभनकुलमार्जारॅमूषकप्लवककाकपुरुषदष्टानामापोहिष्ठेत्यादिभिः स्नानं प्राणायामत्रयं च ॥' इति यत् सुमन्तुवचनं, तन्नाभेरधःप्रदेश ईषद्वष्टविष- यम् । यच्चाङ्गिरोवचनम्—'ब्रह्मचारी शुना दष्टस्त्र्यहं सायं पिबेत्पयः । गृहस्थश्चेद् द्विरात्रं तु एकाहं योऽग्निहोत्रवान् ॥ नाभेरुर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् । स्यादेतत्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥' इति, -तत्सम्यग्दष्टविषयम् । क्षत्रिय- वैश्ययोस्तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु—'शूद्राणां चोपवासेन शुद्धि- र्दानेन वा पुनः । गां वा दद्याद् वृषं चैकं ब्राह्मणाय विशुद्धये ॥' इति बृहदङ्गिर- सोक्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्-'ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्र- गाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥' (२३।३१) इति, -तदुत्तमाङ्ग- १. दण्डानुसारात् । २. साधारणप्राप्तं प्रायश्चित्तं । ३. दष्ट- रक्षोष्ट्रादि । ४. मूषिकाप्लव । ५. विशुष्यति ।
५७६ याज्ञवल्क्यस्मृतिः दंशविषयम् ॥ स्त्रीणां तु—'ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा । उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥' इति पराशरोक्तं द्रष्टव्यम् । कृच्छ्रादिव्रत- स्थायाः पुनस्तेनैव विशेषो दर्शितः—'त्रिरात्रमेवोपवसेत्छुना दष्टा तु ^१सुव्रता । सघृतं यावकं भुक्त्वा व्रतशेषं समापयेत् ॥' इति ॥ रजस्वलायामपि विशेषः पुलस्त्येन दर्शितः—'रजस्वला यदा दष्टा शुना जम्बुकरासभैः । पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥ ऊर्ध्वं तु द्विगुणं नाभेर्वक्त्रे तु त्रिगुणं तथा । चतुर्गुणं स्मृतं मूर्ध्नि दष्टेऽन्यत्राप्लुतिर्भवेत् ॥' इति । अन्यत्राऽरजस्वला- वस्थायाम् । यस्तु श्वादिभिर्घाणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः—'शुना घ्रातावलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं शौचमग्निना चोपकूलनम्' इति । उपकूलनं तापनम् ॥ यदा तु श्वादिदंश- शस्त्राघातादिजनितव्रणे कृमय उत्पद्यन्ते तदा मनुना विशेष उक्तः—'ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरीषेण त्रिसंध्यं स्नानमाचरेत् । त्रिरात्रं पञ्चगव्याशी त्वधोनाभ्या विशु- ध्यति ॥ नाभिकण्ठान्तरोद्भूते व्रणे चोत्पद्यते कृमिः । षड्रात्रं तु व्यहं पञ्चगव्या- शनमिति स्मृतम् ॥' तत्र श्वादिदंशव्रणे तद्दंशप्रायश्चित्तानन्तरमिदं कर्तव्यम् । शस्त्रादिजनितव्रणे त्वेतदेव, त्र्यहं पञ्चगव्याशनादिकमिति शेषः । क्षत्रियादिषु तु प्रतिवर्णं पादपादह्रासः कल्पनीयः ॥ २७७ ॥ भाषा—व्यभिचारिणी स्त्री, बन्दर, गदहा, ऊँट, घोड़ा (सियार आदि), कौआ द्वारा दाँत या चोंच से काटे जाने पर जल में खड़ा होकर प्राणायाम करने और घी खाने पर शुद्धि होती है ॥ २७७ ॥ शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच्छारीरचरमधातुविच्छेदकस्कन्द- ने प्रायश्चित्तमाह— यन्मेऽद्य रेत इँत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् । स्तनान्तरं ^४भ्रुवोर्मध्यं तेनाऽनामिकया स्पृशेत् ॥ २७८ ॥ यदि कथंचिच्छ्रीसंभोगमन्तरेणापि हठाच्चरमधातुर्विसृष्टस्तदा तत्स्कन्नं रेतो 'यन्मेऽद्य रेत: पृथिवीं', 'पुनर्मामैत्विन्द्रियम्' इत्याभ्यां मन्त्राभ्यामभिमन्त्र- येत् । तेन चाभिमन्त्रितेन रेतसा स्तनयोर्भुवोश्च मध्यमुपकनिष्ठिकया स्पृशेत् ॥ अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्ययोग्यत्वात्तेनेत्य- नामिकासहचर्यात्स्वबुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेति १. सव्रता । २. चोपचूलनं । ३. षड्रात्रं च तदा प्रोक्तं प्राजापत्यं विशो- धनं । ४. एताभ्यां स्कन्नं रेतोऽनुमन्त्रयेत् । ५. भ्रुवोर्वाऽपि तथा नामिकया ।
प्रायश्चित्त्याध्यायः ५७७ 'अङ्गुष्ठ'पदग्रहणे वृत्तभङ्गप्रसङ्गेनेति निर्दिष्टमिति,-तदसत्; अङ्गुष्ठस्यानुबुद्धिस्थ- त्वात् । नच शब्दसंनिहितपरित्यागेनार्थाद् बुद्धिस्यस्यान्वयो युक्तः । तदुक्तम्- 'गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतोतिवत् ॥' इति । नच रेतसोऽशुचित्वेन स्पर्शायोग्यत्वम् । विधानादेव प्रायश्चित्तार्थरूपस्पर्शे योग्यत्वमवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च प्रायश्चित्तं गृहस्थस्यैवाकामतः स्कन्नविषयम् । ब्रह्मचारिणः स्वप्ने जागरणा- वस्थायां च गुरुप्रायश्चित्तस्य दर्शनात् । यत्तु यमवचनम्—'गृहस्थः कामतः कुर्याद्रेतः स्कन्दनं भुवि । सहस्रं तु जपेद् देव्यः प्राणायामैस्त्रिभिः सह ॥' इति,- तत्कामकारविषयम् ॥ २७८ ॥ भाषा—( स्वप्नदोष होने पर ) 'यन्मेऽद्य रेतः पृथिवीमसकन् पुनर्मामै- स्विन्द्रियम्' इन मंत्रों से वीर्य का अभिमन्त्रण करे और उससे दोनों छाती, और दोनों भौंहों के मध्यभाग का कनिष्ठिका अँगुली द्वारा स्पर्श करे ॥ २७८ ॥ मयि तेज इति च्छायां स्वां २दृष्ट्वाऽम्बुगतां जपेत् । सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ २७९ ॥ किंच, स्वीयं प्रतिबिम्बमम्बुगतं दृष्टं चेत् तदा 'मयि तेज इन्द्रियम्' इतीमं मन्त्रं जपेत् । अशुचिद्रव्यदर्शने पुनः सावित्रीं सवितृदेवत्यां 'तत्सवितुः' इत्यादिकामृचं जपेत् । तथा वाक्पाणिपादादिचापल्यकरणे तामेव जपेत्, अनृ- तवचने च ।-एतत्कामकारे द्रष्टव्यम् ; अकामकृते तु 'सुप्त्वा भुक्त्वा च क्षुत्वा च निष्ठीव्योक्त्वाऽनृतानि च । पीत्वाऽपोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति मनूक्तमाचमनं द्रष्टव्यम् ॥ यत्तु संवर्तवचनम्—'क्षुते निष्ठीवने चैव दन्त- श्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥' इति,-तदल्पप्र- योजने जलाभावे वा द्रष्टव्यम् ॥ स्त्रीशूद्रविट्क्षत्रवधानन्तरं 'निन्दिताथोपजीवनं' पठितं, तत्र च मनुयोगीश्वरप्रोक्तान्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया वेदितव्यानि । नास्तिक्येऽपि तानि प्रायश्चित्तानि तथैव प्रयोध्यानि, 'नास्तिक्य'- शब्देन च वेदादिनिन्दनं तेन जीवनमुच्यते; तत्रोभयत्रापि वसिष्ठेन प्रायश्चित्ता- न्तरमप्युक्तम्—'नास्तिकः कृच्छ्रं द्वादशरात्रं चरित्वा विरमेन्नास्तिकायान्नास्तिक- वृत्तिस्त्वतिकृच्छ्रम्' (२१।२९) इति ।-एतच्च सकृत्करणविषयम् । उपपातकप्राय- श्चित्तान्यभ्यासविषयाणि । यच्च शङ्खनोक्तम्—'नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी मिथ्याभिशंसी इत्येते पञ्चसंवत्सरं ब्राह्मणगृहे भैक्षं चरेयुः' इति । १. वक्ष्यमाणत्वात् । २. दृष्ट्वाऽम्बुनि वै जपेत् । ३. चापले वाऽनृ- तेऽपि च । ४. निष्ठीविते ।
५७८ याज्ञवल्क्यस्मृतिः यच्च हारीतेन - 'नास्तिको नास्तिकवृत्तिः' इति प्रक्रम्य 'पञ्चतपोऽश्रावकाशजल- शयनान्यनुतिष्ठेयुग्रीष्मवर्षाहेमन्तेषु' इति,-तदुभयमप्यन्ताभिनिवेशेन बहुकाला- भ्यासविषयम् ॥ २७९ ॥ भाषा—जल में पड़ी हुई अपनी छाया को देख कर 'मयि तेज इन्द्रियम्' मन्त्र का जप करे; अपवित्र मनुष्य को देखने पर, (वाणी, हाथ, पैर आदि की) चपलता करने पर और असत्यभाषण करने पर गायत्री का जप करे ॥ २७९ ॥ नास्तिक्यानन्तरं 'व्रतलोपश्च' इत्युक्तं, तत्रावकीर्णस्याप्रसिद्धत्वात्तल्लक्षण- कथनपूर्वकं प्रायश्चित्तमाह— अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैर्ऋतं स विशुध्यति ॥ २८० ॥ ब्रह्मचार्यपुकुर्वाणको नैष्ठिकश्चासौ योषितं गत्वाऽवकीर्णी भवति । चरमधातोर्विसर्गोऽवकीर्णं तदस्यास्ति सोऽवकीर्णी, स निर्ऋतिदैवत्येन गर्द- भपशुना यागं कृत्वा विशुध्यति । गर्दभस्य पशुत्वे सिद्धेऽपि पुनः 'पशु'ग्रहणं 'अथ पशुकल्पः' (१।११।१) इत्याश्वलायनादिगृह्योक्तपशुधर्मप्राप्त्यर्थम् । एतच्चारण्ये चतुष्पथे लौकिकेऽग्नौ कार्यम् । 'ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिके- ऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत' (२३।१) इति वसिष्ठस्मरणात् ॥ तथा रात्रावेकाक्षिविकलेन यष्टव्यम् । तथा च मनुः (११।११८)—'अवकीर्णी तु काणेन रासभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥' इति । पशोरभावे चरुणा यष्टव्यम् । 'निर्ऋतिं वा चरुं निर्वपेत् तस्य जुहुयात्-कामाय स्वाहा, कामकामाय स्वाहा, निर्ऋत्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा' (२३।२।३) इति वसिष्ठस्मरणात् । - एतच्चाशक्तविषयम् । शक्तस्य पुनर्गर्दभेनावकीर्णी निर्ऋतिं चतुष्पथे यजेत् । 'तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान् भैक्षं चरेत्कर्माचक्षाणः संवत्सरेण शुध्यति' (२३।१७-१९) इति गौतमोक्तो वार्षिक- तपःसमुचितः पशुयागश्चरुर्वा द्रष्टव्यः । तथा त्रिषवणस्नानमेककालभोजनं च द्रष्टव्यम् । (११।१२२-१२३)—'एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालि- कम् । उदस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥' इति मनुस्मरणात् ॥ इदं च वार्षिकमश्रोत्रियब्राह्मपत्न्यां वैश्यायां श्रोत्रियपत्न्यां च द्रष्टव्यम् ॥ - यदा तु गुण- वत्योर्ब्राह्मणीक्षत्रिययोः श्रोत्रियभार्ययोरवकिरति तदा त्रिवार्षिकं द्विवार्षिकं च क्रमेण योज्यम् ॥ यथाहतुः शङ्खलिखितौ—'गुप्तायां वैश्यायामवकीर्णः संवत्सरं
