याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 652, कुल 782 में से
संदर्भ में पढ़ें५६६ याज्ञवल्क्यस्मृतीः काकेशदूषिते । अनन्तरं स्पृशेदापस्तच्चान्नं भस्मना स्पृशेत् ॥' इति प्रचेतसाऽभि- हितं वेदितव्यम् । प्रासङ्गिकोऽयं श्लोकः ॥ सूक्ष्मतमकृमिकीटास्थ्यन्नक्षणे पुनहारी- तेन विशेष उक्तः—'कृमिकीटपिपीलिकाजलौकःपतङ्गास्थिप्राशने गोमूत्रगोमया- हारस्त्रिरात्रेण विशुद्ध्यति' इति । जलौको मत्स्यादिः । एवं च पशुपतङ्गजिलचरन- रमांखादिप्राशने संक्षेपतः प्रायश्चित्तानि प्रदर्शितानि, ग्रन्थगौरवभयात्प्रतिव्यक्तिर्न लिख्यते ॥ अथाशुचिसंपृष्टभक्षणे प्रायश्चित्तं तत्र तावदुच्छिष्टाभक्ष्यभक्षणे वक्ष्यते । तत्र मनुः । (११।१५९)—'बिडालकाकाच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकी- टावपन्नं च पिबेद् ब्राह्मीं सुवर्चलाम् ॥' इति कालविशेषाsub/नुपादानादेकरात्रम् । इदं च कामतो द्रष्टव्यम् । यत्तु विष्णुनोक्तम्—'पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः । संस्काररहितस्यापि भोजने कृच्छ्रपादकम् ॥' इति,—तत्कामकारविषयम् । संस्कारश्च 'देवद्रोण्या'मित्यादिना द्रव्यशुद्धिप्रकरणोक्तो द्रष्टव्यः । यत्तु शातातपेनोक्तम्— 'श्वकाकावलीढशूद्रोच्छिष्टभोजने त्वतिकृच्छ्रम्' इति,—तदकामतौऽभ्यासविषयम् । यत्तु शङ्खेन—'शुनामुच्छिष्टकं भुक्त्वा मासमेकं व्रती भवेत् । काकोच्छिष्टं गवां घ्रातं भुक्त्वा पश्चं व्रती भवेत् ॥' इति यावकव्रतमुक्तं,—तत्कामतौऽभ्यासविषयम् । ब्राह्मणाद्युच्छिष्टभोजने तु बृहद्विष्णुनोक्तं—'ब्राह्मणः शूद्रोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत्, —वैश्योच्छिष्टाशने पञ्चरात्रं राजन्योच्छिष्टाशने त्रिरात्रं ब्राह्मणो- च्छिष्टाशने त्वेकाहम्' इति, तत्कामकारविषयम् । यत्तु यमवचनम्—'भुक्त्वा सह ब्राह्मणेन प्राजापत्येन शुद्ध्यति । भूभुजा सह भुक्त्वान्नं तप्तकृच्छ्रेण शुद्ध्यति ॥ वैश्येन सह भुक्त्वान्नमतिकृच्छ्रेण शुद्ध्यति । शूद्रेण सह भुक्त्वान्नं चान्द्रायणमथाचरेत् ॥' इति, —तत्कार्मतौऽभ्यासविषयम् ॥ यत्पुनः शङ्खवचनम्— 'ब्राह्मणोच्छिष्टाशने महाव्याहृतिभिरभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टाशने ब्राह्मी- रसविपक्वेन त्र्यहं क्षीरेण वर्तयेत्, वैश्योच्छिष्टाशने त्रिरात्रोपोषितो ब्राह्मीं सुवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने षड्रात्रमभोजनम्' इति,—तदकामविषयम् । तत्राभ्यासे द्वैगुण्यादिकं कल्प्यम् । एतच्च पित्रादिव्यतिरेकेण; 'पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्' (४।११) इत्यापस्तम्बस्मरणात् । यत्तु बृहद्व्यासवचनम्—'माता वा भगिनी वापि भार्या वाऽन्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति,—तत्सभोजनविषयम् । उच्छिष्टमात्रभोजने तु 'शूद्रोच्छिष्टभोजने सप्तरात्रमभोजनं स्त्रीणां च' (१।२६।४-५) इत्यापस्तम्बोक्तं द्रष्टव्यम् । यच्चाङ्गिरो- वचनम्—'ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन । तत्र दोषं न मन्यन्ते सर्व एव मनीषिणः ॥' इति,—तद्विवाहविषयमगर्भिषयं वा । अन्योच्छिष्टभोजने तु—
१. संस्कारश्च देवद्रोण्यां ।