भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 651, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 651

प्रायश्चित्ताध्यायः ५४५ मभक्ष्यं तु 'सप्तरात्रं यवान्पिबेत्' इति मनूक्तं द्रष्टव्यम् । इदं च विट्सूकरादिमां- सव्यतिरिक्तविषयम् ( ११।१५६ ) - 'क्रव्याद्विट्सूकराष्ट्राणां कुक्कुटानां च भक्षणे नरकाकखराश्वानां तप्तकृच्छ्रं विशोधनम् ॥' इति मनुना जातिविशेषेण प्रायश्चि- त्तविशेषस्योक्तत्वात् । एतन्मूत्रपुरीषप्राशनेऽप्येतदेव । -'वराहैकशफानां च च काककुक्कुटयोस्तथा । क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥ मांस- मूत्रपुरीषाणि प्राश्य गोमांसमेव च । श्वगोमायुकपीनां च तप्तकृच्छ्रं विधीयते ॥ उपोष्य वा द्वादशाहं कूष्माण्डैर्जुहुयाद्घृतम् ॥' इति बृहद्यमस्मरणात् । तत्र काम- तस्तप्तकृच्छ्रः, अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था ॥ तथा प्रचेत- साप्युक्तम् - 'श्वसृगालकाककुक्कुटपार्षतवानरचित्रकचाषक्रव्यादखरोष्ट्रगजवाशिवि- ड्वराहगोमानुषमांसभक्षणे तप्तकृच्छ्रमादिशेदेषां मूत्रपुरीषभक्षणे श्वतिकृच्छ्रम्' इति ।-इदं च कामकारविषयम् । यत्तुशनसो वचनम् - 'नरमांसं श्वमांसं वा गोमांसं चाश्वमेव च । भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥' इति,- तदकामविषयम् ॥ यच्चाङ्गिरोवचनम् - 'बलाकाभासगृध्राखुखरवानरसूकरान् । दृष्ट्वा चैषाममेध्यानि स्पृष्ट्वाचाचम्य विशुद्ध्यति ॥ इच्छयैषाममेध्यानि भक्षयित्वा द्विजातयः । कुर्युः सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥' इति'-तल्लङ्घितोद्वा- रितविषयम् । 'सान्तपन'शब्देन चात्र महासान्तपनमुच्यते । अकामतः प्राजाप- त्यविधानात् । यत्पुनरङ्गिरोवचनम् - 'नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च । एषां मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥' इति । यच्च बृहद्यमेनोक्तम्- 'शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत्' इति । तदुभयमपि कामतोऽभ्या- सविषयम् । यत्पुनः शङ्खेनोक्तम् - 'भुक्त्वा चोभयतो दंतांस्तथा चैकशफानपि । भौष्ट्रं गव्यं तथा जग्ध्वा षण्मासान्व्रतमाचरेत् ॥' इति,-तत्कामतोग्यन्ताभ्यास- विषयम् । यत्तु स्मृत्यन्तरोक्तम् - 'जग्ध्वा मांसं नराणां च विड्वराहं खरं तथा । गवाश्वकुञ्जरोष्ट्राणां सर्वं पाञ्चनखं तथा । क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सर- व्रतंम् ॥' इति,-तदत्यन्तानवच्छिन्नाभ्यासविषयम् । अत्र प्रकरणे 'मूत्रपुरीष'ग्रहणं वसाशुक्रासृग्मज्जानामुपलक्षणम् । कर्णविट्प्रभृतिमलषट्के त्वर्धं कल्पनीयम् ॥ केशादिषु पुनः षट्त्रिंशन्मते विशेष उक्तः - 'अजाविमहिषमृगाणां आममां- सभक्षणे केशनखरुधिरप्राशने बुद्धिपूर्वे त्रिरात्रमज्ञानादुपवास' इति । यत्तु प्रचेत- सोक्तम्-'नखकेशमृल्लोष्टभक्षणेऽहोरात्रमभोजनाच्छुद्धिः' इति,-तदप्यकामतः सकृ- त्प्राशनविषयम् । यत्तु स्मृत्यन्तरवचनम् - 'केशकीटनखं प्राश्य मत्स्यकण्टकमेव च । हेमतप्तं घृतं पीत्वा तःक्षणादेव शुद्ध्यति ॥' इति,-तन्मुखमात्रप्रवेशविषयम् ॥ यदा तु भाजनस्थमन्नं केशादिदूषितं भवति तदा - 'अन्ने भोजनकाले तु मक्षि- १. सप्तरात्रं पयः पिबेदिति । २. खराणां च । ३. गव्यं मांसम् । ३८ या०