याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 655, कुल 782 में से
संदर्भ में पढ़ें'अन्त्यजैः खानिताः कूपास्तडागा वाप्य एव वा। एषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्ध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् ॥ यत्त्वा- पस्तम्बेन चण्डालकूपादिजलपाने पञ्चगव्यमात्रमुक्तम् - 'प्रपास्वरख्ये घटके च सौरे द्रोण्यां जलं कोशविनिर्गतं च। श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्च- गव्येन शुद्ध्येत ॥' इति, तदशक्तविषयम् । 'प्रपां गतो विना तोयं शरीरं यो निषिञ्चति। एकाहक्षपणं कृत्वा सचेलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा नाढ्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥ अथ भावदुष्टभक्षणे प्रायश्चित्तम् - भावदुष्टं च यद्धूर्णत आकारतो वा विप्र- कृष्टतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते। अरिप्रयुक्तगरलादि- शङ्कायां वा । तत्र च पराशरः- 'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते। भुक्तवान्नं ब्राह्मणः पश्चात्त्रिरात्रेण विशुद्ध्यति ॥' इति ।-एतत्कामकारविषयम् । यत्तु गौतमेन भावदुष्टं केवलः इत्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम् - 'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु- 'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञिते। आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ अक्षारलवणं रूक्षं पिबेद्ब्रह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥ पलाशबिल्वपत्राणि कुशान्पद्मोदुम्बरम् । अपः पिबेत्क्वाथयित्वा त्रिरात्रेण विशुद्ध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्का- यामुक्तम् ( ५।२१ ) - 'संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्त- शुद्धयर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥ अथ कालदुष्टभक्षणे प्रायश्चित्तम् - 'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः 'शेषेषूपवसद्देहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केव- लानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिर्दशगोक्षीरा- दिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकपाने तु पञ्चगव्यप्राशनम् - 'शृङ्गास्थिद- न्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ॥' इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः - 'काले नवोदकं शुद्धं न पिबेच्च त्र्यहं हि तत् । अकाले तु दशाहं स्यात्पीत्वा नाद्यादहर्निशम् ॥' इति स्मृत्यन्तरदर्शनात् । ग्रहणकाले भोजने तु चान्द्रायणम् - 'नवश्राद्धग्रामयाजका- ग्रसग्रहभोजने । नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥' इति शातातप- स्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते, तदाह मार्कण्डेयः- 'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन् पूर्वं भोजन- १. कोशविनिःसृतं वा ।