त्रिषवणमनुतिष्ठेत् । क्षत्रियायां तु द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणि' इति । शङ्ख- लिरोवचनम् — 'अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् । चीरवासास्तु षण्मासां- स्तथा मुच्येत किल्बिषात् ॥' इति,-तदकामतो मानवादिकविषयमीषद्व्यभि- चारिणीविषयं वा ॥ अत्यन्तव्यभिचारितासु पुनः 'स्वैरिण्यां वृषल्यामवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भो- जयेत्, यवसंभारं च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रमुपोषितो गां च दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्णः पलालभारं सोसमाषकं च दद्यात्' इति शङ्खलिखितोदितं वेदि- तव्यम् । एतच्चावकीर्णिप्रायश्चित्तं त्रैवर्णिकस्यापि ब्रह्मचारिणः समानम् । 'अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु । इष्ट्वा भैक्षाशिनो नित्यं शुद्ध्यन्त्यब्दात्समा- हिताः ॥' इति शाण्डिल्यस्मरणात् । यदा स्त्रीसंभोगमन्तरेण कामतश्चरमधातुं विसृजति, दिवा च स्वप्ने वा विसृजति, तदा नैर्ऋतयागमात्रं द्रष्टव्यम् ; 'एतदेव रेतसः प्रयत्नोत्सर्गे दिवा स्वप्ने च' (२३।५३) इति वसिष्ठेन यागमात्रस्यातिदिष्ट- त्वात् । व्रतान्तरेषु कृच्छ्रचान्द्रायणादिष्वतिदिष्टब्रह्मचर्येषु स्कन्दने सत्येतदेव यागमात्रम् । व्रतान्तरेषु चैव'मिति तेनैवातिदिष्टत्वात् । स्वप्नस्कन्दने तु मनूक्तं द्रष्टव्यम् (२।१८१) — 'स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वा- र्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥' इति । वानप्रस्थादीनां चेदमेव ब्रह्मचर्य- खण्डने अवकीर्णिव्रतं कृच्छ्रत्रयाधिकं भवति; 'वानप्रस्थो यतिश्चैव स्कन्दने सति कामतः । पराकत्रयसंयुक्तमवकीर्णी व्रतं चरेत् ॥' इति शाण्डिल्यस्मरणात् ॥ यद्वा गार्हस्थ्यपरिग्रहेण संन्यासात्प्रच्युतो भवति तदा संवर्तोक्तं द्रष्टव्यम्; 'संन्यस्य दुर्मतिः कश्चित्प्रत्यापत्तिं व्रजेद्यदि । स कुर्यात्कृच्छ्रमश्रान्तः षण्मासान्प्रस्थनन्त- रम् ॥' इति । प्रत्यापत्तिर्गाह्स्थ्यंपरिग्रहः। अत एव वसिष्ठः — 'यस्तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥' इति । तथा च पराशरः — 'यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनि- वृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥ स चरेत्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात्' ॥ तत्र ब्राह्मणस्य षाण्मासिकः कृच्छ्रः पुनः संन्याससंस्कारश्च क्षत्रियस्य चान्द्रायणत्रयम् । वैश्यस्य कृच्छ्रत्रय- मिति व्यवस्था । अथवा ब्राह्मणस्यैव शक्तिसकृदभ्यासाद्यपेक्षया व्यवस्थितं प्रायश्चित्तत्रयं द्रष्टव्यम् ॥ ( 'चितिभ्रष्टा तु या नारी मोहाद्विचलिता क्वचित् । प्राजापत्येन शुद्ध्येत्तु तस्मादेवापकर्मणः ॥' चितिभ्रष्टा भर्तुरनुगमने आपस्तम्ब- स्मरणात् क्वचिदित्युक्तम् । ) तथा मरणसंन्यासिनामपि यमेन प्रायश्चित्तमुक्तम्-
