याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 625, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ५६६ अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तव्रतकदम्बस्य वृद्धह्रासौ कल्पनीयौ । दण्डस्य च वृद्धह्रासौ दर्शितौ—'दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः' (व्य० २०६) इत्यत्र ॥ २६६-२६७ ॥ भाषा—क्षत्रिय का वध करने पर प्रायश्चित्त कर्ता पुरुष एक साँड़ (प्रौढ़ बछवा) के साथ एक हजार गौओं का दान करे अथवा ब्रह्महत्याव्रत तीन वर्षों तक करे । वैश्य का वध करने वाला एक वर्ष तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ एक सौ गौओं का दान करे । शूद्र का वध करने वाला छै मास तक ब्रह्महत्याव्रत करे अथवा एक साँड़ के साथ नई ब्यायी दस सवत्सा गौवों का दान करे ॥ २६६-२६७ ॥ इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम् । स्त्रीवधे प्रायश्चित्तमाह— १दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ २६८ ॥ ब्राह्मणादिभार्या दुर्वृत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधार- चर्मकोशं, धनुः कार्मुकं, बस्तं छागं, अविं मेषं च, विशुद्धये दद्यात् । इदं च प्रातिलोम्येनान्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतौ वधविषयम् । कामतस्तु ब्रह्मगर्भ आह—'प्रतिकोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुर्द्विषट् ॥' इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावित्येवं यथार्हंतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं २व्यापादयति तदा किंचिद्देयम् । 'वैशिकेिन किंचित्'० (२२।२७) इति गौतमस्मरणात् । वैशि- केन वैश्यकर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच्च जलम् । 'कोशं कू- पेऽथ विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामाविकं वैश्यां हत्वा दद्याज्जलं नरः ॥' इत्यङ्गिरःस्मरणात् । यदा पुनः क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गो- वधप्रायश्चित्तानि यथार्हं योज्यानि ॥ २६८ ॥ भाषा—ब्राह्मण, क्षत्रिय, वैश्य तथा शूद्र की व्यभिचारिणी स्त्री का वध करने पर प्रायश्चित्त कर्ता यथाक्रम (वर्णानुक्रम) से जल भरने वाला चमड़े का मशक, धनुष, बकरा तथा भेड़ का दान करे ॥ २६८ ॥ १. दुर्वृत्ता ब्रह्मन्नृपविट्शूद्रयोषाः । २. व्यापादितास्तदा ।