याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 624, कुल 782 में से
संदर्भ में पढ़ें[Page-header: ५६८ याज्ञवल्क्यस्मृतिः]
हितानां च तत्सर्वं वृत्तमुच्यते ॥' इति मनुस्मरणात् । यत्तु वृद्धहारीतवचनम्- 'ब्राह्मणः क्षत्रियं हत्वा षड्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिकं द्विजः ॥ शूद्रं हत्वा चरेद्वर्षं वृषभैकादशाश्च गाः ॥' इति, -तत्कामकारविषयम् । श्रोत्रियक्षत्रियादिवधे तु-'तुरीयोऽनं क्षत्रियस्य वधे ब्रह्महणि व्रतम् । अर्धं वैश्य- वधे कुर्यात्तुरीयं वृषलस्य तु ॥' इति वृद्धहारीतोक्तं द्रष्टव्यम् । यत्तु वसिष्ठव- चनम्-'ब्राह्मणो राजन्यं हत्वाऽष्टौ वर्षाणि व्रतं चरेत् , षड् वैश्यं, त्रीणि शूद्रम्' इति,-तदपि हारीतीयेन समानविषयम् । क्षत्रिये त्वीषद्गुणन्यून इत्येतावान् विशेषः । यदा तु श्रोत्रियो वृत्तस्थश्च भवति तदा-'पूर्वयोर्वर्णयोर्वेदाध्यायिनं हत्वा' ( ध० १।२४।६ ) इत्यापस्तम्बोक्तं द्वादशवार्षिकं द्रष्टव्यम् । प्रारब्धयागे त्वश्रोत्रिये क्षत्रियादौ व्यापादिते 'यागस्थक्षत्रविट्घाती चरेद् ब्रह्महणि व्रतम्' इति द्रष्टव्यम् । श्रोत्रिये पुनर्यागस्थे क्षत्रियादौ 'ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश्च गा दद्यात् , वैश्यवधे त्रिवार्षि- कमृषभैकशताश्च गा दद्यात् , शूद्रवधे सांवत्सरिकमृषभैकादशाश्च गा दद्यात्' ( २२।१४-१६ ) इति गौतमोक्तो दानतपसोः समुच्चयो द्रष्टव्यः । एतच्चामति- पूर्वविषयम् । 'पूर्ववदमतिपूर्वे चतुर्षु वर्णेषु प्रमाध्य द्वादश षट् त्रीन् संवत्सरं च व्रतान्यादिशेत्, तेषामन्ते गोसहस्रं च ततोऽर्धं तस्यार्धमर्धं च दद्यात्; सर्वेषामा- नुपूर्व्येण'इति स्मरणात् । इदं च द्वादशवार्षिकं गौतमीयविषयमेव, किंचिन्न्यूनगु- णे क्षत्रिये गुणाधिकयोर्वैश्यशूद्रयोश्च द्रष्टव्यम् । 'स्त्रीशूद्रविट्क्षत्रवध' इत्युपपात- कमध्ये विशेषत एव पठितत्वेनोत्सर्गापवादन्यायगोचरत्वादुपपातकसामान्यप्राप्ता- न्यपि प्रायश्चित्तान्यत्र योजनीयानि । तत्र दुर्वृत्तक्षत्रियादौ कामतो व्यापादिते मानवं त्रैमासिकं द्वैमासिकं चान्द्रायणं च वर्णक्रमेण योज्यम् । अकामतस्तु योगी- श्वरोक्तं त्रिरात्रोपवाससहितमृषभैकादशगोदानं मासं पञ्चगव्याशनं मासिकं च पयोव्रतं यथाक्रमेण योज्यम् । एतच्च प्रागुक्तं व्रतजातं ब्राह्मणकर्तृके क्षत्रियादिवधे द्रष्टव्यम् ।-'अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । तथा ब्राह्मणराजन्यवधे षड्वार्षिकं तथा ॥ ब्राह्मणः क्षत्रियं हत्वा' ( ११।१२७ ) इत्यादिषु मनुगौतम- हारीतवसिष्ठवाक्येषु 'ब्राह्मण'ग्रहणात् । क्षत्रियादिकर्तृके तु क्षत्रियादिवधे पादन्यूनं द्रष्टव्यम् ; 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धमेकपादस्तु शूद्रजातिषु शस्यते ॥' इति वृद्धविष्णुस्मरणात् । 'यत्तु पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षदूच्च व्रतं स्मृतम् ॥' इत्याङ्गिरोवचनं तत्प्रातिलोम्येन वाग्दण्डपारुष्यविषयमित्युक्तं गोवधप्रकरणे । मूर्धावसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति; तेषां क्षत्रियादित्वाभावात् ।
१-२. वृद्धहारीतोक्तम् ।