१. गार्हस्थ्यलम्बनः परिग्रहः । २. अयं धनुश्चिह्नगो भागोऽधिकः । ३७ या०
[५८०] याज्ञवल्क्यस्मृतिः
'जलान्युद्बन्धनभ्रष्टाः प्रब्रज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥ नैव ते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुद्ध्यन्ति तस- त्कृच्छ्रद्वयेन वा ॥' इति ॥ इदं च चान्द्रायणं तप्तकृच्छ्रद्वयात्मकं प्रायश्चित्तद्वयं शक्त्यपेक्षया व्यवस्थितं विज्ञेयम् । यदा तु 'शस्त्रघातहताश्च' इति पाठः, तदात्मत्यागयशास्त्रीयमरणनिमित्तस्तत्पुत्रादेरुपदेशो द्रष्टव्यः ॥ यत्पुनर्वासिष्ठेनो- क्तम्- 'जीवन्नात्मत्यागी कृच्छ्रं द्वादशरात्रं चरेत् , त्रिरात्रं चोपवसेत्' (२३।१२) इति,-तदप्यध्यवसिताशास्त्रीयमरणस्यैव कथंचिज्जीवने शक्त्यपेक्षया द्रष्टव्यम् । अथवा-अध्यवसायमात्रे त्रिरात्रं, शस्त्रादिक्षतस्य द्वादशरात्रमिति व्यवस्था । इदं चावकीर्णिप्रायश्चित्तं गुरुदारतत्समव्यतिरिक्तागम्यागमनविषयम् । तत्र गुरुतर- प्रायश्चित्तस्य दर्शितत्वात् । नच लघुनाऽवकीर्णिब्रतेन द्वादशवार्षिकाद्यपनोद्यमहा- पातकदोषनिबर्हणमुचितम् । नच ब्रह्मचारित्वोपाधिकं लघुप्रायश्चित्तविधानमिति युक्तम्; आश्रमान्तराणां द्वैगुण्यादिवृद्धेर्ब्रह्महत्याप्रकरणे दर्शितत्वात् । न चात्रा- गम्यागमनप्रायश्चित्तं पृथक्कर्तव्यम् ; ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्या- गम्यागमनेनान्तरीयकत्वात् , अतोऽन्यत्रापि यस्मिन्निमित्ते यन्निमित्तान्तरं समं न्यूनं वाऽवश्यंभाविनाः । तत् पृथक् नैमित्तिकं प्रयुङ्क्ते । यथा (मनुः ११।२०८)- 'अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तर- शोणिते ॥' इत्यत्र शोणितोत्पादननिमित्तेऽवंगूरणनिपातलक्षणं निमित्तद्वयमव- श्यंभावित्वेन स्वनैमित्तिकं कृच्छ्रमतिकृच्छ्रं च न प्रयुङ्क्ते, एवमन्यत्राप्यूहनी- यम् । यत्र पुनर्निमित्तानामन्तर्भावनियमो नास्ति, तत्र पुनर्नैमित्तिकानि पृथक्प्रयुज्यन्ते । निमित्तानि यथा-'यदा पर्वणि परभार्यां रजस्वलां तैला- भ्यक्तो दिवा जले गच्छति' इति ॥ ननु ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलन- स्यागमनान्तरीयकतत्वं नास्त्येव; पुत्रिकागमनेऽगम्यागमनदोषाभावात् । तथा हि- न तावत्पुत्रिका कन्या; अक्षतयोनित्वात् , नापि परभार्या; प्रदाना- भावात् , नापि वेश्या; अतद्वृत्तित्वात् , नापि विधवा; भर्तृमरणाभावात् , अतः पुत्रिकायाः क्वाप्यनन्तर्भावादप्रतिषिद्धेति तत्रैव विप्लुतस्य केवलमव- कीर्णिब्रतम् । अन्यत्र विप्लुतस्य तु निमित्तान्तरसंनिपातादवकीर्णिब्रतं नैमि- त्तिकान्तरमपि प्रयोक्तव्यमिति,-तदसत् ; पुत्रिकाया अपि परभार्यास्वान्त- र्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाह- परिणीतावत् । नच 'यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । नोपय- च्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थत्वात् प्रतिषेधस्य व्यङ्गाङ्ग्यादिप्रतिषेधवत । दृष्टार्थत्वं
