याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 628, कुल 782 में से
संदर्भ में पढ़ें५७२ याज्ञवल्क्यस्मृतिः हंसश्येनक पिकव्या जलस्थल शिखण्डिनः । भासं च हत्वा दद्याद् गामक्रव्यादास्तु वत्सिकाम् ॥२७२॥ किंच, क्रव्यमपक्वं मांसमत्तीति क्रव्याद् व्याघ्रसृगालादिर्मृगविशेषः वानर- साहचर्यात् , तथा हंसश्येनसमभिव्याहारात् कङ्कगृध्रादिः पक्षिविशेषश्च गृह्यते; 'जल'शब्देन जलचरा बकादयो गृह्यन्ते; 'स्थल'शब्देन स्थलचरा बेलाकादयः, शिखण्डी मयूरः; भासः पक्षिविशेषः, शेषाः प्रसिद्धाः, एषां प्रत्येकं वधे गामेकां दद्यात् । अक्रव्यादस्तु हरिणादिमृगान् खञ्जरीटादिपक्षिविशेषान्दृत्वा वत्सतरीं दद्यात् । तथा च मनुः (११।१३५-१३७)—'हत्वा हंसं वलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ क्रव्यादस्तु मृगान्दृत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादो वत्सतरीमुष्ट्रं हत्वा तु कृष्ण- लम् ॥' इति ॥ २७२ ॥ भाषा-हंस, बाज, बन्दर एवं मांसभोजी-व्याघ्र, स्यार आदि तथा कंक, गृध्र, आदि एवं जल-चर बगुला तथा स्थलचर (बलाका आदि), मयूर, भास आदि पशु-पक्षी के वध हो जाने पर एक गौ का दान करे । और मांस नहीं खाने वाले हरिण आदि तथा खंजरीट आदि पक्षियों के वध हो जाने पर एक बछिया का दान करे ॥ २७२ ॥ उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् । कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽशुकम् ॥ २७३ ॥ किंच, सरीसृपेषु व्यापादितेषु अयोमयो दण्डस्तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात्, पलालभारं वा । 'पण्डकं हत्वा पलालभारं त्रपु सीसकं वा दद्यात्' इति स्मृत्यन्तरदर्शनात् । यद्यपि 'पण्डको लिङ्गहीनः स्यात्संस्कारार्हश्च नैव सः' इति देवलवचनेन सामा- न्येनैव स्त्रीपुंलिङ्गरहितो निर्दिष्टस्तथापि न गोब्राह्मणरूपस्येह विवक्षा; गोब्राह्मण- वधनिषेधस्य जात्यवच्छेदेन प्रवृत्तेः, लिङ्गविरहिणि च पण्डे जातिसमवायाविशे- षात्तन्निमित्तमेव लघुप्रायश्चित्तमुक्तम् । तस्मान्मृगपक्षिण एव विवक्षिताः । मृग- पक्षिसमभिव्याहाराच्च कोले सूकरे व्यापादिते घृतकुम्भो देयः । उष्ट्रे गुञ्जा देया । वाजिनि विनिपातितेऽंशुकं वस्त्रं देयम् । तथा च मनुः (११।११३)— 'अस्थि कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैव माषकम् ॥' इति ॥ २७३ ॥ भाषा-साँप मारने पर नुकीली लोहे की छड़ी, पण्डक (नपुंसक पशु-पक्षी) को मारने पर पीतल और सीसा, सूअर मारने पर एक घड़ा घी, ऊँट मारने पर गुञ्जा और घोड़ा मारने पर वस्त्र का दान देना चाहिए ॥ २७३ ॥ १. क्रव्यादे तु वत्सिकाम् । २. बकादयः ।