याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 645, कुल 782 में से
संदर्भ में पढ़ेंशक्तिगुणापेक्षया योज्यानि । तत्र पितृमात्रादिष्वित्यागस्य 'अकारणे परित्यक्ता मातापित्रोगुरुस्तथा' इत्यपाङ्क्तमध्यपाठान्तन्निमित्तमपि प्रायश्चित्तं भवति । यथाह मनुः ( ११।२०० )—'षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥' इति । अपाङ्क्ताश्च श्राद्धकाण्डे 'ये स्तेनपतितक्लीबाः' इत्यादिवाक्यैर्दर्शिताः । तडागारामविक्रयेषु च कतिचिद्वि- शेषप्रायश्चित्तानि सविषयाणि सुतविक्रयप्रायश्चित्तकथनावसरे कथितानि ॥ अनन्तरं 'कन्याया दूषणम्' इत्युक्तं, तत्र च त्रैमासिकद्वैमासिकचान्द्रायणादीनि वर्णानां सवर्णविषये योज्यानि । आनुलोम्ये पुनर्मासिकपयोशनं प्राजापत्यं वा- 'सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः' ( व्य० २८८ ) इति दण्डाल्पत्व- दर्शनात् ॥ यत्तु शङ्खेनोक्तम्—'कन्यादूषी सोमविक्रयी च कृच्छ्रमब्दं व्रतं चरेयाताम्' इति, यच्च हारीतवचनम्—'कन्यादूषी सोमविक्रयी वृषलीपतिः कौमारदारत्यागी सुरामद्यपः शूद्रयाजको गुरुः प्रतिहन्ता नास्तिको नास्तिक- वृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नो मिथ्याभिशंसी पतितसंव्यवहारी मित्रध्रुक् शरणागतघाती प्रतिरूपकवृत्तिरित्येते पञ्चतपोऽवकाशाजलशयनान्य- बुत्तिष्ठेयुर्ग्रीष्मवर्षाहेमन्तेषु मासं गोमूत्रयावकमश्नीयुः इति, —तदुभयमपि क्षत्रियवैश्ययोः प्रातिलोम्येन दूषणे योज्यम् । शूद्रस्य तु वध एव । 'दूषणे तु करच्छेद उत्तमायां वधस्तथा' ( व्य० २८८ ) इति वधदर्शनात् । परिविन्दैकस्य याजनकन्याप्रदानयोः कौटिल्ये शिष्टाप्रतिषिद्धव्रतलोपे आत्मार्थपाकक्रियारम्भे मद्यपस्त्रीनिषेवणे च साधारणोपपातकप्रायश्चित्तं प्राग्वद्व्यवस्थापनीयम् । आद्य- योस्तु विशेषप्रायश्चित्तानि परिवेदनायाज्ययाजनप्रायश्चित्तकथनप्रस्तावे दर्शि- तानि । अनन्तरं 'स्वाध्यायाग्निसुतत्यागः' ( प्रा० २३९ ) इत्युक्तं, तत्र ऽवसनाद्यशक्त्या त्यागे अधीतस्य च नाशनमिति ब्रह्महत्यासमप्रायश्चित्तमुक्तम् । शास्त्रश्रवणाद्याकुलतया त्यागे तु त्रैमासिकाद्युपपातकप्रायश्चित्तानि जाँतिशक्त्य- पेक्षया योज्याँनि । यत्तु वसिष्ठेनोक्तम्—'ब्रह्मोञ्झः कृच्छ्रं द्वादशरात्रं चरित्वा- पुनरुपयुञ्जीत वेदमाचार्यात्' इति, –तदत्यन्ताल्पविषयम् । अग्निस्त्यागेऽपि तेनैव विशेषो दर्शितः—'योऽग्नीनपविध्येत्स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्' इति । 'द्वादशरात्र' ग्रहणमुत्सन्नकालापेक्षया प्राजापत्यादिगुरुलघु- कृच्छ्राणां प्राथ्यर्थम् । तत्र मासद्वये प्राजापत्यं, मासचतुष्टयेऽतिकृच्छ्रः, षण्मा- सोद्विगुन्ते पराकः, षण्मासाद्धूर्ध्वं योगीश्वरोक्तान्युपपातकसामान्यप्रायश्चित्तानि कात्यापेक्षया योज्यानि । संवत्सरादूर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकमिति
१. आद्यप्रकरणे । २. कृच्छ्रमब्दे । ३. कूटव्यवहारी मित्रध्रुक् । ४. परिविन्दुकयाजन । ५. शक्तिगुणापेक्षया । ६. व्यवस्थापनीयानि ।