१. आविभ्रस्तत्र । २. अवगोरेण । ३. प्रयुक्तं अतः पृथ ।
प्रायश्चित्ताध्यायः ५८१ च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं, अपि तु धर्मार्थ- मपि, अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थं पुत्रिकापरिणयने को विरोधः ? प्रपञ्चितं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद् ब्रह्मचारिणो योषित् ब्रह्म- चर्यस्खलनस्यागम्यागमनान्तरीयकत्वाच्च पृथङ्नैमित्तिकं प्रयोक्तव्यमिति सुष्ठू- क्तम् ॥ २८० ॥ भाषा—ब्रह्मचारी किसी स्त्री का भोग करने पर अवकीर्णी हो जाता है, वह निर्ऋति देवता के लिए गदहे द्वारा पशुयज्ञ करने पर शुद्ध होता है ॥ २८० ॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह— भैक्षाग्निकार्यं त्यक्त्वा तु सप्तरात्रमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ २८१ ॥ उपस्थानं ततः कुर्यात्सं मा सिञ्चन्त्वनेन तु । यस्त्वनातुर एव ब्रह्मचारी निरन्तरं सप्तरात्रं भैक्षमग्निकार्यं वा त्यजति असौ 'कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपन्नोऽस्म्य- वपन्नोऽस्मि कामकामाय स्वाहा' इत्येताभ्यां मन्त्राभ्यामाहुती हुत्वा 'सं मा सिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । समायमग्नि सिञ्चन्तां यशसा ब्रह्म- वर्चसेन ॥' इत्थनेन मन्त्रेणाग्निमुपतिष्ठेत ॥ एतच्च गुरुपरिचर्यादिगुरुतरकार्य- व्यग्रतया अकरणे द्रष्टव्यम् । यदा स्वस्थ्य एवोभे भैक्षाग्निकार्ये त्यजति, तदा 'अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अना तुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥' ( मनु० २।१८७ ) इति मानवं द्रष्टव्यम् ॥ यज्ञोपवीतविनाशे तु हार्गतेन प्रायश्चित्तमुक्तम्—'मनोव्रतपतिभिश्चतस्र आज्याहुतीर्हुत्वा पुनर्यथार्थं प्रतीयादसद्ब्रैत्तभोजनेऽभ्युदितेऽभिनिर्मुक्ते वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नग्न- स्वापे श्मशानमाक्रम्य हयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादग्नि- समिन्धने स्थावरसरीसृपादीनां वधे “यदद्देवादेवहेडनम्” इति कूष्माण्डीभिराड्यं जुहुयात् , मणिवींसोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । मनो- व्रतपतिभिरिति मनो ज्योतिरित्यादिमनोलिङ्गाभिः 'त्वमग्ने व्रतपा असि' इत्यादिव्रतलिङ्गाभिरित्यर्थः । यथार्थं प्रतीयादिति, उपनयनोक्तमार्गेण समन्त्रकं गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु—'ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति ॥' इति मरीच्युक्तं द्रष्टव्यम् ॥ २८१३ ॥ १. हुत्वा चाऽऽयाहु द्वयम् । उपस्थानद्वयं कुर्यात् । २. समायमग्नि । ३ हयादीनारुह्य । वासो गृहादीनां ।